🪷 Mahābhārata · Ādi-Parva · Chapter 68
The Book of the Beginning · Parva 1 · 80 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 80 Shlokas
MBh 1.68.1
वैशंपायन उवाच
प्रतिज्ञाय तु दुःषन्ते प्रतियाते शकुन्तला
गर्भं सुषाव वामोरुः कुमारममितौजसम्
MBh 1.68.2
त्रिषु वर्षेषु पूर्णेषु दिप्तानलसमद्युतिम्
रूपौदार्यगुणोपेतं दौःषन्तिं जनमेजय
MBh 1.68.3
जातकर्मादिसंस्कारं कण्वः पुण्यकृतां वरः
तस्याथ कारयामास वर्धमानस्य धीमतः
MBh 1.68.4
दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो युवा
चक्राङ्कितकरः श्रीमान्महामूर्धा महाबलः
कुमारो देवगर्भाभः स तत्राशु व्यवर्धत
MBh 1.68.5
षड्वर्ष एव बालः स कण्वाश्रमपदं प्रति
व्याघ्रान्सिंहान्वराहांश्च गजांश्च महिषांस्तथा
MBh 1.68.6
बद्ध्वा वृक्षेषु बलवानाश्रमस्य समन्ततः
आरोहन्दमयंश्चैव क्रीडंश्च परिधावति
MBh 1.68.7
ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः
अस्त्वयं सर्वदमनः सर्वं हि दमयत्ययम्
MBh 1.68.8
स सर्वदमनो नाम कुमारः समपद्यत
विक्रमेणौजसा चैव बलेन च समन्वितः
MBh 1.68.9
तं कुमारमृषिर्दृष्ट्वा कर्म चास्यातिमानुषम्
समयो यौवराज्यायेत्यब्रवीच्च शकुन्तलाम्
MBh 1.68.10
तस्य तद्बलमाज्ञाय कण्वः शिष्यानुवाच ह
शकुन्तलामिमां शीघ्रं सहपुत्रामितोऽऽश्रमात्
भर्त्रे प्रापयताद्यैव सर्वलक्षणपूजिताम्
MBh 1.68.11
नारीणां चिरवासो हि बान्धवेषु न रोचते
कीर्तिचारित्रधर्मघ्नस्तस्मान्नयत माचिरम्
MBh 1.68.12
तथेत्युक्त्वा तु ते सर्वे प्रातिष्ठन्तामितौजसः
शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वयम्
MBh 1.68.13
गृहीत्वामरगर्भाभं पुत्रं कमललोचनम्
आजगाम ततः शुभ्रा दुःषन्तविदिताद्वनात्
MBh 1.68.14
अभिसृत्य च राजानं विदिता सा प्रवेशिता
सह तेनैव पुत्रेण तरुणादित्यवर्चसा
MBh 1.68.15
पूजयित्वा यथान्यायमब्रवीत्तं शकुन्तला
अयं पुत्रस्त्वया राजन्यौवराज्येऽभिषिच्यताम्
MBh 1.68.16
त्वया ह्ययं सुतो राजन्मय्युत्पन्नः सुरोपमः
यथासमयमेतस्मिन्वर्तस्व पुरुषोत्तम
MBh 1.68.17
यथा समागमे पूर्वं कृतः स समयस्त्वया
तं स्मरस्व महाभाग कण्वाश्रमपदं प्रति
MBh 1.68.18
सोऽथ श्रुत्वैव तद्वाक्यं तस्या राजा स्मरन्नपि
अब्रवीन्न स्मरामीति कस्य त्वं दुष्टतापसि
MBh 1.68.19
धर्मकामार्थसंबन्धं न स्मरामि त्वया सह
गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु
MBh 1.68.20
सैवमुक्ता वरारोहा व्रीडितेव मनस्विनी
विसंज्ञेव च दुःखेन तस्थौ स्थाणुरिवाचला
MBh 1.68.21
संरम्भामर्षताम्राक्षी स्फुरमाणोष्ठसंपुटा
कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत
MBh 1.68.22
आकारं गूहमाना च मन्युनाभिसमीरिता
तपसा संभृतं तेजो धारयामास वै तदा
MBh 1.68.23
सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता
भर्तारमभिसंप्रेक्ष्य क्रुद्धा वचनमब्रवीत्
MBh 1.68.24
जानन्नपि महाराज कस्मादेवं प्रभाषसे
न जानामीति निःसङ्गं यथान्यः प्राकृतस्तथा
MBh 1.68.25
अत्र ते हृदयं वेद सत्यस्यैवानृतस्य च
कल्याण बत साक्षी त्वं मात्मानमवमन्यथाः
MBh 1.68.26
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते
किं तेन न कृतं पापं चोरेणात्मापहारिणा
MBh 1.68.27
एकोऽहमस्मीति च मन्यसे त्वं; न हृच्छयं वेत्सि मुनिं पुराणम्
यो वेदिता कर्मणः पापकस्य; तस्यान्तिके त्वं वृजिनं करोषि
MBh 1.68.28
मन्यते पापकं कृत्वा न कश्चिद्वेत्ति मामिति
विदन्ति चैनं देवाश्च स्वश्चैवान्तरपूरुषः
MBh 1.68.29
आदित्यचन्द्रावनिलानलौ च; द्यौर्भूमिरापो हृदयं यमश्च
अहश्च रात्रिश्च उभे च संध्ये; धर्मश्च जानाति नरस्य वृत्तम्
MBh 1.68.30
यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम्
हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति
MBh 1.68.31
न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः
तं यमः पापकर्माणं निर्यातयति दुष्कृतम्
MBh 1.68.32
अवमन्यात्मनात्मानमन्यथा प्रतिपद्यते
देवा न तस्य श्रेयांसो यस्यात्मापि न कारणम्
MBh 1.68.33
स्वयं प्राप्तेति मामेवं मावमंस्थाः पतिव्रताम्
अर्घ्यार्हां नार्चयसि मां स्वयं भार्यामुपस्थिताम्
MBh 1.68.34
किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि
न खल्वहमिदं शून्ये रौमि किं न शृणोषि मे
MBh 1.68.35
यदि मे याचमानाया वचनं न करिष्यसि
दुःषन्त शतधा मूर्धा ततस्तेऽद्य फलिष्यति
MBh 1.68.36
भार्यां पतिः संप्रविश्य स यस्माज्जायते पुनः
जायाया इति जायात्वं पुराणाः कवयो विदुः
MBh 1.68.37
यदागमवतः पुंसस्तदपत्यं प्रजायते
तत्तारयति संतत्या पूर्वप्रेतान्पितामहान्
MBh 1.68.38
पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः
तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा
MBh 1.68.39
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता
MBh 1.68.40
अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा
भार्या मूलं त्रिवर्गस्य भार्या मित्रं मरिष्यतः
MBh 1.68.41
भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः
भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः
MBh 1.68.42
सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः
पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः
MBh 1.68.43
कान्तारेष्वपि विश्रामो नरस्याध्वनिकस्य वै
यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः
MBh 1.68.44
संसरन्तमपि प्रेतं विषमेष्वेकपातिनम्
भार्यैवान्वेति भर्तारं सततं या पतिव्रता
MBh 1.68.45
प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते
पूर्वं मृतं च भर्तारं पश्चात्साध्व्यनुगच्छति
MBh 1.68.46
एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते
यदाप्नोति पतिर्भार्यामिह लोके परत्र च
MBh 1.68.47
आत्मात्मनैव जनितः पुत्र इत्युच्यते बुधैः
तस्माद्भार्यां नरः पश्येन्मातृवत्पुत्रमातरम्
MBh 1.68.48
भार्यायां जनितं पुत्रमादर्शे स्वमिवाननम्
ह्लादते जनिता प्रेष्क्य स्वर्गं प्राप्येव पुण्यकृत्
MBh 1.68.49
दह्यमाना मनोदुःखैर्व्याधिभिश्चातुरा नराः
ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव
MBh 1.68.50
सुसंरब्धोऽपि रामाणां न ब्रूयादप्रियं बुधः
रतिं प्रीतिं च धर्मं च तास्वायत्तमवेक्ष्य च
MBh 1.68.51
आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम्
ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजाः
MBh 1.68.52
परिपत्य यदा सूनुर्धरणीरेणुगुण्ठितः
पितुराश्लिष्यतेऽङ्गानि किमिवास्त्यधिकं ततः
MBh 1.68.53
स त्वं स्वयमनुप्राप्तं साभिलाषमिमं सुतम्
प्रेक्षमाणं च काक्षेण किमर्थमवमन्यसे
MBh 1.68.54
अण्डानि बिभ्रति स्वानि न भिन्दन्ति पिपीलिकाः
न भरेथाः कथं नु त्वं धर्मज्ञः सन्स्वमात्मजम्
MBh 1.68.55
न वाससां न रामाणां नापां स्पर्शस्तथा सुखः
शिशोरालिङ्ग्यमानस्य स्पर्शः सूनोर्यथा सुखः
MBh 1.68.56
ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्
गुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः
MBh 1.68.57
स्पृशतु त्वां समाश्लिष्य पुत्रोऽयं प्रियदर्शनः
पुत्रस्पर्शात्सुखतरः स्पर्शो लोके न विद्यते
MBh 1.68.58
त्रिषु वर्षेषु पूर्णेषु प्रजाताहमरिंदम
इमं कुमारं राजेन्द्र तव शोकप्रणाशनम्
MBh 1.68.59
आहर्ता वाजिमेधस्य शतसंख्यस्य पौरव
इति वागन्तरिक्षे मां सूतकेऽभ्यवदत्पुरा
MBh 1.68.60
ननु नामाङ्कमारोप्य स्नेहाद्ग्रामान्तरं गताः
मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः
MBh 1.68.61
वेदेष्वपि वदन्तीमं मन्त्रवादं द्विजातयः
जातकर्मणि पुत्राणां तवापि विदितं तथा
MBh 1.68.62
अङ्गादङ्गात्संभवसि हृदयादभिजायसे
आत्मा वै पुत्रनामासि स जीव शरदः शतम्
MBh 1.68.63
पोषो हि त्वदधीनो मे संतानमपि चाक्षयम्
तस्मात्त्वं जीव मे वत्स सुसुखी शरदां शतम्
MBh 1.68.64
त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषोऽपरः
सरसीवामलेऽऽत्मानं द्वितीयं पश्य मे सुतम्
MBh 1.68.65
यथा ह्याहवनीयोऽग्निर्गार्हपत्यात्प्रणीयते
तथा त्वत्तः प्रसूतोऽयं त्वमेकः सन्द्विधा कृतः
MBh 1.68.66
मृगापकृष्टेन हि ते मृगयां परिधावता
अहमासादिता राजन्कुमारी पितुराश्रमे
MBh 1.68.67
उर्वशी पूर्वचित्तिश्च सहजन्या च मेनका
विश्वाची च घृताची च षडेवाप्सरसां वराः
MBh 1.68.68
तासां मां मेनका नाम ब्रह्मयोनिर्वराप्सराः
दिवः संप्राप्य जगतीं विश्वामित्रादजीजनत्
MBh 1.68.69
सा मां हिमवतः पृष्ठे सुषुवे मेनकाप्सराः
अवकीर्य च मां याता परात्मजमिवासती
MBh 1.68.70
किं नु कर्माशुभं पूर्वं कृतवत्यस्मि जन्मनि
यदहं बान्धवैस्त्यक्ता बाल्ये संप्रति च त्वया
MBh 1.68.71
कामं त्वया परित्यक्ता गमिष्याम्यहमाश्रमम्
इमं तु बालं संत्यक्तुं नार्हस्यात्मजमात्मना
MBh 1.68.72
दुःषन्त उवाच
न पुत्रमभिजानामि त्वयि जातं शकुन्तले
असत्यवचना नार्यः कस्ते श्रद्धास्यते वचः
MBh 1.68.73
मेनका निरनुक्रोशा बन्धकी जननी तव
यया हिमवतः पृष्ठे निर्माल्येव प्रवेरिता
MBh 1.68.74
स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव
विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः
MBh 1.68.75
मेनकाप्सरसां श्रेष्ठा महर्षीणां च ते पिता
तयोरपत्यं कस्मात्त्वं पुंश्चलीवाभिधास्यसि
MBh 1.68.76
अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे
विशेषतो मत्सकाशे दुष्टतापसि गम्यताम्
MBh 1.68.77
क्व महर्षिः सदैवोग्रः साप्सरा क्व च मेनका
क्व च त्वमेवं कृपणा तापसीवेषधारिणी
MBh 1.68.78
अतिकायश्च पुत्रस्ते बालोऽपि बलवानयम्
कथमल्पेन कालेन शालस्कन्ध इवोद्गतः
MBh 1.68.79
सुनिकृष्टा च योनिस्ते पुंश्चली प्रतिभासि मे
यदृच्छया कामरागाज्जाता मेनकया ह्यसि
MBh 1.68.80
सर्वमेतत्परोक्षं मे यत्त्वं वदसि तापसि
नाहं त्वामभिजानामि यथेष्टं गम्यतां त्वया
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 67
- Next chapter · Ādi-Parva Ch 69 →
Sources and Connected Readings
Continue from these 80 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 1.68local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷