🪷 Mahābhārata · Ādi-Parva · Chapter 49

The Book of the Beginning · Parva 1 · 28 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 28 Shlokas

MBh 1.49.1
सूत उवाच तत आहूय पुत्रं स्वं जरत्कारुर्भुजंगमा वासुकेर्नागराजस्य वचनादिदमब्रवीत्
MBh 1.49.2
अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः कालः स चायं संप्राप्तस्तत्कुरुष्व यथातथम्
MBh 1.49.3
आस्तीक उवाच किंनिमित्तं मम पितुर्दत्ता त्वं मातुलेन मे तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्तास्मि तत्तथा
MBh 1.49.4
सूत उवाच तत आचष्ट सा तस्मै बान्धवानां हितैषिणी भगिनी नागराजस्य जरत्कारुरविक्लवा
MBh 1.49.5
भुजगानामशेषाणां माता कद्रूरिति श्रुतिः तया शप्ता रुषितया सुता यस्मान्निबोध तत्
MBh 1.49.6
उच्चैःश्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम विनतानिमित्तं पणिते दासभावाय पुत्रकाः
MBh 1.49.7
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ
MBh 1.49.8
तां च शप्तवतीमेवं साक्षाल्लोकपितामहः एवमस्त्विति तद्वाक्यं प्रोवाचानुमुमोद च
MBh 1.49.9
वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा अमृते मथिते तात देवाञ्शरणमीयिवान्
MBh 1.49.10
सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम् भ्रातरं मे पुरस्कृत्य प्रजापतिमुपागमन्
MBh 1.49.11
ते तं प्रसादयामासुर्देवाः सर्वे पितामहम् राज्ञा वासुकिना सार्धं स शापो न भवेदिति
MBh 1.49.12
वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात् अभिशापः स मात्रास्य भगवन्न भवेदिति
MBh 1.49.13
ब्रह्मोवाच जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति तत्र जातो द्विजः शापाद्भुजगान्मोक्षयिष्यति
MBh 1.49.14
जरत्कारुरुवाच एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगेश्वरः प्रादान्माममरप्रख्य तव पित्रे महात्मने प्रागेवानागते काले तत्र त्वं मय्यजायथाः
MBh 1.49.15
अयं स कालः संप्राप्तो भयान्नस्त्रातुमर्हसि भ्रातरं चैव मे तस्मात्त्रातुमर्हसि पावकात्
MBh 1.49.16
अमोघं नः कृतं तत्स्याद्यदहं तव धीमते पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे
MBh 1.49.17
सूत उवाच एवमुक्तस्तथेत्युक्त्वा सोऽस्तीको मातरं तदा अब्रवीद्दुःखसंतप्तं वासुकिं जीवयन्निव
MBh 1.49.18
अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते
MBh 1.49.19
भव स्वस्थमना नाग न हि ते विद्यते भयम् प्रयतिष्ये तथा सौम्य यथा श्रेयो भविष्यति न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा
MBh 1.49.20
तं वै नृपवरं गत्वा दीक्षितं जनमेजयम् वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल यथा स यज्ञो नृपतेर्निर्वर्तिष्यति सत्तम
MBh 1.49.21
स संभावय नागेन्द्र मयि सर्वं महामते न ते मयि मनो जातु मिथ्या भवितुमर्हति
MBh 1.49.22
वासुकिरुवाच आस्तीक परिघूर्णामि हृदयं मे विदीर्यते दिशश्च न प्रजानामि ब्रह्मदण्डनिपीडितः
MBh 1.49.23
आस्तीक उवाच न संतापस्त्वया कार्यः कथंचित्पन्नगोत्तम दीप्तादग्नेः समुत्पन्नं नाशयिष्यामि ते भयम्
MBh 1.49.24
ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम् नाशयिष्यामि मात्र त्वं भयं कार्षीः कथंचन
MBh 1.49.25
सूत उवाच ततः स वासुकेर्घोरमपनीय मनोज्वरम् आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम्
MBh 1.49.26
जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः
MBh 1.49.27
स गत्वापश्यदास्तीको यज्ञायतनमुत्तमम् वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः
MBh 1.49.28
स तत्र वारितो द्वाःस्थैः प्रविशन्द्विजसत्तमः अभितुष्टाव तं यज्ञं प्रवेशार्थी द्विजोत्तमः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 28 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 1.49local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷