🪷 Mahābhārata · Ādi-Parva · Chapter 213
The Book of the Beginning · Parva 1 · 82 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 82 Shlokas
MBh 1.213.1
वैशंपायन उवाच
उक्तवन्तो यदा वाक्यमसकृत्सर्ववृष्णयः
ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंहितम्
MBh 1.213.2
नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान्
संमानोऽभ्यधिकस्तेन प्रयुक्तोऽयमसंशयम्
MBh 1.213.3
अर्थलुब्धान्न वः पार्थो मन्यते सात्वतान्सदा
स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः
MBh 1.213.4
प्रदानमपि कन्यायाः पशुवत्कोऽनुमंस्यते
विक्रयं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि
MBh 1.213.5
एतान्दोषांश्च कौन्तेयो दृष्टवानिति मे मतिः
अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः
MBh 1.213.6
उचितश्चैव संबन्धः सुभद्रा च यशस्विनी
एष चापीदृशः पार्थः प्रसह्य हृतवानिति
MBh 1.213.7
भरतस्यान्वये जातं शंतनोश्च महात्मनः
कुन्तिभोजात्मजापुत्रं को बुभूषेत नार्जुनम्
MBh 1.213.8
न च पश्यामि यः पार्थं विक्रमेण पराजयेत्
अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष
MBh 1.213.9
स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः
योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत्
MBh 1.213.10
तमनुद्रुत्य सान्त्वेन परमेण धनंजयम्
निवर्तयध्वं संहृष्टा ममैषा परमा मतिः
MBh 1.213.11
यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरम्
प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः
MBh 1.213.12
तच्छ्रुत्वा वासुदेवस्य तथा चक्रुर्जनाधिप
निवृत्तश्चार्जुनस्तत्र विवाहं कृतवांस्ततः
MBh 1.213.13
उषित्वा तत्र कौन्तेयः संवत्सरपराः क्षपाः
पुष्करेषु ततः शिष्टं कालं वर्तितवान्प्रभुः
पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थमाविशत्
MBh 1.213.14
अभिगम्य स राजानं विनयेन समाहितः
अभ्यर्च्य ब्राह्मणान्पार्थो द्रौपदीमभिजग्मिवान्
MBh 1.213.15
तं द्रौपदी प्रत्युवाच प्रणयात्कुरुनन्दनम्
तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा
सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते
MBh 1.213.16
तथा बहुविधं कृष्णां विलपन्तीं धनंजयः
सान्त्वयामास भूयश्च क्षमयामास चासकृत्
MBh 1.213.17
सुभद्रां त्वरमाणश्च रक्तकौशेयवाससम्
पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः
MBh 1.213.18
साधिकं तेन रूपेण शोभमाना यशस्विनी
भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना
ववन्दे पृथुताम्राक्षी पृथां भद्रा यशस्विनी
MBh 1.213.19
ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना
ववन्दे द्रौपदीं भद्रा प्रेष्याहमिति चाब्रवीत्
MBh 1.213.20
प्रत्युत्थाय च तां कृष्णा स्वसारं माधवस्य ताम्
सस्वजे चावदत्प्रीता निःसपत्नोऽस्तु ते पतिः
तथैव मुदिता भद्रा तामुवाचैवमस्त्विति
MBh 1.213.21
ततस्ते हृष्टमनसः पाण्डवेया महारथाः
कुन्ती च परमप्रीता बभूव जनमेजय
MBh 1.213.22
श्रुत्वा तु पुण्डरीकाक्षः संप्राप्तं स्वपुरोत्तमम्
अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तदा
MBh 1.213.23
आजगाम विशुद्धात्मा सह रामेण केशवः
वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः
MBh 1.213.24
भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः
सैन्येन महता शौरिरभिगुप्तः परंतपः
MBh 1.213.25
तत्र दानपतिर्धीमानाजगाम महायशाः
अक्रूरो वृष्णिवीराणां सेनापतिररिंदमः
MBh 1.213.26
अनाधृष्टिर्महातेजा उद्धवश्च महायशाः
साक्षाद्बृहस्पतेः शिष्यो महाबुद्धिर्महायशाः
MBh 1.213.27
सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः
प्रद्युम्नश्चैव साम्बश्च निशठः शङ्कुरेव च
MBh 1.213.28
चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च
सारणश्च महाबाहुर्गदश्च विदुषां वरः
MBh 1.213.29
एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा
आजग्मुः खाण्डवप्रस्थमादाय हरणं बहु
MBh 1.213.30
ततो युधिष्ठिरो राजा श्रुत्वा माधवमागतम्
प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा
MBh 1.213.31
ताभ्यां प्रतिगृहीतं तद्वृष्णिचक्रं समृद्धिमत्
विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम्
MBh 1.213.32
सिक्तसंमृष्टपन्थानं पुष्पप्रकरशोभितम्
चन्दनस्य रसैः शीतैः पुण्यगन्धैर्निषेवितम्
MBh 1.213.33
दह्यतागुरुणा चैव देशे देशे सुगन्धिना
सुसंमृष्टजनाकीर्णं वणिग्भिरुपशोभितम्
MBh 1.213.34
प्रतिपेदे महाबाहुः सह रामेण केशवः
वृष्ण्यन्धकमहाभोजैः संवृतः पुरुषोत्तमः
MBh 1.213.35
संपूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः
विवेश भवनं राज्ञः पुरंदरगृहोपमम्
MBh 1.213.36
युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि
मूर्ध्नि केशवमाघ्राय पर्यष्वजत बाहुना
MBh 1.213.37
तं प्रीयमाणं कृष्णस्तु विनयेनाभ्यपूजयत्
भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत्
MBh 1.213.38
तांश्च वृष्ण्यन्धकश्रेष्ठान्धर्मराजो युधिष्ठिरः
प्रतिजग्राह सत्कारैर्यथाविधि यथोपगम्
MBh 1.213.39
गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत्
कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः
MBh 1.213.40
ततो ददौ वासुदेवो जन्यार्थे धनमुत्तमम्
हरणं वै सुभद्राया ज्ञातिदेयं महायशाः
MBh 1.213.41
रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम्
चतुर्युजामुपेतानां सूतैः कुशलसंमतैः
सहस्रं प्रददौ कृष्णो गवामयुतमेव च
MBh 1.213.42
श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम्
वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम्
ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषणम्
MBh 1.213.43
तथैवाश्वतरीणां च दान्तानां वातरंहसाम्
शतान्यञ्जनकेशीनां श्वेतानां पञ्च पञ्च च
MBh 1.213.44
स्नापनोत्सादने चैव सुयुक्तं वयसान्वितम्
स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम्
MBh 1.213.45
सुवर्णशतकण्ठीनामरोगाणां सुवाससाम्
परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः
MBh 1.213.46
कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः
मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः
MBh 1.213.47
गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम्
गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम्
MBh 1.213.48
कॢप्तानां पटुघण्टानां वराणां हेममालिनाम्
हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः
MBh 1.213.49
रामः पादग्राहणिकं ददौ पार्थाय लाङ्गली
प्रीयमाणो हलधरः संबन्धप्रीतिमावहन्
MBh 1.213.50
स महाधनरत्नौघो वस्त्रकम्बलफेनवान्
महागजमहाग्राहः पताकाशैवलाकुलः
MBh 1.213.51
पाण्डुसागरमाविद्धः प्रविवेश महानदः
पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत्
MBh 1.213.52
प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्ठिरः
पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान्
MBh 1.213.53
ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः
विजह्रुरमरावासे नराः सुकृतिनो यथा
MBh 1.213.54
तत्र तत्र महापानैरुत्कृष्टतलनादितैः
यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः
MBh 1.213.55
एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून्
पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं पुरीम्
MBh 1.213.56
रामं पुरस्कृत्य ययुर्वृष्ण्यन्धकमहारथाः
रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः
MBh 1.213.57
वासुदेवस्तु पार्थेन तत्रैव सह भारत
उवास नगरे रम्ये शक्रप्रस्थे महामनाः
व्यचरद्यमुनाकूले पार्थेन सह भारत
MBh 1.213.58
ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा
जयन्तमिव पौलोमी द्युतिमन्तमजीजनत्
MBh 1.213.59
दीर्घबाहुं महासत्त्वमृषभाक्षमरिंदमम्
सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम्
MBh 1.213.60
अभीश्च मन्युमांश्चैव ततस्तमरिमर्दनम्
अभिमन्युमिति प्राहुरार्जुनिं पुरुषर्षभम्
MBh 1.213.61
स सात्वत्यामतिरथः संबभूव धनंजयात्
मखे निर्मथ्यमानाद्वा शमीगर्भाद्धुताशनः
MBh 1.213.62
यस्मिञ्जाते महाबाहुः कुन्तीपुत्रो युधिष्ठिरः
अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च तावतः
MBh 1.213.63
दयितो वासुदेवस्य बाल्यात्प्रभृति चाभवत्
पितॄणां चैव सर्वेषां प्रजानामिव चन्द्रमाः
MBh 1.213.64
जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः
स चापि ववृधे बालः शुक्लपक्षे यथा शशी
MBh 1.213.65
चतुष्पादं दशविधं धनुर्वेदमरिंदमः
अर्जुनाद्वेद वेदज्ञात्सकलं दिव्यमानुषम्
MBh 1.213.66
विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः
क्रियास्वपि च सर्वासु विशेषानभ्यशिक्षयत्
MBh 1.213.67
आगमे च प्रयोगे च चक्रे तुल्यमिवात्मनः
तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनंजयः
MBh 1.213.68
सर्वसंहननोपेतं सर्वलक्षणलक्षितम्
दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम्
MBh 1.213.69
सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम्
मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम्
MBh 1.213.70
कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाकृतौ
ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा
MBh 1.213.71
पाञ्चाल्यपि च पञ्चभ्यः पतिभ्यः शुभलक्षणा
लेभे पञ्च सुतान्वीराञ्शुभान्पञ्चाचलानिव
MBh 1.213.72
युधिष्ठिरात्प्रतिविन्ध्यं सुतसोमं वृकोदरात्
अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम्
MBh 1.213.73
सहदेवाच्छ्रुतसेनमेतान्पञ्च महारथान्
पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा
MBh 1.213.74
शास्त्रतः प्रतिविन्ध्यं तमूचुर्विप्रा युधिष्ठिरम्
परप्रहरणज्ञाने प्रतिविन्ध्यो भवत्वयम्
MBh 1.213.75
सुते सोमसहस्रे तु सोमार्कसमतेजसम्
सुतसोमं महेष्वासं सुषुवे भीमसेनतः
MBh 1.213.76
श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना
जातः पुत्रस्तवेत्येवं श्रुतकर्मा ततोऽभवत्
MBh 1.213.77
शतानीकस्य राजर्षेः कौरव्यः कुरुनन्दनः
चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम्
MBh 1.213.78
ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्निदैवते
सहदेवात्सुतं तस्माच्छ्रुतसेनेति तं विदुः
MBh 1.213.79
एकवर्षान्तरास्त्वेव द्रौपदेया यशस्विनः
अन्वजायन्त राजेन्द्र परस्परहिते रताः
MBh 1.213.80
जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च
चकार विधिवद्धौम्यस्तेषां भरतसत्तम
MBh 1.213.81
कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः
जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम्
MBh 1.213.82
देवगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महाबलैः
अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 212
- Next chapter · Ādi-Parva Ch 214 →
Sources and Connected Readings
Continue from these 82 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 1.213local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷