🪷 Mahābhārata · Anuśāsana-Parva · Chapter 1
The Book of the Final Teaching · Parva 13 · 76 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 76 Shlokas
MBh 13.1.1
युधिष्ठिर उवाच
शमो बहुविधाकारः सूक्ष्म उक्तः पितामह
न च मे हृदये शान्तिरस्ति कृत्वेदमीदृशम्
MBh 13.1.2
अस्मिन्नर्थे बहुविधा शान्तिरुक्ता त्वयानघ
स्वकृते का नु शान्तिः स्याच्छमाद्बहुविधादपि
MBh 13.1.3
शराचितशरीरं हि तीव्रव्रणमुदीक्ष्य च
शमं नोपलभे वीर दुष्कृतान्येव चिन्तयन्
MBh 13.1.4
रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम्
त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्विवाम्बुजम्
MBh 13.1.5
अतः कष्टतरं किं नु मत्कृते यत्पितामहः
इमामवस्थां गमितः प्रत्यमित्रै रणाजिरे
तथैवान्ये नृपतयः सहपुत्राः सबान्धवाः
MBh 13.1.6
वयं हि धार्तराष्ट्राश्च कालमन्युवशानुगाः
कृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप
MBh 13.1.7
अहं तव ह्यन्तकरः सुहृद्वधकरस्तथा
न शान्तिमधिगच्छामि पश्यंस्त्वां दुःखितं क्षितौ
MBh 13.1.8
भीष्म उवाच
परतन्त्रं कथं हेतुमात्मानमनुपश्यसि
कर्मण्यस्मिन्महाभाग सूक्ष्मं ह्येतदतीन्द्रियम्
MBh 13.1.9
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः
MBh 13.1.10
गौतमी नाम कौन्तेय स्थविरा शमसंयुता
सर्पेण दष्टं स्वं पुत्रमपश्यद्गतचेतनम्
MBh 13.1.11
अथ तं स्नायुपाशेन बद्ध्वा सर्पममर्षितः
लुब्धकोऽर्जुनको नाम गौतम्याः समुपानयत्
MBh 13.1.12
तां चाब्रवीदयं ते स पुत्रहा पन्नगाधमः
ब्रूहि क्षिप्रं महाभागे वध्यतां केन हेतुना
MBh 13.1.13
अग्नौ प्रक्षिप्यतामेष च्छिद्यतां खण्डशोऽपि वा
न ह्ययं बालहा पापश्चिरं जीवितुमर्हति
MBh 13.1.14
गौतम्युवाच
विसृजैनमबुद्धिस्त्वं न वध्योऽर्जुनक त्वया
को ह्यात्मानं गुरुं कुर्यात्प्राप्तव्ये सति चिन्तयन्
MBh 13.1.15
प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः
मज्जन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके
MBh 13.1.16
न चामृत्युर्भविता वै हतेऽस्मि;न्को वात्ययः स्यादहतेऽस्मिञ्जनस्य
अस्योत्सर्गे प्राणयुक्तस्य जन्तो;र्मृत्योर्लोकं को नु गच्छेदनन्तम्
MBh 13.1.17
लुब्धक उवाच
जानाम्येवं नेह गुणागुणज्ञाः; सर्वे नियुक्ता गुरवो वै भवन्ति
स्वस्थस्यैते तूपदेशा भवन्ति; तस्मात्क्षुद्रं सर्पमेनं हनिष्ये
MBh 13.1.18
समीप्सन्तः कालयोगं त्यजन्ति; सद्यः शुचं त्वर्थविदस्त्यजन्ति
श्रेयः क्षयः शोचतां नित्यशो हि; तस्मात्त्याज्यं जहि शोकं हतेऽस्मिन्
MBh 13.1.19
गौतम्युवाच
न चैवार्तिर्विद्यतेऽस्मद्विधानां; धर्मारामः सततं सज्जनो हि
नित्यायस्तो बालजनो न चास्ति; धर्मो ह्येष प्रभवाम्यस्य नाहम्
MBh 13.1.20
न ब्राह्मणानां कोपोऽस्ति कुतः कोपाच्च यातना
मार्दवात्क्षम्यतां साधो मुच्यतामेष पन्नगः
MBh 13.1.21
लुब्धक उवाच
हत्वा लाभः श्रेय एवाव्ययं स्या;त्सद्यो लाभो बलवद्भिः प्रशस्तः
कालाल्लाभो यस्तु सद्यो भवेत; हते श्रेयः कुत्सिते त्वीदृशे स्यात्
MBh 13.1.22
गौतम्युवाच
कार्थप्राप्तिर्गृह्य शत्रुं निहत्य; का वा शान्तिः प्राप्य शत्रुं नमुक्त्वा
कस्मात्सौम्य भुजगे न क्षमेयं; मोक्षं वा किं कारणं नास्य कुर्याम्
MBh 13.1.23
लुब्धक उवाच
अस्मादेकस्माद्बहवो रक्षितव्या; नैको बहुभ्यो गौतमि रक्षितव्यः
कृतागसं धर्मविदस्त्यजन्ति; सरीसृपं पापमिमं जहि त्वम्
MBh 13.1.24
गौतम्युवाच
नास्मिन्हते पन्नगे पुत्रको मे; संप्राप्स्यते लुब्धक जीवितं वै
गुणं चान्यं नास्य वधे प्रपश्ये; तस्मात्सर्पं लुब्धक मुञ्च जीवम्
MBh 13.1.25
लुब्धक उवाच
वृत्रं हत्वा देवराट्श्रेष्ठभाग्वै; यज्ञं हत्वा भागमवाप चैव
शूली देवो देववृत्तं कुरु त्वं; क्षिप्रं सर्पं जहि मा भूद्विशङ्का
MBh 13.1.26
भीष्म उवाच
असकृत्प्रोच्यमानापि गौतमी भुजगं प्रति
लुब्धकेन महाभागा पापे नैवाकरोन्मतिम्
MBh 13.1.27
ईषदुच्छ्वसमानस्तु कृच्छ्रात्संस्तभ्य पन्नगः
उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः
MBh 13.1.28
को न्वर्जुनक दोषोऽत्र विद्यते मम बालिश
अस्वतन्त्रं हि मां मृत्युर्विवशं यदचूचुदत्
MBh 13.1.29
तस्यायं वचनाद्दष्टो न कोपेन न काम्यया
तस्य तत्किल्बिषं लुब्ध विद्यते यदि किल्बिषम्
MBh 13.1.30
लुब्धक उवाच
यद्यन्यवशगेनेदं कृतं ते पन्नगाशुभम्
कारणं वै त्वमप्यत्र तस्मात्त्वमपि किल्बिषी
MBh 13.1.31
मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा
कारणत्वे प्रकल्प्यन्ते तथा त्वमपि पन्नग
MBh 13.1.32
किल्बिषी चापि मे वध्यः किल्बिषी चासि पन्नग
आत्मानं कारणं ह्यत्र त्वमाख्यासि भुजंगम
MBh 13.1.33
सर्प उवाच
सर्व एते ह्यस्ववशा दण्डचक्रादयो यथा
तथाहमपि तस्मान्मे नैष हेतुर्मतस्तव
MBh 13.1.34
अथ वा मतमेतत्ते तेऽप्यन्योन्यप्रयोजकाः
कार्यकारणसंदेहो भवत्यन्योन्यचोदनात्
MBh 13.1.35
एवं सति न दोषो मे नास्मि वध्यो न किल्बिषी
किल्बिषं समवाये स्यान्मन्यसे यदि किल्बिषम्
MBh 13.1.36
लुब्धक उवाच
कारणं यदि न स्याद्वै न कर्ता स्यास्त्वमप्युत
विनाशे कारणं त्वं च तस्माद्वध्योऽसि मे मतः
MBh 13.1.37
असत्यपि कृते कार्ये नेह पन्नग लिप्यते
तस्मान्नात्रैव हेतुः स्याद्वध्यः किं बहु भाषसे
MBh 13.1.38
सर्प उवाच
कार्याभावे क्रिया न स्यात्सत्यसत्यपि कारणे
तस्मात्त्वमस्मिन्हेतौ मे वाच्यो हेतुर्विशेषतः
MBh 13.1.39
यद्यहं कारणत्वेन मतो लुब्धक तत्त्वतः
अन्यः प्रयोगे स्यादत्र किल्बिषी जन्तुनाशने
MBh 13.1.40
लुब्धक उवाच
वध्यस्त्वं मम दुर्बुद्धे बालघाती नृशंसकृत्
भाषसे किं बहु पुनर्वध्यः सन्पन्नगाधम
MBh 13.1.41
सर्प उवाच
यथा हवींषि जुह्वाना मखे वै लुब्धकर्त्विजः
न फलं प्राप्नुवन्त्यत्र परलोके तथा ह्यहम्
MBh 13.1.42
भीष्म उवाच
तथा ब्रुवति तस्मिंस्तु पन्नगे मृत्युचोदिते
आजगाम ततो मृत्युः पन्नगं चाब्रवीदिदम्
MBh 13.1.43
कालेनाहं प्रणुदितः पन्नग त्वामचूचुदम्
विनाशहेतुर्नास्य त्वमहं वा प्राणिनः शिशोः
MBh 13.1.44
यथा वायुर्जलधरान्विकर्षति ततस्ततः
तद्वज्जलदवत्सर्प कालस्याहं वशानुगः
MBh 13.1.45
सात्त्विका राजसाश्चैव तामसा ये च केचन
भावाः कालात्मकाः सर्वे प्रवर्तन्ते हि जन्तुषु
MBh 13.1.46
जङ्गमाः स्थावराश्चैव दिवि वा यदि वा भुवि
सर्वे कालात्मकाः सर्प कालात्मकमिदं जगत्
MBh 13.1.47
प्रवृत्तयश्च या लोके तथैव च निवृत्तयः
तासां विकृतयो याश्च सर्वं कालात्मकं स्मृतम्
MBh 13.1.48
आदित्यश्चन्द्रमा विष्णुरापो वायुः शतक्रतुः
अग्निः खं पृथिवी मित्र ओषध्यो वसवस्तथा
MBh 13.1.49
सरितः सागराश्चैव भावाभावौ च पन्नग
सर्वे कालेन सृज्यन्ते ह्रियन्ते च तथा पुनः
MBh 13.1.50
एवं ज्ञात्वा कथं मां त्वं सदोषं सर्प मन्यसे
अथ चैवंगते दोषो मयि त्वमपि दोषवान्
MBh 13.1.51
सर्प उवाच
निर्दोषं दोषवन्तं वा न त्वा मृत्यो ब्रवीम्यहम्
त्वयाहं चोदित इति ब्रवीम्येतावदेव तु
MBh 13.1.52
यदि काले तु दोषोऽस्ति यदि तत्रापि नेष्यते
दोषो नैव परीक्ष्यो मे न ह्यत्राधिकृता वयम्
MBh 13.1.53
निर्मोक्षस्त्वस्य दोषस्य मया कार्यो यथा तथा
मृत्यो विदोषः स्यामेव यथा तन्मे प्रयोजनम्
MBh 13.1.54
भीष्म उवाच
सर्पोऽथार्जुनकं प्राह श्रुतं ते मृत्युभाषितम्
नानागसं मां पाशेन संतापयितुमर्हसि
MBh 13.1.55
लुब्धक उवाच
मृत्योः श्रुतं मे वचनं तव चैव भुजंगम
नैव तावद्विदोषत्वं भवति त्वयि पन्नग
MBh 13.1.56
मृत्युस्त्वं चैव हेतुर्हि जन्तोरस्य विनाशने
उभयं कारणं मन्ये न कारणमकारणम्
MBh 13.1.57
धिङ्मृत्युं च दुरात्मानं क्रूरं दुःखकरं सताम्
त्वां चैवाहं वधिष्यामि पापं पापस्य कारणम्
MBh 13.1.58
मृत्युरुवाच
विवशौ कालवशगावावां तद्दिष्टकारिणौ
नावां दोषेण गन्तव्यौ यदि सम्यक्प्रपश्यसि
MBh 13.1.59
लुब्धक उवाच
युवामुभौ कालवशौ यदि वै मृत्युपन्नगौ
हर्षक्रोधौ कथं स्यातामेतदिच्छामि वेदितुम्
MBh 13.1.60
मृत्युरुवाच
याः काश्चिदिह चेष्टाः स्युः सर्वाः कालप्रचोदिताः
पूर्वमेवैतदुक्तं हि मया लुब्धक कालतः
MBh 13.1.61
तस्मादुभौ कालवशावावां तद्दिष्टकारिणौ
नावां दोषेण गन्तव्यौ त्वया लुब्धक कर्हिचित्
MBh 13.1.62
भीष्म उवाच
अथोपगम्य कालस्तु तस्मिन्धर्मार्थसंशये
अब्रवीत्पन्नगं मृत्युं लुब्धमर्जुनकं च तम्
MBh 13.1.63
काल उवाच
नैवाहं नाप्ययं मृत्युर्नायं लुब्धक पन्नगः
किल्बिषी जन्तुमरणे न वयं हि प्रयोजकाः
MBh 13.1.64
अकरोद्यदयं कर्म तन्नोऽर्जुनक चोदकम्
प्रणाशहेतुर्नान्योऽस्य वध्यतेऽयं स्वकर्मणा
MBh 13.1.65
यदनेन कृतं कर्म तेनायं निधनं गतः
विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम्
MBh 13.1.66
कर्मदायादवाँल्लोकः कर्मसंबन्धलक्षणः
कर्माणि चोदयन्तीह यथान्योन्यं तथा वयम्
MBh 13.1.67
यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति
एवमात्मकृतं कर्म मानवः प्रतिपद्यते
MBh 13.1.68
यथा छायातपौ नित्यं सुसंबद्धौ निरन्तरम्
तथा कर्म च कर्ता च संबद्धावात्मकर्मभिः
MBh 13.1.69
एवं नाहं न वै मृत्युर्न सर्पो न तथा भवान्
न चेयं ब्राह्मणी वृद्धा शिशुरेवात्र कारणम्
MBh 13.1.70
तस्मिंस्तथा ब्रुवाणे तु ब्राह्मणी गौतमी नृप
स्वकर्मप्रत्ययाँल्लोकान्मत्वार्जुनकमब्रवीत्
MBh 13.1.71
नैव कालो न भुजगो न मृत्युरिह कारणम्
स्वकर्मभिरयं बालः कालेन निधनं गतः
MBh 13.1.72
मया च तत्कृतं कर्म येनायं मे मृतः सुतः
यातु कालस्तथा मृत्युर्मुञ्चार्जुनक पन्नगम्
MBh 13.1.73
भीष्म उवाच
ततो यथागतं जग्मुर्मृत्युः कालोऽथ पन्नगः
अभूद्विरोषोऽर्जुनको विशोका चैव गौतमी
MBh 13.1.74
एतच्छ्रुत्वा शमं गच्छ मा भूश्चिन्तापरो नृप
स्वकर्मप्रत्ययाँल्लोकांस्त्रीन्विद्धि मनुजर्षभ
MBh 13.1.75
न तु त्वया कृतं पार्थ नापि दुर्योधनेन वै
कालेन तत्कृतं विद्धि विहता येन पार्थिवाः
MBh 13.1.76
वैशंपायन उवाच
इत्येतद्वचनं श्रुत्वा बभूव विगतज्वरः
युधिष्ठिरो महातेजाः पप्रच्छेदं च धर्मवित्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 353
- Next chapter · Anuśāsana-Parva Ch 2 →
Sources and Connected Readings
Continue from these 76 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.1local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷