🪷 Mahābhārata · Anuśāsana-Parva · Chapter 2

The Book of the Final Teaching · Parva 13 · 95 shlokas in canonical Devanāgarī Sanskrit

Mahābhārata Detail Source-Anchor Spine

This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.

MBh 13.2local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

The Devanāgarī Yathārtha · 95 Shlokas

MBh 13.2.1
[य] पितामह महाप्राज्ञ सर्वशास्त्रविशारद शरुतं मे महद आख्यानम इदं मतिमतां वर
MBh 13.2.2
भूयस तु शरॊतुम इच्छामि धर्मार्थसहितं नृप कथ्यमानं तवया किं चित तन मे वयाख्यातुम अर्हसि
MBh 13.2.3
केन मृत्युर गृहस्थेन धर्मम आश्रित्य निर्जितः इत्य एतत सर्वम आचक्ष्व तत्त्वेन मम पार्थिव
MBh 13.2.4
[भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम यथा मृत्युर गृहस्थेन धर्मम आश्रित्य निर्जितः
MBh 13.2.5
मनॊः परजापते राजन्न इक्ष्वाकुर अभवत सुतः तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः
MBh 13.2.6
दशमस तस्य पुत्रस तु दशाश्वॊ नाम भारत माहिष्मत्याम अभूद राजा धर्म आत्मा सत्यविक्रमः
MBh 13.2.7
दशाश्वस्य सुतस तव आसीद राजा परमधार्मिकः सत्ये तपसि दाने च यस्य नित्यं रतं मनः
MBh 13.2.8
मदिराश्व इति खयातः पृथिव्यां पृथिवीपतिः धनुर्वेदे च वेदे च निरतॊ यॊ ऽभवत सदा
MBh 13.2.9
मरिदाश्वस्य पुत्रस तु दयुतिमान नाम पार्थिवः महाभागॊ महातेजा महासत्त्वॊ महाबलः
MBh 13.2.10
पुत्रॊ दयुतिमतस तव आसीत सुवीरॊ नाम पार्थिवः धर्मात्मा कॊशवांश चापि देवराज इवापरः
MBh 13.2.11
सुवीरस्य तु पुत्रॊ ऽभूत सर्वसंग्राम दुर्जयः दुर्जयेत्य अभिविख्यातः सर्वशास्त्रविशारदः
MBh 13.2.12
दुर्जयस्येन्द्र वपुषः पुत्रॊ ऽगनिसदृशद्युतिः दुर्यॊधनॊ नाम महान राजासीद राजसत्तम
MBh 13.2.13
तस्येन्द्र समवीर्यस्य संग्रामेष्व अनिवर्तिनः विषयश च परभावश च तुल्यम एवाभ्यवर्तत
MBh 13.2.14
रत्नैर धनैश च पशुभिः सस्यैश चापि पृथग्विधैः नगरं विषयश चास्य परतिपूर्णं तदाभवत
MBh 13.2.15
न तस्य विषये चाभूत कृपणॊ नापि दुर्गतः वयाधितॊ वा कृशॊ वापि तस्मिन नाभून नरः कव चित
MBh 13.2.16
सुदक्षिणॊ मधुरवाग अनसूयुर जितेन्द्रियः धर्मात्मा चानृशंसश च विक्रान्तॊ ऽथाविकत्थनः
MBh 13.2.17
यज्वा वदान्यॊ मेधावी बरह्मण्यः सत्यसंगरः न चावमन्ता दाता च वेदवेदाङ्गपारगः
MBh 13.2.18
तं नर्मदा देव नदी पुण्या शीतजला शिवा चकमे पुरुषश्रेष्ठं सवेन भावेन भारत
MBh 13.2.19
तस्य जज्ञे तदा नद्यां कन्या राजीवलॊचना नाम्ना सुदर्शना राजन रूपेण च सुदर्शना
MBh 13.2.20
तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर दुर्यॊधन सुता यादृग अभवद वरवर्णिनी
MBh 13.2.21
ताम अग्निश चकमे साक्षाद राजकन्यां सुदर्शनाम भूत्वा च बराह्मणः साक्षाद वरयाम आस तं नृपम
MBh 13.2.22
दरिद्रश चासवर्णश च ममायम इति पार्थिवः न दित्सति सुतां तस्मै तां विप्राय सुदर्शनाम
MBh 13.2.23
ततॊ ऽसय वितते यज्ञे नष्टॊ ऽभूद धव्यवाहनः ततॊ दुर्यॊधनॊ राजा वाक्यम आहर्त्विजस तदा
MBh 13.2.24
दुष्कृतं मम किं नु सयाद भवतां वा दविजर्षभाः येन नाशं जगामाग्निः कृतं कुपुरुषेष्व इव
MBh 13.2.25
न हय अल्पं दुष्कृतं नॊ ऽसति येनाग्निर नाशम आगतः भवतां वाथ वा मह्यं तत्त्वेनैतद विमृश्यताम
MBh 13.2.26
एतद राज्ञॊ वचः शरुत्वा विप्रास ते भरतर्षभ नियता वाग्यताश चैव पावकं शरणं ययुः
MBh 13.2.27
तान दर्शयाम आस तदा भगवान हव्यवाहनः सवं रूपं दीप्तिमत कृत्वा शरदर्कसमद्युतिः
MBh 13.2.28
ततॊ महात्मा तान आह दहनॊ बराह्मणर्षभान वरयाम्य आत्मनॊ ऽरथाय दुर्यॊधन सुताम इति
MBh 13.2.29
ततस ते काल्यम उत्थाय तस्मै राज्ञे नयवेदयन बराह्मणा विस्मिताः सर्वे यद उक्तं चित्रभानुना
MBh 13.2.30
ततः स राजा तच छरुत्वा वचनं बरह्मवादिनाम अवाप्य परमं हर्षं तथेति पराह बुद्धिमान
MBh 13.2.31
परायाचत नृपः शुल्कं भगवन्तं विभावसुम नित्यं सांनिध्यम इह ते चित्रभानॊ भवेद इति तम आह भगवान अग्निर एवम अस्त्व इति पार्थिवम
MBh 13.2.32
ततः सांनिध्यम अध्यापि माहिष्मत्यां विभावसॊः दृष्टं हि सहदेवेन दिशॊ विजयता तदा
MBh 13.2.33
ततस तां समलंकृत्य कन्याम अहत वाससम ददौ दुर्यॊधनॊ राजा पावकाय महात्मने
MBh 13.2.34
परतिजग्राह चाग्निस तां राजपुत्रीं सुदर्शनाम विधिना वेद दृष्टेन वसॊर धाराम इवाध्वरे
MBh 13.2.35
तस्या रूपेण शीलेन कुलेन वपुषा शरिया अभवत परीतिमान अग्निर गर्भं तस्यां समादधे
MBh 13.2.36
तस्यां समभवत पुत्रॊ नाम्नाग्नेयः सुदर्शनः शिशुर एवाध्यगात सर्वं स च बरह्म सनातनम
MBh 13.2.37
अथौघवान नाम नृपॊ नृगस्यासीत पितामहः तस्याप्य ओघवती कन्या पुत्रश चौघरथॊ ऽभवत
MBh 13.2.38
ताम ओघवान ददौ तस्मै सवयम ओघवतीं सुताम सुदर्शनाय विदुषे भार्यार्थं देवरूपिणाम
MBh 13.2.39
स गृहस्थाश्रमरतस तया सह सुदर्शनः कुरुक्षेत्रे ऽवसद राजन्न ओघवत्या समन्वितः
MBh 13.2.40
गृहस्थश चावजेष्यामि मृत्युम इत्य एव स परभॊ परतिज्ञाम अकरॊद धीमान दीप्ततेजा विशां पते
MBh 13.2.41
ताम अथौघवतीं राजन स पावकसुतॊ ऽबरवीत अतिथेः परतिकूलं ते न कर्तव्यं कथं चन
MBh 13.2.42
येन येन च तुष्येत नित्यम एव तवयातिथिः अप्य आत्मनः परदानेन न ते कार्या विचारणा
MBh 13.2.43
एतद वरतं मम सदा हृदि संपरिवर्तते गृहस्थानां हि सुश्रॊणि नातिथेर विद्यते परम
MBh 13.2.44
परमाणं यदि वामॊरु वचस ते मम शॊभने इदं वचनम अव्यग्रा हृदि तवं धारयेः सदा
MBh 13.2.45
निष्क्रान्ते मयि कल्याणि तथा संनिहिते ऽनघे नातिथिस ते ऽवमन्तव्यः परमाणं यद्य अहं तव
MBh 13.2.46
तम अब्रवीद ओघवती यता मूर्ध्नि कृताञ्जलिः न मे तवद वचनात किं चिद अकर्तव्यं कथं चन
MBh 13.2.47
जिगीषमाणं तु गृहे तदा मृत्युः सुदर्शनम पृष्ठतॊ ऽनवगमद राजन रन्धान्वेषी तदा सदा
MBh 13.2.48
इध्मार्थं तु गते तस्मिन्न अग्निपुत्रे सुदर्शने अतिथिर बराह्मणः शरीमांस ताम आहौघवतीं तदा
MBh 13.2.49
आतिथ्यं दत्तम इच्छामि तवयाद्य वरवर्णिनि परमाणं यदि धर्मस ते गृहस्थाश्रमसंमतः
MBh 13.2.50
इत्य उक्ता तेन विप्रेण राजपुत्री यशस्विनी विधिना परतिजग्राह वेदॊक्तेन विशां पते
MBh 13.2.51
आसनं चैव पाद्यं च तस्मै दत्त्वा दविजातये परॊवाचौघवती विप्रं केनार्थः किं ददामि ते
MBh 13.2.52
ताम अब्रवीत ततॊ विप्रॊ राजपुत्रीं सुदर्शनाम तवया ममार्थः कल्याणि निर्विशङ्के तद आचर
MBh 13.2.53
यदि परमाणं धर्मस ते गृहस्थाश्रमसंमतः परदानेनात्मनॊ राज्ञि कर्तुम अर्हसि मे परियम
MBh 13.2.54
तथा संछन्द्यमानॊ ऽनयैर ईप्सितैर नृप कन्यया नान्यम आत्मप्रदानात स तस्या वव्रे वरं दविजः
MBh 13.2.55
सा तु राजसुता समृत्वा हर्तुर वचनम आदितः तथेति लज्जमाना सा तम उवाच दविजर्षभम
MBh 13.2.56
ततॊ रहः स विप्रर्षिः सा चैवॊपविवेश ह संस्मृत्य भर्तुर वचनं गृहस्थाश्रमकाङ्क्षिणः
MBh 13.2.57
अथेध्मान समुपादाय स पावकिर उपागमत मृत्युना रौद्रभावेन नित्यं बन्धुर इवान्वितः
MBh 13.2.58
ततस तव आश्रमम आगम्य स पावकसुतस तदा ताम आजुहावौघवतीं कवासि यातेति चासकृत
MBh 13.2.59
तस्मै परतिवचः सा तु भर्त्रे न परददौ तदा कराभ्यां तेन विप्रेण सपृष्टा भर्तृव्रता सती
MBh 13.2.60
उच्छिष्टास्मीति मन्वाना लज्जिता भर्तुर एव च तूष्णींभूताभवत साध्वी न चॊवाचाथ किं चन
MBh 13.2.61
अथ तां पुनर एवेदं परॊवाच स सुदर्शनः कव सा साध्वी कव सा याता गरीयः किम अतॊ मम
MBh 13.2.62
पतिव्रता सत्यशीला नित्यं चैवार्जवे रता कथं न परत्युदेत्य अद्य समयमाना यथा पुरा
MBh 13.2.63
उटजस्थस तु तं विप्रः परत्युवाच सुदर्शनम अतिथिं विद्धि संप्राप्तं पावके बराह्मणं च माम
MBh 13.2.64
अनया छन्द्यमानॊ ऽहं भार्यया तव सत्तम तैस तैर अतिथि सत्कारैर आर्जवे ऽसया दृढं मनः
MBh 13.2.65
अनेन विधिना सेयं माम अर्चति शुभानना अनुरूपं यद अत्राद्य तद भवान वक्तुम अर्हति
MBh 13.2.66
कूटमुद्गर हस्तस तु मृत्युस तं वै समन्वयात हीनप्रतिज्ञम अत्रैनं वधिष्यामीति चिन्तयन
MBh 13.2.67
सुदर्शनस तु मनसा कर्मणा चक्षुषा गिरा तयक्तेर्ष्यस तयक्तमन्युश च समयमानॊ ऽबरवीद इदम
MBh 13.2.68
सुरतं ते ऽसतु विप्राग्र्य परीतिर हि परमा मम गृहस्थस्य हि धर्मॊ ऽगर्यः संप्राप्तातिथि पूजनम
MBh 13.2.69
अतिथिः पूजितॊ यस्य गृहस्थस्य तु गच्छति नान्यस तस्मात परॊ धर्म इति पराहुर मनीषिणः
MBh 13.2.70
पराणा हि मम दाराश च यच चान्यद विद्यते वसु अतिथिभ्यॊ मया देयम इति मे वरतम आहितम
MBh 13.2.71
निःसंदिग्धं मया वाक्यम एतत ते समुदाहृतम तेनाहं विप्र सत्येन सवयम आत्मानम आलभे
MBh 13.2.72
पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम बुद्धिर आत्मा मनः कालॊ दिशश चैव गुणा दश
MBh 13.2.73
नित्यम एते हि पश्यन्ति देहिनां देहसंश्रिताः सुकृतं दुष्कृतं चापि कर्म धर्मभृतां वर
MBh 13.2.74
यथैषा नानृता वाणी मयाद्य समुदाहृता तेन सत्येन मां देवाः पालयन्तु दहन्तु वा
MBh 13.2.75
ततॊ नादः समभवद दिक्षु सर्वासु भारत असकृत सत्यम इत्य एव नैतन मिथ्येति सर्वशः
MBh 13.2.76
उटजात तु ततस तस्मान निश्चक्राम स वै दविजः वपुषा खं च भूमिं च वयाप्य वायुर इवॊद्यतः
MBh 13.2.77
सवरेण विप्रः शैक्षेण तरीँल लॊकान अनुनादयन उवाच चैनं धर्मज्ञं पूर्वम आमन्त्र्य नामतः
MBh 13.2.78
धर्मॊ ऽहम अस्मि भद्रं ते जिज्ञासार्थं तवानघ पराप्तः सत्यं च ते जञात्वा परीतिर मे परमा तवयि
MBh 13.2.79
विजितश च तवया मृत्युर यॊ ऽयं तवाम अनुगच्छति रन्ध्रान्वेषी तव सदा तवया धृत्या वशीकृतः
MBh 13.2.80
न चास्ति शक्तिस तरैलॊक्ये कस्य चित पुरुषॊत्तम पतिव्रताम इमां साध्वीं तवॊद्वीक्षितुम अप्य उत
MBh 13.2.81
रक्षिता तवद गुणैर एषा पतिव्रतगुणैस तथा अधृष्या यद इयं बरूयात तथा तन नान्यथा भवेत
MBh 13.2.82
एषा हि तपसा सवेन संयुक्ता बरह्मवादिनी पावनार्थं च लॊकस्य सरिच्छ्रेष्ठा भविष्यति
MBh 13.2.83
अर्धेनौघवती नाम तवाम अर्थेनानुयास्यति शरीरेण महाभागा यॊगॊ हय अस्या वशे सथितः
MBh 13.2.84
अनया सह लॊकांश च गन्तासि तपसार्जितान यत्र नावृत्तिम अभ्येति शाश्वतांस तान सनातनान
MBh 13.2.85
अनेन चैव देहेन लॊकांस तवम अभिपत्स्यसे निर्जितश च तवया मृत्युर ऐश्वर्यं च तवॊत्तमम
MBh 13.2.86
पञ्च भूतान्य अतिक्रान्तः सववीर्याच च मनॊ भवः गृहस्थ धर्मेणानेन कामक्रॊधौ च ते जितौ
MBh 13.2.87
सनेहॊ रागश च तन्द्री च मॊहॊ दरॊहश च केवलः तव शुश्रूषया राजन राजपुत्र्या विनिर्जिताः
MBh 13.2.88
[भ] शुक्लानां तु सहस्रेण वाजिनां रथम उत्तमम युक्तं परगृह्य भगवान वयवसायॊ जगाम तम
MBh 13.2.89
मृत्युर आत्मा च लॊकाश च जिता भूतानि पञ्च च बुद्धिः कालॊ मनॊ वयॊम कामक्रॊधौ तथैव च
MBh 13.2.90
तस्माद गृहाश्रमस्थस्य नान्यद दैवतम अस्ति वै ऋते ऽतिथिं नरव्याघ्र मनसैतद विचारय
MBh 13.2.91
अतिथिः पूजितॊ यस्य धयायते मनसा शुभम न तत करतुशतेनापि तुल्यम आहुर मनीषिणः
MBh 13.2.92
पात्रं तव अतिथिम आसाद्य शीलाढ्यं यॊ न पूजयेत स दत्त्वा सुकृतं तस्य कषपयेत हय अनर्चितः
MBh 13.2.93
एतत ते कथितं पुत्र मयाख्यानम अनुत्तमम यथा हि विजितॊ मृत्युर गृहस्थेन पुराभवत
MBh 13.2.94
धन्यं यशस्यम आयुष्मद इदम आख्यानम उत्तमम बुभूषिताभिमन्तव्यं सर्वदुश्चरितापहम
MBh 13.2.95
य इदं कथयेद विद्वान अहन्य अहनि भारत सुदर्शनस्य चरितं पुण्याँल लॊकान अवाप्नुयात

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷