🪷 Mahābhārata · Anuśāsana-Parva · Chapter 154
The Book of the Final Teaching · Parva 13 · 34 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 34 Shlokas
MBh 13.154.1
वैशंपायन उवाच
एवमुक्त्वा कुरून्सर्वान्भीष्मः शांतनवस्तदा
तूष्णीं बभूव कौरव्यः स मुहूर्तमरिंदम
MBh 13.154.2
धारयामास चात्मानं धारणासु यथाक्रमम्
तस्योर्ध्वमगमन्प्राणाः संनिरुद्धा महात्मनः
MBh 13.154.3
इदमाश्चर्यमासीच्च मध्ये तेषां महात्मनाम्
यद्यन्मुञ्चति गात्राणां स शंतनुसुतस्तदा
तत्तद्विशल्यं भवति योगयुक्तस्य तस्य वै
MBh 13.154.4
क्षणेन प्रेक्षतां तेषां विशल्यः सोऽभवत्तदा
तं दृष्ट्वा विस्मिताः सर्वे वासुदेवपुरोगमाः
सह तैर्मुनिभिः सर्वैस्तदा व्यासादिभिर्नृप
MBh 13.154.5
संनिरुद्धस्तु तेनात्मा सर्वेष्वायतनेषु वै
जगाम भित्त्वा मूर्धानं दिवमभ्युत्पपात च
MBh 13.154.6
महोल्केव च भीष्मस्य मूर्धदेशाज्जनाधिप
निःसृत्याकाशमाविश्य क्षणेनान्तरधीयत
MBh 13.154.7
एवं स नृपशार्दूल नृपः शांतनवस्तदा
समयुज्यत लोकैः स्वैर्भरतानां कुलोद्वहः
MBh 13.154.8
ततस्त्वादाय दारूणि गन्धांश्च विविधान्बहून्
चितां चक्रुर्महात्मानः पाण्डवा विदुरस्तथा
युयुत्सुश्चापि कौरव्यः प्रेक्षकास्त्वितरेऽभवन्
MBh 13.154.9
युधिष्ठिरस्तु गाङ्गेयं विदुरश्च महामतिः
छादयामासतुरुभौ क्षौमैर्माल्यैश्च कौरवम्
MBh 13.154.10
धारयामास तस्याथ युयुत्सुश्छत्रमुत्तमम्
चामरव्यजने शुभ्रे भीमसेनार्जुनावुभौ
उष्णीषे पर्यगृह्णीतां माद्रीपुत्रावुभौ तदा
MBh 13.154.11
स्त्रियः कौरवनाथस्य भीष्मं कुरुकुलोद्भवम्
तालवृन्तान्युपादाय पर्यवीजन्समन्ततः
MBh 13.154.12
ततोऽस्य विधिवच्चक्रुः पितृमेधं महात्मनः
याजका जुहुवुश्चाग्निं जगुः सामानि सामगाः
MBh 13.154.13
ततश्चन्दनकाष्ठैश्च तथा कालेयकैरपि
कालागरुप्रभृतिभिर्गन्धैश्चोच्चावचैस्तथा
MBh 13.154.14
समवच्छाद्य गाङ्गेयं प्रज्वाल्य च हुताशनम्
अपसव्यमकुर्वन्त धृतराष्ट्रमुखा नृपाः
MBh 13.154.15
संस्कृत्य च कुरुश्रेष्ठं गाङ्गेयं कुरुसत्तमाः
जग्मुर्भागीरथीतीरमृषिजुष्टं कुरूद्वहाः
MBh 13.154.16
अनुगम्यमाना व्यासेन नारदेनासितेन च
कृष्णेन भरतस्त्रीभिर्ये च पौराः समागताः
MBh 13.154.17
उदकं चक्रिरे चैव गाङ्गेयस्य महात्मनः
विधिवत्क्षत्रियश्रेष्ठाः स च सर्वो जनस्तदा
MBh 13.154.18
ततो भागीरथी देवी तनयस्योदके कृते
उत्थाय सलिलात्तस्माद्रुदती शोकलालसा
MBh 13.154.19
परिदेवयती तत्र कौरवानभ्यभाषत
निबोधत यथावृत्तमुच्यमानं मयानघाः
MBh 13.154.20
राजवृत्तेन संपन्नः प्रज्ञयाभिजनेन च
सत्कर्ता कुरुवृद्धानां पितृभक्तो दृढव्रतः
MBh 13.154.21
जामदग्न्येन रामेण पुरा यो न पराजितः
दिव्यैरस्त्रैर्महावीर्यः स हतोऽद्य शिखण्डिना
MBh 13.154.22
अश्मसारमयं नूनं हृदयं मम पार्थिवाः
अपश्यन्त्याः प्रियं पुत्रं यत्र दीर्यति मेऽद्य वै
MBh 13.154.23
समेतं पार्थिवं क्षत्रं काशिपुर्यां स्वयंवरे
विजित्यैकरथेनाजौ कन्यास्ता यो जहार ह
MBh 13.154.24
यस्य नास्ति बले तुल्यः पृथिव्यामपि कश्चन
हतं शिखण्डिना श्रुत्वा यन्न दीर्यति मे मनः
MBh 13.154.25
जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मना
पीडितो नातियत्नेन निहतः स शिखण्डिना
MBh 13.154.26
एवंविधं बहु तदा विलपन्तीं महानदीम्
आश्वासयामास तदा साम्ना दामोदरो विभुः
MBh 13.154.27
समाश्वसिहि भद्रे त्वं मा शुचः शुभदर्शने
गतः स परमां सिद्धिं तव पुत्रो न संशयः
MBh 13.154.28
वसुरेष महातेजाः शापदोषेण शोभने
मनुष्यतामनुप्राप्तो नैनं शोचितुमर्हसि
MBh 13.154.29
स एष क्षत्रधर्मेण युध्यमानो रणाजिरे
धनंजयेन निहतो नैष नुन्नः शिखण्डिना
MBh 13.154.30
भीष्मं हि कुरुशार्दूलमुद्यतेषुं महारणे
न शक्तः संयुगे हन्तुं साक्षादपि शतक्रतुः
MBh 13.154.31
स्वच्छन्देन सुतस्तुभ्यं गतः स्वर्गं शुभानने
न शक्ताः स्युर्निहन्तुं हि रणे तं सर्वदेवताः
MBh 13.154.32
तस्मान्मा त्वं सरिच्छ्रेष्ठे शोचस्व कुरुनन्दनम्
वसूनेष गतो देवि पुत्रस्ते विज्वरा भव
MBh 13.154.33
इत्युक्ता सा तु कृष्णेन व्यासेन च सरिद्वरा
त्यक्त्वा शोकं महाराज स्वं वार्यवततार ह
MBh 13.154.34
सत्कृत्य ते तां सरितं ततः कृष्णमुखा नृपाः
अनुज्ञातास्तया सर्वे न्यवर्तन्त जनाधिपाः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 153
- Next chapter · Aśvamedhika-Parva Ch 1 →
Sources and Connected Readings
Continue from these 34 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.154local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷