🪷 Mahābhārata · Ādi-Parva · Chapter 31
The Book of the Beginning · Parva 1 · 18 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 18 Shlokas
MBh 1.31.1
[ष]
भुजंगमानां शापस्य मात्रा चैव सुतेन च
विनतायास तवया परॊक्तं कारणं सूतनन्दन
MBh 1.31.2
वरप्रदानं भर्त्रा च करद्रू विनतयॊस तथा
नामनी चैव ते परॊक्ते पक्षिणॊर वैनतेययॊः
MBh 1.31.3
पन्नगानां तु नामानि न कीर्तयसि सूतज
पराधान्येनापि नामानि शरॊतुम इच्छामहे वयम
MBh 1.31.4
[स]
बहुत्वान नामधेयानि भुजगानां तपॊधन
न कीर्तयिष्ये सर्वेषां पराधान्येन तु मे शृणु
MBh 1.31.5
शेषः परथमतॊ जातॊ वासुकिस तदनन्तरम
ऐरावतस तक्षकश च कर्कॊटक धनंजयौ
MBh 1.31.6
कालियॊ मणिनागश च नागश चापूरणस तथा
नागस तथा पिञ्जरक एला पत्रॊ ऽथ वामनः
MBh 1.31.7
नीलानीलौ तथा नागौ कल्माषशबलौ तथा
आर्यकश चादिकश चैव नागश च शल पॊतकः
MBh 1.31.8
सुमनॊमुखॊ दधिमुखस तथा विमलपिण्डकः
आप्तः कॊटनकश चैव शङ्खॊ वालशिखस तथा
MBh 1.31.9
निष्ठ्यूनकॊ हेमगुहॊ नहुषः पिङ्गलस तथा
बाह्यकर्णॊ हस्तिपदस तथा मुद्गरपिण्डकः
MBh 1.31.10
कम्बलाश्वतरौ चापि नागः कालीयकस तथा
वृत्तसंवर्तकौ नागौ दवौ च पद्माव इति शरुतौ
MBh 1.31.11
नागः शङ्खनकश चैव तथा च सफण्डकॊ ऽपरः
कषेमकश च महानागॊ नागः पिण्डारकस तथा
MBh 1.31.12
करवीरः पुष्पदंष्ट्र एॢकॊ बिल्वपाण्डुकः
मूषकादः शङ्खशिराः पूर्णदंष्ट्रॊ हरिद्रकः
MBh 1.31.13
अपराजितॊ जयॊतिकश च पन्नगः शरीवहस तथा
कौरव्यॊ धृतराष्ट्रश च पुष्करः शल्यकस तथा
MBh 1.31.14
विरजाश च सुबाहुश च शालिपिण्डश च वीर्यवान
हस्तिभद्रः पिठरकॊ मुखरः कॊण वासनः
MBh 1.31.15
कुञ्जरः कुररश चैव तथा नागः परभा करः
कुमुदः कुमुदाक्षश च तित्तिरिर हलिकस तथा
कर्कराकर्करौ चॊभौ कुण्डॊदर महॊदरौ
MBh 1.31.16
एते पराधान्यतॊ नागाः कीर्तिता दविजसत्तम
बहुत्वान नामधेयानाम इतरे न परकीर्तिताः
MBh 1.31.17
एतेषां परसवॊ यश च परसवस्य च संततिः
असंख्येयेति मत्वा तान न बरवीमि दविजॊत्तम
MBh 1.31.18
बहूनीह सहस्राणि परयुतान्य अर्बुदानि च
अशक्यान्य एव संख्यातुं भुजगानां तपॊधन
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 30
- Next chapter · Ādi-Parva Ch 32 →
🪷 जय व्यास भगवान् 🪷