🪷 Mahābhārata · Ādi-Parva · Chapter 34
The Book of the Beginning · Parva 1 · 18 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 18 Shlokas
MBh 1.34.1
[स]
शरुत्वा तु वचनं तेषां सर्वेषाम इति चेति च
वासुकेश च वचः शरुत्वा एलापत्रॊ ऽबरवीद इदम
MBh 1.34.2
न स यज्ञॊ न भविता न स राजा तथाविधः
जनमेजयः पाण्डवेयॊ यतॊ ऽसमाकं महाभयम
MBh 1.34.3
दैवेनॊपहतॊ राजन्यॊ भवेद इह पूरुषः
स दैवम एवाश्रयते नान्यत तत्र परायणम
MBh 1.34.4
तद इदं दैवम अस्माकं भयं पन्नगसत्तमाः
दैवम एवाश्रयामॊ ऽतर शृणुध्वं च वचॊ मम
MBh 1.34.5
अहं शापे समुत्सृष्टे समश्रौषं वचस तदा
मातुर उत्सङ्गम आरूढॊ भयात पन्नगसत्तमाः
MBh 1.34.6
देवानां पन्नगश्रेष्ठास तीक्ष्णास तीक्ष्णा इति परभॊ
पितामहम उपागम्य दुःखार्तानां महाद्युते
MBh 1.34.7
[देवाह]
का हि लब्ध्वा परियान पुत्राञ शपेद एवं पितामह
ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः
MBh 1.34.8
तथेति च वचस तस्यास तवयाप्य उक्तं पितामह
एतद इच्छाम विज्ञातुं कारणं यन न वारिता
MBh 1.34.9
[बर]
बहवः पन्नगास तीक्ष्णा भीमवीर्या विषॊल्बणाः
परजानां हितकामॊ ऽहं न निवारितवांस तदा
MBh 1.34.10
ये दन्द शूकाः कषुद्राश च पापचारा विषॊल्बणाः
तेषां विनाशॊ भविता न तु ये धर्मचारिणः
MBh 1.34.11
यन्निमित्तं च भविता मॊक्षस तेषां महाभयात
पन्नगानां निबॊधध्वं तस्मिन काले तथागते
MBh 1.34.12
यायावर कुले धीमान भविष्यति महान ऋषिः
जरत्कारुर इति खयातस तेजस्वी नियतेन्द्रियः
MBh 1.34.13
तस्य पुत्रॊ जरत्कारॊर उत्पत्स्यति महातपाः
आस्तीकॊ नामयज्ञं स परतिषेत्स्यति तं तदा
तत्र मॊक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः
MBh 1.34.14
[देवाह]
स मुनिप्रवरॊ देव जरत कारुर महातपाः
कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान
MBh 1.34.15
[बर]
सनामायां सनामा स कन्यायां दविजसत्तमः
अपत्यं वीर्यवान देवा वीर्यवज जनयिष्यति
MBh 1.34.16
[एलापत्र]
एवम अस्त्व इति तं देवाः पितामहम अथाब्रुवन
उक्त्वा चैवं गता देवाः स च देवः पितामहः
MBh 1.34.17
सॊ ऽहम एवं परपश्यामि वासुके भगिनीं तव
जरत्कारुर इति खयातां तां तस्मै परतिपादय
MBh 1.34.18
भैक्षवद भिक्षमाणाय नागानां भयशान्तये
ऋषये सुव्रताय तवम एष मॊक्षः शरुतॊ मया
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 33
- Next chapter · Ādi-Parva Ch 35 →
🪷 जय व्यास भगवान् 🪷