🪷 Mahābhārata · Anuśāsana-Parva · Chapter 2

The Book of the Final Teaching · Parva 13 · 95 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 95 Shlokas

MBh 13.2.1
युधिष्ठिर उवाच पितामह महाप्राज्ञ सर्वशास्त्रविशारद श्रुतं मे महदाख्यानमिदं मतिमतां वर
MBh 13.2.2
भूयस्तु श्रोतुमिच्छामि धर्मार्थसहितं नृप कथ्यमानं त्वया किंचित्तन्मे व्याख्यातुमर्हसि
MBh 13.2.3
केन मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः इत्येतत्सर्वमाचक्ष्व तत्त्वेन मम पार्थिव
MBh 13.2.4
भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् यथा मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः
MBh 13.2.5
मनोः प्रजापते राजन्निक्ष्वाकुरभवत्सुतः तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः
MBh 13.2.6
दशमस्तस्य पुत्रस्तु दशाश्वो नाम भारत माहिष्मत्यामभूद्राजा धर्मात्मा सत्यविक्रमः
MBh 13.2.7
दशाश्वस्य सुतस्त्वासीद्राजा परमधार्मिकः सत्ये तपसि दाने च यस्य नित्यं रतं मनः
MBh 13.2.8
मदिराश्व इति ख्यातः पृथिव्यां पृथिवीपतिः धनुर्वेदे च वेदे च निरतो योऽभवत्सदा
MBh 13.2.9
मदिराश्वस्य पुत्रस्तु द्युतिमान्नाम पार्थिवः महाभागो महातेजा महासत्त्वो महाबलः
MBh 13.2.10
पुत्रो द्युतिमतस्त्वासीत्सुवीरो नाम पार्थिवः धर्मात्मा कोशवांश्चापि देवराज इवापरः
MBh 13.2.11
सुवीरस्य तु पुत्रोऽभूत्सर्वसंग्रामदुर्जयः दुर्जयेत्यभिविख्यातः सर्वशास्त्रविशारदः
MBh 13.2.12
दुर्जयस्येन्द्रवपुषः पुत्रोऽग्निसदृशद्युतिः दुर्योधनो नाम महान्राजासीद्राजसत्तम
MBh 13.2.13
तस्येन्द्रसमवीर्यस्य संग्रामेष्वनिवर्तिनः विषयश्च प्रभावश्च तुल्यमेवाभ्यवर्तत
MBh 13.2.14
रत्नैर्धनैश्च पशुभिः सस्यैश्चापि पृथग्विधैः नगरं विषयश्चास्य प्रतिपूर्णं तदाभवत्
MBh 13.2.15
न तस्य विषये चाभूत्कृपणो नापि दुर्गतः व्याधितो वा कृशो वापि तस्मिन्नाभून्नरः क्वचित्
MBh 13.2.16
सुदक्षिणो मधुरवागनसूयुर्जितेन्द्रियः धर्मात्मा चानृशंसश्च विक्रान्तोऽथाविकत्थनः
MBh 13.2.17
यज्वा वदान्यो मेधावी ब्रह्मण्यः सत्यसंगरः न चावमन्ता दाता च वेदवेदाङ्गपारगः
MBh 13.2.18
तं नर्मदा देवनदी पुण्या शीतजला शिवा चकमे पुरुषश्रेष्ठं स्वेन भावेन भारत
MBh 13.2.19
तस्य जज्ञे तदा नद्यां कन्या राजीवलोचना नाम्ना सुदर्शना राजन्रूपेण च सुदर्शना
MBh 13.2.20
तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर दुर्योधनसुता यादृगभवद्वरवर्णिनी
MBh 13.2.21
तामग्निश्चकमे साक्षाद्राजकन्यां सुदर्शनाम् भूत्वा च ब्राह्मणः साक्षाद्वरयामास तं नृपम्
MBh 13.2.22
दरिद्रश्चासवर्णश्च ममायमिति पार्थिवः न दित्सति सुतां तस्मै तां विप्राय सुदर्शनाम्
MBh 13.2.23
ततोऽस्य वितते यज्ञे नष्टोऽभूद्धव्यवाहनः ततो दुर्योधनो राजा वाक्यमाहर्त्विजस्तदा
MBh 13.2.24
दुष्कृतं मम किं नु स्याद्भवतां वा द्विजर्षभाः येन नाशं जगामाग्निः कृतं कुपुरुषेष्विव
MBh 13.2.25
न ह्यल्पं दुष्कृतं नोऽस्ति येनाग्निर्नाशमागतः भवतां वाथ वा मह्यं तत्त्वेनैतद्विमृश्यताम्
MBh 13.2.26
एतद्राज्ञो वचः श्रुत्वा विप्रास्ते भरतर्षभ नियता वाग्यताश्चैव पावकं शरणं ययुः
MBh 13.2.27
तान्दर्शयामास तदा भगवान्हव्यवाहनः स्वं रूपं दीप्तिमत्कृत्वा शरदर्कसमद्युतिः
MBh 13.2.28
ततो महात्मा तानाह दहनो ब्राह्मणर्षभान् वरयाम्यात्मनोऽर्थाय दुर्योधनसुतामिति
MBh 13.2.29
ततस्ते काल्यमुत्थाय तस्मै राज्ञे न्यवेदयन् ब्राह्मणा विस्मिताः सर्वे यदुक्तं चित्रभानुना
MBh 13.2.30
ततः स राजा तच्छ्रुत्वा वचनं ब्रह्मवादिनाम् अवाप्य परमं हर्षं तथेति प्राह बुद्धिमान्
MBh 13.2.31
प्रायाचत नृपः शुल्कं भगवन्तं विभावसुम् नित्यं सांनिध्यमिह ते चित्रभानो भवेदिति तमाह भगवानग्निरेवमस्त्विति पार्थिवम्
MBh 13.2.32
ततः सांनिध्यमध्यापि माहिष्मत्यां विभावसोः दृष्टं हि सहदेवेन दिशो विजयता तदा
MBh 13.2.33
ततस्तां समलंकृत्य कन्यामहतवाससम् ददौ दुर्योधनो राजा पावकाय महात्मने
MBh 13.2.34
प्रतिजग्राह चाग्निस्तां राजपुत्रीं सुदर्शनाम् विधिना वेददृष्टेन वसोर्धारामिवाध्वरे
MBh 13.2.35
तस्या रूपेण शीलेन कुलेन वपुषा श्रिया अभवत्प्रीतिमानग्निर्गर्भं तस्यां समादधे
MBh 13.2.36
तस्यां समभवत्पुत्रो नाम्नाग्नेयः सुदर्शनः शिशुरेवाध्यगात्सर्वं स च ब्रह्म सनातनम्
MBh 13.2.37
अथौघवान्नाम नृपो नृगस्यासीत्पितामहः तस्याप्योघवती कन्या पुत्रश्चौघरथोऽभवत्
MBh 13.2.38
तामोघवान्ददौ तस्मै स्वयमोघवतीं सुताम् सुदर्शनाय विदुषे भार्यार्थे देवरूपिणीम्
MBh 13.2.39
स गृहस्थाश्रमरतस्तया सह सुदर्शनः कुरुक्षेत्रेऽवसद्राजन्नोघवत्या समन्वितः
MBh 13.2.40
गृहस्थश्चावजेष्यामि मृत्युमित्येव स प्रभो प्रतिज्ञामकरोद्धीमान्दीप्ततेजा विशां पते
MBh 13.2.41
तामथौघवतीं राजन्स पावकसुतोऽब्रवीत् अतिथेः प्रतिकूलं ते न कर्तव्यं कथंचन
MBh 13.2.42
येन येन च तुष्येत नित्यमेव त्वयातिथिः अप्यात्मनः प्रदानेन न ते कार्या विचारणा
MBh 13.2.43
एतद्व्रतं मम सदा हृदि संपरिवर्तते गृहस्थानां हि सुश्रोणि नातिथेर्विद्यते परम्
MBh 13.2.44
प्रमाणं यदि वामोरु वचस्ते मम शोभने इदं वचनमव्यग्रा हृदि त्वं धारयेः सदा
MBh 13.2.45
निष्क्रान्ते मयि कल्याणि तथा संनिहितेऽनघे नातिथिस्तेऽवमन्तव्यः प्रमाणं यद्यहं तव
MBh 13.2.46
तमब्रवीदोघवती यता मूर्ध्नि कृताञ्जलिः न मे त्वद्वचनात्किंचिदकर्तव्यं कथंचन
MBh 13.2.47
जिगीषमाणं तु गृहे तदा मृत्युः सुदर्शनम् पृष्ठतोऽन्वगमद्राजन्रन्ध्रान्वेषी तदा सदा
MBh 13.2.48
इध्मार्थं तु गते तस्मिन्नग्निपुत्रे सुदर्शने अतिथिर्ब्राह्मणः श्रीमांस्तामाहौघवतीं तदा
MBh 13.2.49
आतिथ्यं दत्तमिच्छामि त्वयाद्य वरवर्णिनि प्रमाणं यदि धर्मस्ते गृहस्थाश्रमसंमतः
MBh 13.2.50
इत्युक्ता तेन विप्रेण राजपुत्री यशस्विनी विधिना प्रतिजग्राह वेदोक्तेन विशां पते
MBh 13.2.51
आसनं चैव पाद्यं च तस्मै दत्त्वा द्विजातये प्रोवाचौघवती विप्रं केनार्थः किं ददामि ते
MBh 13.2.52
तामब्रवीत्ततो विप्रो राजपुत्रीं सुदर्शनाम् त्वया ममार्थः कल्याणि निर्विशङ्के तदाचर
MBh 13.2.53
यदि प्रमाणं धर्मस्ते गृहस्थाश्रमसंमतः प्रदानेनात्मनो राज्ञि कर्तुमर्हसि मे प्रियम्
MBh 13.2.54
तथा संछन्द्यमानोऽन्यैरीप्सितैर्नृपकन्यया नान्यमात्मप्रदानात्स तस्या वव्रे वरं द्विजः
MBh 13.2.55
सा तु राजसुता स्मृत्वा भर्तुर्वचनमादितः तथेति लज्जमाना सा तमुवाच द्विजर्षभम्
MBh 13.2.56
ततो रहः स विप्रर्षिः सा चैवोपविवेश ह संस्मृत्य भर्तुर्वचनं गृहस्थाश्रमकाङ्क्षिणः
MBh 13.2.57
अथेध्मान्समुपादाय स पावकिरुपागमत् मृत्युना रौद्रभावेन नित्यं बन्धुरिवान्वितः
MBh 13.2.58
ततस्त्वाश्रममागम्य स पावकसुतस्तदा तामाजुहावौघवतीं क्वासि यातेति चासकृत्
MBh 13.2.59
तस्मै प्रतिवचः सा तु भर्त्रे न प्रददौ तदा कराभ्यां तेन विप्रेण स्पृष्टा भर्तृव्रता सती
MBh 13.2.60
उच्छिष्टास्मीति मन्वाना लज्जिता भर्तुरेव च तूष्णींभूताभवत्साध्वी न चोवाचाथ किंचन
MBh 13.2.61
अथ तां पुनरेवेदं प्रोवाच स सुदर्शनः क्व सा साध्वी क्व सा याता गरीयः किमतो मम
MBh 13.2.62
पतिव्रता सत्यशीला नित्यं चैवार्जवे रता कथं न प्रत्युदेत्यद्य स्मयमाना यथा पुरा
MBh 13.2.63
उटजस्थस्तु तं विप्रः प्रत्युवाच सुदर्शनम् अतिथिं विद्धि संप्राप्तं पावके ब्राह्मणं च माम्
MBh 13.2.64
अनया छन्द्यमानोऽहं भार्यया तव सत्तम तैस्तैरतिथिसत्कारैरार्जवेऽस्या दृढं मनः
MBh 13.2.65
अनेन विधिना सेयं मामर्चति शुभानना अनुरूपं यदत्राद्य तद्भवान्वक्तुमर्हति
MBh 13.2.66
कूटमुद्गरहस्तस्तु मृत्युस्तं वै समन्वयात् हीनप्रतिज्ञमत्रैनं वधिष्यामीति चिन्तयन्
MBh 13.2.67
सुदर्शनस्तु मनसा कर्मणा चक्षुषा गिरा त्यक्तेर्ष्यस्त्यक्तमन्युश्च स्मयमानोऽब्रवीदिदम्
MBh 13.2.68
सुरतं तेऽस्तु विप्राग्र्य प्रीतिर्हि परमा मम गृहस्थस्य हि धर्मोऽग्र्यः संप्राप्तातिथिपूजनम्
MBh 13.2.69
अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति नान्यस्तस्मात्परो धर्म इति प्राहुर्मनीषिणः
MBh 13.2.70
प्राणा हि मम दाराश्च यच्चान्यद्विद्यते वसु अतिथिभ्यो मया देयमिति मे व्रतमाहितम्
MBh 13.2.71
निःसंदिग्धं मया वाक्यमेतत्ते समुदाहृतम् तेनाहं विप्र सत्येन स्वयमात्मानमालभे
MBh 13.2.72
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् बुद्धिरात्मा मनः कालो दिशश्चैव गुणा दश
MBh 13.2.73
नित्यमेते हि पश्यन्ति देहिनां देहसंश्रिताः सुकृतं दुष्कृतं चापि कर्म धर्मभृतां वर
MBh 13.2.74
यथैषा नानृता वाणी मयाद्य समुदाहृता तेन सत्येन मां देवाः पालयन्तु दहन्तु वा
MBh 13.2.75
ततो नादः समभवद्दिक्षु सर्वासु भारत असकृत्सत्यमित्येव नैतन्मिथ्येति सर्वशः
MBh 13.2.76
उटजात्तु ततस्तस्मान्निश्चक्राम स वै द्विजः वपुषा खं च भूमिं च व्याप्य वायुरिवोद्यतः
MBh 13.2.77
स्वरेण विप्रः शैक्षेण त्रीँल्लोकाननुनादयन् उवाच चैनं धर्मज्ञं पूर्वमामन्त्र्य नामतः
MBh 13.2.78
धर्मोऽहमस्मि भद्रं ते जिज्ञासार्थं तवानघ प्राप्तः सत्यं च ते ज्ञात्वा प्रीतिर्मे परमा त्वयि
MBh 13.2.79
विजितश्च त्वया मृत्युर्योऽयं त्वामनुगच्छति रन्ध्रान्वेषी तव सदा त्वया धृत्या वशीकृतः
MBh 13.2.80
न चास्ति शक्तिस्त्रैलोक्ये कस्यचित्पुरुषोत्तम पतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत
MBh 13.2.81
रक्षिता त्वद्गुणैरेषा पतिव्रतगुणैस्तथा अधृष्या यदियं ब्रूयात्तथा तन्नान्यथा भवेत्
MBh 13.2.82
एषा हि तपसा स्वेन संयुक्ता ब्रह्मवादिनी पावनार्थं च लोकस्य सरिच्छ्रेष्ठा भविष्यति
MBh 13.2.83
अर्धेनौघवती नाम त्वामर्धेनानुयास्यति शरीरेण महाभागा योगो ह्यस्या वशे स्थितः
MBh 13.2.84
अनया सह लोकांश्च गन्तासि तपसार्जितान् यत्र नावृत्तिमभ्येति शाश्वतांस्तान्सनातनान्
MBh 13.2.85
अनेन चैव देहेन लोकांस्त्वमभिपत्स्यसे निर्जितश्च त्वया मृत्युरैश्वर्यं च तवोत्तमम्
MBh 13.2.86
पञ्च भूतान्यतिक्रान्तः स्ववीर्याच्च मनोभवः गृहस्थधर्मेणानेन कामक्रोधौ च ते जितौ
MBh 13.2.87
स्नेहो रागश्च तन्द्री च मोहो द्रोहश्च केवलः तव शुश्रूषया राजन्राजपुत्र्या विनिर्जिताः
MBh 13.2.88
भीष्म उवाच शुक्लानां तु सहस्रेण वाजिनां रथमुत्तमम् युक्तं प्रगृह्य भगवान्व्यवसायो जगाम तम्
MBh 13.2.89
मृत्युरात्मा च लोकाश्च जिता भूतानि पञ्च च बुद्धिः कालो मनो व्योम कामक्रोधौ तथैव च
MBh 13.2.90
तस्माद्गृहाश्रमस्थस्य नान्यद्दैवतमस्ति वै ऋतेऽतिथिं नरव्याघ्र मनसैतद्विचारय
MBh 13.2.91
अतिथिः पूजितो यस्य ध्यायते मनसा शुभम् न तत्क्रतुशतेनापि तुल्यमाहुर्मनीषिणः
MBh 13.2.92
पात्रं त्वतिथिमासाद्य शीलाढ्यं यो न पूजयेत् स दत्त्वा सुकृतं तस्य क्षपयेत ह्यनर्चितः
MBh 13.2.93
एतत्ते कथितं पुत्र मयाख्यानमनुत्तमम् यथा हि विजितो मृत्युर्गृहस्थेन पुराभवत्
MBh 13.2.94
धन्यं यशस्यमायुष्यमिदमाख्यानमुत्तमम् बुभूषताभिमन्तव्यं सर्वदुश्चरितापहम्
MBh 13.2.95
य इदं कथयेद्विद्वानहन्यहनि भारत सुदर्शनस्य चरितं पुण्याँल्लोकानवाप्नुयात्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 95 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.2local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷