🪷 Mahābhārata · Anuśāsana-Parva · Chapter 57
The Book of the Final Teaching · Parva 13 · 44 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 44 Shlokas
MBh 13.57.1
युधिष्ठिर उवाच
मुह्यामीव निशम्याद्य चिन्तयानः पुनः पुनः
हीनां पार्थिवसंघातैः श्रीमद्भिः पृथिवीमिमाम्
MBh 13.57.2
प्राप्य राज्यानि शतशो महीं जित्वापि भारत
कोटिशः पुरुषान्हत्वा परितप्ये पितामह
MBh 13.57.3
का नु तासां वरस्त्रीणामवस्थाद्य भविष्यति
या हीनाः पतिभिः पुत्रैर्मातुलैर्भ्रातृभिस्तथा
MBh 13.57.4
वयं हि तान्गुरून्हत्वा ज्ञातींश्च सुहृदोऽपि च
अवाक्शीर्षाः पतिष्यामो नरके नात्र संशयः
MBh 13.57.5
शरीरं योक्तुमिच्छामि तपसोग्रेण भारत
उपदिष्टमिहेच्छामि तत्त्वतोऽहं विशां पते
MBh 13.57.6
वैशंपायन उवाच
युधिष्ठिरस्य तद्वाक्यं श्रुत्वा भीष्मो महामनाः
परीक्ष्य निपुणं बुद्ध्या युधिष्ठिरमभाषत
MBh 13.57.7
रहस्यमद्भुतं चैव शृणु वक्ष्यामि यत्त्वयि
या गतिः प्राप्यते येन प्रेत्यभावेषु भारत
MBh 13.57.8
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः
आयुःप्रकर्षो भोगाश्च लभ्यन्ते तपसा विभो
MBh 13.57.9
ज्ञानं विज्ञानमारोग्यं रूपं संपत्तथैव च
सौभाग्यं चैव तपसा प्राप्यते भरतर्षभ
MBh 13.57.10
धनं प्राप्नोति तपसा मौनं ज्ञानं प्रयच्छति
उपभोगांस्तु दानेन ब्रह्मचर्येण जीवितम्
MBh 13.57.11
अहिंसायाः फलं रूपं दीक्षाया जन्म वै कुले
फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां भवेत्
MBh 13.57.12
पयोभक्षो दिवं याति स्नानेन द्रविणाधिकः
गुरुशुश्रूषया विद्या नित्यश्राद्धेन संततिः
MBh 13.57.13
गवाढ्यः शाकदीक्षाभिः स्वर्गमाहुस्तृणाशनात्
स्त्रियस्त्रिषवणस्नानाद्वायुं पीत्वा क्रतुं लभेत्
MBh 13.57.14
नित्यस्नायी भवेद्दक्षः संध्ये तु द्वे जपन्द्विजः
मरुं साधयतो राज्यं नाकपृष्ठमनाशके
MBh 13.57.15
स्थण्डिले शयमानानां गृहाणि शयनानि च
चीरवल्कलवासोभिर्वासांस्याभरणानि च
MBh 13.57.16
शय्यासनानि यानानि योगयुक्ते तपोधने
अग्निप्रवेशे नियतं ब्रह्मलोको विधीयते
MBh 13.57.17
रसानां प्रतिसंहारात्सौभाग्यमिह विन्दति
आमिषप्रतिसंहारात्प्रजास्यायुष्मती भवेत्
MBh 13.57.18
उदवासं वसेद्यस्तु स नराधिपतिर्भवेत्
सत्यवादी नरश्रेष्ठ दैवतैः सह मोदते
MBh 13.57.19
कीर्तिर्भवति दानेन तथारोग्यमहिंसया
द्विजशुश्रूषया राज्यं द्विजत्वं वापि पुष्कलम्
MBh 13.57.20
पानीयस्य प्रदानेन कीर्तिर्भवति शाश्वती
अन्नपानप्रदानेन तृप्यते कामभोगतः
MBh 13.57.21
सान्त्वदः सर्वभूतानां सर्वशोकैर्विमुच्यते
देवशुश्रूषया राज्यं दिव्यं रूपं नियच्छति
MBh 13.57.22
दीपालोकप्रदानेन चक्षुष्मान्भवते नरः
प्रेक्षणीयप्रदानेन स्मृतिं मेधां च विन्दति
MBh 13.57.23
गन्धमाल्यनिवृत्त्या तु कीर्तिर्भवति पुष्कला
केशश्मश्रून्धारयतामग्र्या भवति संततिः
MBh 13.57.24
उपवासं च दीक्षां च अभिषेकं च पार्थिव
कृत्वा द्वादश वर्षाणि वीरस्थानाद्विशिष्यते
MBh 13.57.25
दासीदासमलंकारान्क्षेत्राणि च गृहाणि च
ब्रह्मदेयां सुतां दत्त्वा प्राप्नोति मनुजर्षभ
MBh 13.57.26
क्रतुभिश्चोपवासैश्च त्रिदिवं याति भारत
लभते च चिरं स्थानं बलिपुष्पप्रदो नरः
MBh 13.57.27
सुवर्णशृङ्गैस्तु विभूषितानां; गवां सहस्रस्य नरः प्रदाता
प्राप्नोति पुण्यं दिवि देवलोक;मित्येवमाहुर्मुनिदेवसंघाः
MBh 13.57.28
प्रयच्छते यः कपिलां सचैलां; कांस्योपदोहां कनकाग्रशृङ्गीम्
तैस्तैर्गुणैः कामदुघास्य भूत्वा; नरं प्रदातारमुपैति सा गौः
MBh 13.57.29
यावन्ति लोमानि भवन्ति धेन्वा;स्तावत्फलं प्राप्नुते गोप्रदाता
पुत्रांश्च पौत्रांश्च कुलं च सर्व;मासप्तमं तारयते परत्र
MBh 13.57.30
सदक्षिणां काञ्चनचारुशृङ्गीं; कांस्योपदोहां द्रविणोत्तरीयाम्
धेनुं तिलानां ददतो द्विजाय; लोका वसूनां सुलभा भवन्ति
MBh 13.57.31
स्वकर्मभिर्मानवं संनिबद्धं; तीव्रान्धकारे नरके पतन्तम्
महार्णवे नौरिव वायुयुक्ता; दानं गवां तारयते परत्र
MBh 13.57.32
यो ब्रह्मदेयां तु ददाति कन्यां; भूमिप्रदानं च करोति विप्रे
ददाति चान्नं विधिवच्च यश्च; स लोकमाप्नोति पुरंदरस्य
MBh 13.57.33
नैवेशिकं सर्वगुणोपपन्नं; ददाति वै यस्तु नरो द्विजाय
स्वाध्यायचारित्रगुणान्विताय; तस्यापि लोकाः कुरुषूत्तरेषु
MBh 13.57.34
धुर्यप्रदानेन गवां तथाश्वै;र्लोकानवाप्नोति नरो वसूनाम्
स्वर्गाय चाहुर्हि हिरण्यदानं; ततो विशिष्टं कनकप्रदानम्
MBh 13.57.35
छत्रप्रदानेन गृहं वरिष्ठं; यानं तथोपानहसंप्रदाने
वस्त्रप्रदानेन फलं सुरूपं; गन्धप्रदाने सुरभिर्नरः स्यात्
MBh 13.57.36
पुष्पोपगं वाथ फलोपगं वा; यः पादपं स्पर्शयते द्विजाय
स स्त्रीसमृद्धं बहुरत्नपूर्णं; लभत्ययत्नोपगतं गृहं वै
MBh 13.57.37
भक्षान्नपानीयरसप्रदाता; सर्वानवाप्नोति रसान्प्रकामम्
प्रतिश्रयाच्छादनसंप्रदाता; प्राप्नोति तानेव न संशयोऽत्र
MBh 13.57.38
स्रग्धूपगन्धान्यनुलेपनानि; स्नानानि माल्यानि च मानवो यः
दद्याद्द्विजेभ्यः स भवेदरोग;स्तथाभिरूपश्च नरेन्द्रलोके
MBh 13.57.39
बीजैरशून्यं शयनैरुपेतं; दद्याद्गृहं यः पुरुषो द्विजाय
पुण्याभिरामं बहुरत्नपूर्णं; लभत्यधिष्ठानवरं स राजन्
MBh 13.57.40
सुगन्धचित्रास्तरणोपपन्नं; दद्यान्नरो यः शयनं द्विजाय
रूपान्वितां पक्षवतीं मनोज्ञां; भार्यामयत्नोपगतां लभेत्सः
MBh 13.57.41
पितामहस्यानुचरो वीरशायी भवेन्नरः
नाधिकं विद्यते तस्मादित्याहुः परमर्षयः
MBh 13.57.42
वैशंपायन उवाच
तस्य तद्वचनं श्रुत्वा प्रीतात्मा कुरुनन्दनः
नाश्रमेऽरोचयद्वासं वीरमार्गाभिकाङ्क्षया
MBh 13.57.43
ततो युधिष्ठिरः प्राह पाण्डवान्भरतर्षभ
पितामहस्य यद्वाक्यं तद्वो रोचत्विति प्रभुः
MBh 13.57.44
ततस्तु पाण्डवाः सर्वे द्रौपदी च यशस्विनी
युधिष्ठिरस्य तद्वाक्यं बाढमित्यभ्यपूजयन्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 56
- Next chapter · Anuśāsana-Parva Ch 58 →
Sources and Connected Readings
Continue from these 44 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.57local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷