🪷 Mahābhārata · Ādi-Parva · Chapter 185

The Book of the Beginning · Parva 1 · 28 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 28 Shlokas

MBh 1.185.1
वैशंपायन उवाच ततस्तथोक्तः परिहृष्टरूपः; पित्रे शशंसाथ स राजपुत्रः धृष्टद्युम्नः सोमकानां प्रबर्हो; वृत्तं यथा येन हृता च कृष्णा
MBh 1.185.2
योऽसौ युवा स्वायतलोहिताक्षः; कृष्णाजिनी देवसमानरूपः यः कार्मुकाग्र्यं कृतवानधिज्यं; लक्ष्यं च तत्पातितवान्पृथिव्याम्
MBh 1.185.3
असज्जमानश्च गतस्तरस्वी; वृतो द्विजाग्र्यैरभिपूज्यमानः चक्राम वज्रीव दितेः सुतेषु; सर्वैश्च देवैरृषिभिश्च जुष्टः
MBh 1.185.4
कृष्णा च गृह्याजिनमन्वयात्तं; नागं यथा नागवधूः प्रहृष्टा अमृष्यमाणेषु नराधिपेषु; क्रुद्धेषु तं तत्र समापतत्सु
MBh 1.185.5
ततोऽपरः पार्थिवराजमध्ये; प्रवृद्धमारुज्य महीप्ररोहम् प्रकालयन्नेव स पार्थिवौघा;न्क्रुद्धोऽन्तकः प्राणभृतो यथैव
MBh 1.185.6
तौ पार्थिवानां मिषतां नरेन्द्र; कृष्णामुपादाय गतौ नराग्र्यौ विभ्राजमानाविव चन्द्रसूर्यौ; बाह्यां पुराद्भार्गवकर्मशालाम्
MBh 1.185.7
तत्रोपविष्टार्चिरिवानलस्य; तेषां जनित्रीति मम प्रतर्कः तथाविधैरेव नरप्रवीरै;रुपोपविष्टैस्त्रिभिरग्निकल्पैः
MBh 1.185.8
तस्यास्ततस्तावभिवाद्य पादा;वुक्त्वा च कृष्णामभिवादयेति स्थितौ च तत्रैव निवेद्य कृष्णां; भैक्षप्रचाराय गता नराग्र्याः
MBh 1.185.9
तेषां तु भैक्षं प्रतिगृह्य कृष्णा; कृत्वा बलिं ब्राह्मणसाच्च कृत्वा तां चैव वृद्धां परिविष्य तांश्च; नरप्रवीरान्स्वयमप्यभुङ्क्त
MBh 1.185.10
सुप्तास्तु ते पार्थिव सर्व एव; कृष्णा तु तेषां चरणोपधानम् आसीत्पृथिव्यां शयनं च तेषां; दर्भाजिनाग्र्यास्तरणोपपन्नम्
MBh 1.185.11
ते नर्दमाना इव कालमेघाः; कथा विचित्राः कथयां बभूवुः न वैश्यशूद्रौपयिकीः कथास्ता; न च द्विजातेः कथयन्ति वीराः
MBh 1.185.12
निःसंशयं क्षत्रियपुंगवास्ते; यथा हि युद्धं कथयन्ति राजन् आशा हि नो व्यक्तमियं समृद्धा; मुक्तान्हि पार्थाञ्शृणुमोऽग्निदाहात्
MBh 1.185.13
यथा हि लक्ष्यं निहतं धनुश्च; सज्यं कृतं तेन तथा प्रसह्य यथा च भाषन्ति परस्परं ते; छन्ना ध्रुवं ते प्रचरन्ति पार्थाः
MBh 1.185.14
ततः स राजा द्रुपदः प्रहृष्टः; पुरोहितं प्रेषयां तत्र चक्रे विद्याम युष्मानिति भाषमाणो; महात्मनः पाण्डुसुताः स्थ कच्चित्
MBh 1.185.15
गृहीतवाक्यो नृपतेः पुरोधा; गत्वा प्रशंसामभिधाय तेषाम् वाक्यं यथावन्नृपतेः समग्र;मुवाच तान्स क्रमवित्क्रमेण
MBh 1.185.16
विज्ञातुमिच्छत्यवनीश्वरो वः; पाञ्चालराजो द्रुपदो वरार्हाः लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वा; हर्षस्य नान्तं परिपश्यते सः
MBh 1.185.17
तदाचड्ढ्वं ज्ञातिकुलानुपूर्वीं; पदं शिरःसु द्विषतां कुरुध्वम् प्रह्लादयध्वं हृदयं ममेदं; पाञ्चालराजस्य सहानुगस्य
MBh 1.185.18
पाण्डुर्हि राजा द्रुपदस्य राज्ञः; प्रियः सखा चात्मसमो बभूव तस्यैष कामो दुहिता ममेयं; स्नुषा यदि स्यादिति कौरवस्य
MBh 1.185.19
अयं च कामो द्रुपदस्य राज्ञो; हृदि स्थितो नित्यमनिन्दिताङ्गाः यदर्जुनो वै पृथुदीर्घबाहु;र्धर्मेण विन्देत सुतां ममेति
MBh 1.185.20
तथोक्तवाक्यं तु पुरोहितं तं; स्थितं विनीतं समुदीक्ष्य राजा समीपस्थं भीममिदं शशास; प्रदीयतां पाद्यमर्घ्यं तथास्मै
MBh 1.185.21
मान्यः पुरोधा द्रुपदस्य राज्ञ;स्तस्मै प्रयोज्याभ्यधिकैव पूजा भीमस्तथा तत्कृतवान्नरेन्द्र; तां चैव पूजां प्रतिसंगृहीत्वा
MBh 1.185.22
सुखोपविष्टं तु पुरोहितं तं; युधिष्ठिरो ब्राह्मणमित्युवाच पाञ्चालराजेन सुता निसृष्टा; स्वधर्मदृष्टेन यथानुकामम्
MBh 1.185.23
प्रदिष्टशुल्का द्रुपदेन राज्ञा; सानेन वीरेण तथानुवृत्ता न तत्र वर्णेषु कृता विवक्षा; न जीवशिल्पे न कुले न गोत्रे
MBh 1.185.24
कृतेन सज्येन हि कार्मुकेण; विद्धेन लक्ष्येण च संनिसृष्टा सेयं तथानेन महात्मनेह; कृष्णा जिता पार्थिवसंघमध्ये
MBh 1.185.25
नैवंगते सौमकिरद्य राजा; संतापमर्हत्यसुखाय कर्तुम् कामश्च योऽसौ द्रुपदस्य राज्ञः; स चापि संपत्स्यति पार्थिवस्य
MBh 1.185.26
अप्राप्यरूपां हि नरेन्द्रकन्या;मिमामहं ब्राह्मण साधु मन्ये न तद्धनुर्मन्दबलेन शक्यं; मौर्व्या समायोजयितुं तथा हि न चाकृतास्त्रेण न हीनजेन; लक्ष्यं तथा पातयितुं हि शक्यम्
MBh 1.185.27
तस्मान्न तापं दुहितुर्निमित्तं; पाञ्चालराजोऽर्हति कर्तुमद्य न चापि तत्पातनमन्यथेह; कर्तुं विषह्यं भुवि मानवेन
MBh 1.185.28
एवं ब्रुवत्येव युधिष्ठिरे तु; पाञ्चालराजस्य समीपतोऽन्यः तत्राजगामाशु नरो द्वितीयो; निवेदयिष्यन्निह सिद्धमन्नम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 28 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 1.185local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷