🪷 Mahābhārata · Ādi-Parva · Chapter 50
The Book of the Beginning · Parva 1 · 17 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 17 Shlokas
MBh 1.50.1
[आ]
सॊमस्य यज्ञॊ वरुणस्य यज्ञः; परजापतेर यज्ञ आसीत परयागे
तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः
MBh 1.50.2
शक्रस्य यज्ञः शतसंख्य उक्तस; तथापरस तुल्यसंख्यः शतं वै
तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः
MBh 1.50.3
यमस्य यज्ञॊ हरि मेधसश च; यथा यज्ञॊ रन्ति देवस्य राज्ञः
तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः
MBh 1.50.4
गयस्य यज्ञः शशबिन्दॊश च राज्ञॊ; यज्ञस तथा वैश्रवणस्य राज्ञः
तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः
MBh 1.50.5
नृगस्य यज्ञस तव अजमीढस्य चासीद; यथा यज्ञॊ दाशरथेश च राज्ञः
तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः
MBh 1.50.6
यज्ञः शरुतॊ नॊ दिवि देव सूनॊर; युधिष्ठिरस्याजमीढस्य राज्ञः
तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः
MBh 1.50.7
कृष्णस्य यज्ञः सत्यवत्याः सुतस्य; सवयं च कर्म परचकार यत्र
तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः
MBh 1.50.8
इमे हि ते सूर्यहुताशवर्चसः; समासते वृत्रहणः करतुं यथा
नैषां जञानं विद्यते जञातुम अद्य; दत्तं येभ्यॊ न परणश्येत कथं चित
MBh 1.50.9
ऋत्विक समॊ नास्ति लॊकेषु चैव; दवैपायनेनेति विनिश्चितं मे
एतस्य शिष्या हि कषितिं चरन्ति; सर्वर्विजः कर्मसु सवेषु दक्षाः
MBh 1.50.10
विभावसुश चित्रभानुर महात्मा; हिरण्यरेता विश्वभुक कृष्ण वर्त्मा
परदक्षिणावर्तशिखः परदीप्तॊ; हव्यं तवेदं हुतभुग वष्टि देवः
MBh 1.50.11
नेह तवदन्यॊ विद्यते जीवलॊके; समॊ नृपः पालयिता परजानाम
धृत्या च ते परीतमनाः सदाहं; तवं वा राजा धर्मराजॊ यमॊ वा
MBh 1.50.12
शक्रः साक्षाद वज्रपाणिर यथेह; तराता लॊके ऽसमिंस तवं तथेह परजानाम
मतस तवं नः पुरुषेन्द्रेह लॊके; न च तवदन्यॊ गृहपतिर अस्ति यज्ञे
MBh 1.50.13
खट्वाङ्गनाभाग दिलीप कल्पॊ; ययाति मान्धातृसमप्रभावः
आदित्यतेजः परतिमानतेजा; भीष्मॊ यथा भराजसि सुव्रतस तवम
MBh 1.50.14
वाल्मीकिवत ते निभृतं सुधैर्यं; वसिष्ठवत ते नियतश च कॊपः
परभुत्वम इन्द्रेण समं मतं मे; दयुतिश च नारायणवद विभाति
MBh 1.50.15
यमॊ यथा धर्मविनिश्चयज्ञः; कृष्णॊ यथा सर्वगुणॊपपन्नः
शरियां निवासॊ ऽसि यथा वसूनां; निधान भूतॊ ऽसि तथा करतूनाम
MBh 1.50.16
दम्भॊद्भवेनासि समॊ बलेन; रामॊ यथा शस्त्रविद अस्त्रविच च
और्व तरिताभ्याम असि तुल्यतेजा; दुष्प्रेक्षणीयॊ ऽसि भगीरथॊ वा
MBh 1.50.17
[स]
एवं सतुताः सर्व एव परसन्ना; राजा सदस्या ऋत्विजॊ हव्यवाहः
तेषां दृष्ट्वा भावितानीङ्गितानि; परॊवाच राजा जनमेजयॊ ऽथ
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 49
- Next chapter · Ādi-Parva Ch 51 →
🪷 जय व्यास भगवान् 🪷