🪷 Mahābhārata · Ādi-Parva · Chapter 183

The Book of the Beginning · Parva 1 · 9 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 9 Shlokas

MBh 1.183.1
[वै] भरातृवचस तत परसमीक्ष्य सर्वे; जयेष्ठस्य पाण्डॊस तनयास तदानीम तम एवार्थं धयायमाना मनॊभिर; आसां चक्रुर अथ तत्रामितौजाः
MBh 1.183.2
वृष्णिप्रवीरस तु कुरुप्रवीरान; आशङ्कमानः सहरौहिणेयः जगाम तां भार्गव कर्मशालां; यत्रासते ते पुरुषप्रवीराः
MBh 1.183.3
तत्रॊपविष्टं पृथु दीर्घबाहुं; ददर्श कृष्णः सहरौहिणेयः अजातशत्रुं परिवार्य तांश च; उपॊपविष्टाञ जवलनप्रकाशान
MBh 1.183.4
ततॊ ऽबरवीद वासुदेवॊ ऽभिगम्य; कुन्तीसुतं धर्मभृतां वरिष्टह्म कृष्णॊ ऽहम अस्मीति निपीड्य पादौ; युधिष्ठिरस्याजमीढस्य राज्ञः
MBh 1.183.5
तथैव तस्याप्य अनु रौहिणेयस; तौ चापि हृष्टाः कुरवॊ ऽभयनन्दन पितृष्वसुश चापि यदुप्रवीराव; अगृह्णतां भारतमुख्यपादौ
MBh 1.183.6
अजातशत्रुश च कुरुप्रवीरः; पप्रच्छ कृष्णं कुशलं निवेद्य कथं वयं वासुदेव तवयेह; गूढा वसन्तॊ विदिताः सम सर्वे
MBh 1.183.7
तम अब्रवीद वासुदेवः परहस्य; गूढॊ ऽपय अग्निर जञायत एव राजन तं विक्रमं पाण्डवेयानतीत्य; कॊ ऽनयः कर्ता विद्यते मानुषेषु
MBh 1.183.8
दिष्ट्या तस्मात पावकात संप्रमुक्ता; यूयं सर्वे पाण्डवाः शत्रुसाहाः दिष्ट्या पापॊ धृतराष्ट्रस्य पुत्रः; सहामात्यॊ न सकामॊ ऽभविष्यत
MBh 1.183.9
भद्रं वॊ ऽसतु निहितं यद गुहायां; विवर्धध्वं जवलन इवेध्यमानः मा वॊ विद्युः पार्थिवाः के चनेह; यास्यावहे शिबिरायैव तावत सॊ ऽनुज्ञातः पाण्डवेनाव्यय शरीः; परायाच छीघ्रं बलदेवेन सार्धम

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷