🪷 Mahābhārata · Ādi-Parva · Chapter 186
The Book of the Beginning · Parva 1 · 15 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 15 Shlokas
MBh 1.186.1
दूत उवाच
जन्यार्थमन्नं द्रुपदेन राज्ञा; विवाहहेतोरुपसंस्कृतं च
तदाप्नुवध्वं कृतसर्वकार्याः; कृष्णा च तत्रैव चिरं न कार्यम्
MBh 1.186.2
इमे रथाः काञ्चनपद्मचित्राः; सदश्वयुक्ता वसुधाधिपार्हाः
एतान्समारुह्य परैत सर्वे; पाञ्चालराजस्य निवेशनं तत्
MBh 1.186.3
वैशंपायन उवाच
ततः प्रयाताः कुरुपुंगवास्ते; पुरोहितं तं प्रथमं प्रयाप्य
आस्थाय यानानि महान्ति तानि; कुन्ती च कृष्णा च सहैव याते
MBh 1.186.4
श्रुत्वा तु वाक्यानि पुरोहितस्य; यान्युक्तवान्भारत धर्मराजः
जिज्ञासयैवाथ कुरूत्तमानां; द्रव्याण्यनेकान्युपसंजहार
MBh 1.186.5
फलानि माल्यानि सुसंस्कृतानि; चर्माणि वर्माणि तथासनानि
गाश्चैव राजन्नथ चैव रज्जू;र्द्रव्याणि चान्यानि कृषीनिमित्तम्
MBh 1.186.6
अन्येषु शिल्पेषु च यान्यपि स्युः; सर्वाणि कॢप्तान्यखिलेन तत्र
क्रीडानिमित्तानि च यानि तानि; सर्वाणि तत्रोपजहार राजा
MBh 1.186.7
रथाश्ववर्माणि च भानुमन्ति; खड्गा महान्तोऽश्वरथाश्च चित्राः
धनूंषि चाग्र्याणि शराश्च मुख्याः; शक्त्यृष्टयः काञ्चनभूषिताश्च
MBh 1.186.8
प्रासा भुशुण्ड्यश्च परश्वधाश्च; सांग्रामिकं चैव तथैव सर्वम्
शय्यासनान्युत्तमसंस्कृतानि; तथैव चासन्विविधानि तत्र
MBh 1.186.9
कुन्ती तु कृष्णां परिगृह्य साध्वी;मन्तःपुरं द्रुपदस्याविवेष
स्त्रियश्च तां कौरवराजपत्नीं; प्रत्यर्चयां चक्रुरदीनसत्त्वाः
MBh 1.186.10
तान्सिंहविक्रान्तगतीनवेक्ष्य; महर्षभाक्षानजिनोत्तरीयान्
गूढोत्तरांसान्भुजगेन्द्रभोग;प्रलम्बबाहून्पुरुषप्रवीरान्
MBh 1.186.11
राजा च राज्ञः सचिवाश्च सर्वे; पुत्राश्च राज्ञः सुहृदस्तथैव
प्रेष्याश्च सर्वे निखिलेन राज;न्हर्षं समापेतुरतीव तत्र
MBh 1.186.12
ते तत्र वीराः परमासनेषु; सपादपीठेष्वविशङ्कमानाः
यथानुपूर्व्या विविशुर्नराग्र्या;स्तदा महार्हेषु न विस्मयन्तः
MBh 1.186.13
उच्चावचं पार्थिवभोजनीयं; पात्रीषु जाम्बूनदराजतीषु
दासाश्च दास्यश्च सुमृष्टवेषाः; भोजापकाश्चाप्युपजह्रुरन्नम्
MBh 1.186.14
ते तत्र भुक्त्वा पुरुषप्रवीरा; यथानुकामं सुभृशं प्रतीताः
उत्क्रम्य सर्वाणि वसूनि तत्र; सांग्रामिकान्याविविशुर्नृवीराः
MBh 1.186.15
तल्लक्षयित्वा द्रुपदस्य पुत्रो; राजा च सर्वैः सह मन्त्रिमुख्यैः
समर्चयामासुरुपेत्य हृष्टाः; कुन्तीसुतान्पार्थिवपुत्रपौत्रान्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 185
- Next chapter · Ādi-Parva Ch 187 →
Sources and Connected Readings
Continue from these 15 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 1.186local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷