🪷 Mahābhārata · Ādi-Parva · Chapter 214

The Book of the Beginning · Parva 1 · 32 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 32 Shlokas

MBh 1.214.1
वैशंपायन उवाच इन्द्रप्रस्थे वसन्तस्ते जघ्नुरन्यान्नराधिपान् शासनाद्धृतराष्ट्रस्य राज्ञः शांतनवस्य च
MBh 1.214.2
आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम् पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः
MBh 1.214.3
स समं धर्मकामार्थान्सिषेवे भरतर्षभः त्रीनिवात्मसमान्बन्धून्बन्धुमानिव मानयन्
MBh 1.214.4
तेषां समविभक्तानां क्षितौ देहवतामिव बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः
MBh 1.214.5
अध्येतारं परं वेदाः प्रयोक्तारं महाध्वराः रक्षितारं शुभं वर्णा लेभिरे तं जनाधिपम्
MBh 1.214.6
अधिष्ठानवती लक्ष्मीः परायणवती मतिः बन्धुमानखिलो धर्मस्तेनासीत्पृथिवीक्षिता
MBh 1.214.7
भ्रातृभिः सहितो राजा चतुर्भिरधिकं बभौ प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः
MBh 1.214.8
तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे बृहस्पतिसमा मुख्याः प्रजापतिमिवामराः
MBh 1.214.9
धर्मराजे अतिप्रीत्या पूर्णचन्द्र इवामले प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च
MBh 1.214.10
न तु केवलदैवेन प्रजा भावेन रेमिरे यद्बभूव मनःकान्तं कर्मणा स चकार तत्
MBh 1.214.11
न ह्ययुक्तं न चासत्यं नानृतं न च विप्रियम् भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः
MBh 1.214.12
स हि सर्वस्य लोकस्य हितमात्मन एव च चिकीर्षुः सुमहातेजा रेमे भरतसत्तमः
MBh 1.214.13
तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः अवसन्पृथिवीपालांस्त्रासयन्तः स्वतेजसा
MBh 1.214.14
ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत् उष्णानि कृष्ण वर्तन्ते गच्छामो यमुनां प्रति
MBh 1.214.15
सुहृज्जनवृतास्तत्र विहृत्य मधुसूदन सायाह्ने पुनरेष्यामो रोचतां ते जनार्दन
MBh 1.214.16
वासुदेव उवाच कुन्तीमातर्ममाप्येतद्रोचते यद्वयं जले सुहृज्जनवृताः पार्थ विहरेम यथासुखम्
MBh 1.214.17
वैशंपायन उवाच आमन्त्र्य धर्मराजानमनुज्ञाप्य च भारत जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः
MBh 1.214.18
विहारदेशं संप्राप्य नानाद्रुमवदुत्तमम् गृहैरुच्चावचैर्युक्तं पुरंदरगृहोपमम्
MBh 1.214.19
भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्भिर्महाधनैः माल्यैश्च विविधैर्युक्तं युक्तं वार्ष्णेयपार्थयोः
MBh 1.214.20
आविवेशतुरापूर्णं रत्नैरुच्चावचैः शुभैः यथोपजोषं सर्वश्च जनश्चिक्रीड भारत
MBh 1.214.21
वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः यथादेशं यथाप्रीति चिक्रीडुः कृष्णपार्थयोः
MBh 1.214.22
द्रौपदी च सुभद्रा च वासांस्याभरणानि च प्रयच्छेतां महार्हाणि स्त्रीणां ते स्म मदोत्कटे
MBh 1.214.23
काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथापराः जहसुश्चापरा नार्यः पपुश्चान्या वरासवम्
MBh 1.214.24
रुरुदुश्चापरास्तत्र प्रजघ्नुश्च परस्परम् मन्त्रयामासुरन्याश्च रहस्यानि परस्परम्
MBh 1.214.25
वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः शब्देनापूर्यते ह स्म तद्वनं सुसमृद्धिमत्
MBh 1.214.26
तस्मिंस्तथा वर्तमाने कुरुदाशार्हनन्दनौ समीपे जग्मतुः कंचिदुद्देशं सुमनोहरम्
MBh 1.214.27
तत्र गत्वा महात्मानौ कृष्णौ परपुरंजयौ महार्हासनयो राजंस्ततस्तौ संनिषीदतुः
MBh 1.214.28
तत्र पूर्वव्यतीतानि विक्रान्तानि रतानि च बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ
MBh 1.214.29
तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव अभ्यगच्छत्तदा विप्रो वासुदेवधनंजयौ
MBh 1.214.30
बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः हरिपिङ्गो हरिश्मश्रुः प्रमाणायामतः समः
MBh 1.214.31
तरुणादित्यसंकाशः कृष्णवासा जटाधरः पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव
MBh 1.214.32
उपसृष्टं तु तं कृष्णौ भ्राजमानं द्विजोत्तमम् अर्जुनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 32 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 1.214local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷