🪷 Mahābhārata · Anuśāsana-Parva · Chapter 153
The Book of the Final Teaching · Parva 13 · 50 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 50 Shlokas
MBh 13.153.1
वैशंपायन उवाच
ततः कुन्तीसुतो राजा पौरजानपदं जनम्
पूजयित्वा यथान्यायमनुजज्ञे गृहान्प्रति
MBh 13.153.2
सान्त्वयामास नारीश्च हतवीरा हतेश्वराः
विपुलैरर्थदानैश्च तदा पाण्डुसुतो नृपः
MBh 13.153.3
सोऽभिषिक्तो महाप्राज्ञः प्राप्य राज्यं युधिष्ठिरः
अवस्थाप्य नरश्रेष्ठः सर्वाः स्वप्रकृतीस्तदा
MBh 13.153.4
द्विजेभ्यो बलमुख्येभ्यो नैगमेभ्यश्च सर्वशः
प्रतिगृह्याशिषो मुख्यास्तदा धर्मभृतां वरः
MBh 13.153.5
उषित्वा शर्वरीः श्रीमान्पञ्चाशन्नगरोत्तमे
समयं कौरवाग्र्यस्य सस्मार पुरुषर्षभः
MBh 13.153.6
स निर्ययौ गजपुराद्याजकैः परिवारितः
दृष्ट्वा निवृत्तमादित्यं प्रवृत्तं चोत्तरायणम्
MBh 13.153.7
घृतं माल्यं च गन्धांश्च क्षौमाणि च युधिष्ठिरः
चन्दनागरुमुख्यानि तथा कालागरूणि च
MBh 13.153.8
प्रस्थाप्य पूर्वं कौन्तेयो भीष्मसंसाधनाय वै
माल्यानि च महार्हाणि रत्नानि विविधानि च
MBh 13.153.9
धृतराष्ट्रं पुरस्कृत्य गान्धारीं च यशस्विनीम्
मातरं च पृथां धीमान्भ्रातॄंश्च पुरुषर्षभः
MBh 13.153.10
जनार्दनेनानुगतो विदुरेण च धीमता
युयुत्सुना च कौरव्यो युयुधानेन चाभिभो
MBh 13.153.11
महता राजभोग्येन परिबर्हेण संवृतः
स्तूयमानो महाराज भीष्मस्याग्नीननुव्रजन्
MBh 13.153.12
निश्चक्राम पुरात्तस्माद्यथा देवपतिस्तथा
आससाद कुरुक्षेत्रे ततः शांतनवं नृपम्
MBh 13.153.13
उपास्यमानं व्यासेन पाराशर्येण धीमता
नारदेन च राजर्षे देवलेनासितेन च
MBh 13.153.14
हतशिष्टैर्नृपैश्चान्यैर्नानादेशसमागतैः
रक्षिभिश्च महात्मानं रक्ष्यमाणं समन्ततः
MBh 13.153.15
शयानं वीरशयने ददर्श नृपतिस्ततः
ततो रथादवारोहद्भ्रातृभिः सह धर्मराट्
MBh 13.153.16
अभिवाद्याथ कौन्तेयः पितामहमरिंदमम्
द्वैपायनादीन्विप्रांश्च तैश्च प्रत्यभिनन्दितः
MBh 13.153.17
ऋत्विग्भिर्ब्रह्मकल्पैश्च भ्रातृभिश्च सहाच्युतः
आसाद्य शरतल्पस्थमृषिभिः परिवारितम्
MBh 13.153.18
अब्रवीद्भरतश्रेष्ठं धर्मराजो युधिष्ठिरः
भ्रातृभिः सह कौरव्य शयानं निम्नगासुतम्
MBh 13.153.19
युधिष्ठिरोऽहं नृपते नमस्ते जाह्नवीसुत
शृणोषि चेन्महाबाहो ब्रूहि किं करवाणि ते
MBh 13.153.20
प्राप्तोऽस्मि समये राजन्नग्नीनादाय ते विभो
आचार्या ब्राह्मणाश्चैव ऋत्विजो भ्रातरश्च मे
MBh 13.153.21
पुत्रश्च ते महातेजा धृतराष्ट्रो जनेश्वरः
उपस्थितः सहामात्यो वासुदेवश्च वीर्यवान्
MBh 13.153.22
हतशिष्टाश्च राजानः सर्वे च कुरुजाङ्गलाः
तान्पश्य कुरुशार्दूल समुन्मीलय लोचने
MBh 13.153.23
यच्चेह किंचित्कर्तव्यं तत्सर्वं प्रापितं मया
यथोक्तं भवता काले सर्वमेव च तत्कृतम्
MBh 13.153.24
एवमुक्तस्तु गाङ्गेयः कुन्तीपुत्रेण धीमता
ददर्श भारतान्सर्वान्स्थितान्संपरिवार्य तम्
MBh 13.153.25
ततश्चलवलिर्भीष्मः प्रगृह्य विपुलं भुजम्
ओघमेघस्वनो वाग्मी काले वचनमब्रवीत्
MBh 13.153.26
दिष्ट्या प्राप्तोऽसि कौन्तेय सहामात्यो युधिष्ठिर
परिवृत्तो हि भगवान्सहस्रांशुर्दिवाकरः
MBh 13.153.27
अष्टपञ्चाशतं रात्र्यः शयानस्याद्य मे गताः
शरेषु निशिताग्रेषु यथा वर्षशतं तथा
MBh 13.153.28
माघोऽयं समनुप्राप्तो मासः पुण्यो युधिष्ठिर
त्रिभागशेषः पक्षोऽयं शुक्लो भवितुमर्हति
MBh 13.153.29
एवमुक्त्वा तु गाङ्गेयो धर्मपुत्रं युधिष्ठिरम्
धृतराष्ट्रमथामन्त्र्य काले वचनमब्रवीत्
MBh 13.153.30
राजन्विदितधर्मोऽसि सुनिर्णीतार्थसंशयः
बहुश्रुता हि ते विप्रा बहवः पर्युपासिताः
MBh 13.153.31
वेदशास्त्राणि सर्वाणि धर्मांश्च मनुजेश्वर
वेदांश्च चतुरः साङ्गान्निखिलेनावबुध्यसे
MBh 13.153.32
न शोचितव्यं कौरव्य भवितव्यं हि तत्तथा
श्रुतं देवरहस्यं ते कृष्णद्वैपायनादपि
MBh 13.153.33
यथा पाण्डोः सुता राजंस्तथैव तव धर्मतः
तान्पालय स्थितो धर्मे गुरुशुश्रूषणे रतान्
MBh 13.153.34
धर्मराजो हि शुद्धात्मा निदेशे स्थास्यते तव
आनृशंस्यपरं ह्येनं जानामि गुरुवत्सलम्
MBh 13.153.35
तव पुत्रा दुरात्मानः क्रोधलोभपरायणाः
ईर्ष्याभिभूता दुर्वृत्तास्तान्न शोचितुमर्हसि
MBh 13.153.36
वैशंपायन उवाच
एतावदुक्त्वा वचनं धृतराष्ट्रं मनीषिणम्
वासुदेवं महाबाहुमभ्यभाषत कौरवः
MBh 13.153.37
भगवन्देवदेवेश सुरासुरनमस्कृत
त्रिविक्रम नमस्तेऽस्तु शङ्खचक्रगदाधर
MBh 13.153.38
अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषोत्तम
रक्ष्याश्च ते पाण्डवेया भवान्ह्येषां परायणम्
MBh 13.153.39
उक्तवानस्मि दुर्बुद्धिं मन्दं दुर्योधनं पुरा
यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः
MBh 13.153.40
वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः
संधानस्य परः कालस्तवेति च पुनः पुनः
MBh 13.153.41
न च मे तद्वचो मूढः कृतवान्स सुमन्दधीः
घातयित्वेह पृथिवीं ततः स निधनं गतः
MBh 13.153.42
त्वां च जानाम्यहं वीर पुराणमृषिसत्तमम्
नरेण सहितं देवं बदर्यां सुचिरोषितम्
MBh 13.153.43
तथा मे नारदः प्राह व्यासश्च सुमहातपाः
नरनारायणावेतौ संभूतौ मनुजेष्विति
MBh 13.153.44
वासुदेव उवाच
अनुजानामि भीष्म त्वां वसूनाप्नुहि पार्थिव
न तेऽस्ति वृजिनं किंचिन्मया दृष्टं महाद्युते
MBh 13.153.45
पितृभक्तोऽसि राजर्षे मार्कण्डेय इवापरः
तेन मृत्युस्तव वशे स्थितो भृत्य इवानतः
MBh 13.153.46
वैशंपायन उवाच
एवमुक्तस्तु गाङ्गेयः पाण्डवानिदमब्रवीत्
धृतराष्ट्रमुखांश्चापि सर्वान्ससुहृदस्तथा
MBh 13.153.47
प्राणानुत्स्रष्टुमिच्छामि तन्मानुज्ञातुमर्हथ
सत्ये प्रयतितव्यं वः सत्यं हि परमं बलम्
MBh 13.153.48
आनृशंस्यपरैर्भाव्यं सदैव नियतात्मभिः
ब्रह्मण्यैर्धर्मशीलैश्च तपोनीत्यैश्च भारत
MBh 13.153.49
इत्युक्त्वा सुहृदः सर्वान्संपरिष्वज्य चैव ह
पुनरेवाब्रवीद्धीमान्युधिष्ठिरमिदं वचः
MBh 13.153.50
ब्राह्मणाश्चैव ते नित्यं प्राज्ञाश्चैव विशेषतः
आचार्या ऋत्विजश्चैव पूजनीया नराधिप
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 152
- Next chapter · Anuśāsana-Parva Ch 154 →
Sources and Connected Readings
Continue from these 50 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.153local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷