🪷 Mahābhārata · Ādi-Parva · Chapter 175
The Book of the Beginning · Parva 1 · 20 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 20 Shlokas
MBh 1.175.1
वैशंपायन उवाच
ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः
प्रययुर्द्रौपदीं द्रष्टुं तं च देवमहोत्सवम्
MBh 1.175.2
ते प्रयाता नरव्याघ्रा मात्रा सह परंतपाः
ब्राह्मणान्ददृशुर्मार्गे गच्छतः सगणान्बहून्
MBh 1.175.3
तानूचुर्ब्राह्मणा राजन्पाण्डवान्ब्रह्मचारिणः
क्व भवन्तो गमिष्यन्ति कुतो वागच्छतेति ह
MBh 1.175.4
युधिष्ठिर उवाच
आगतानेकचक्रायाः सोदर्यान्देवदर्शिनः
भवन्तो हि विजानन्तु सहितान्मातृचारिणः
MBh 1.175.5
ब्राह्मणा ऊचुः
गच्छताद्यैव पाञ्चालान्द्रुपदस्य निवेशनम्
स्वयंवरो महांस्तत्र भविता सुमहाधनः
MBh 1.175.6
एकसार्थं प्रयाताः स्मो वयमप्यत्र गामिनः
तत्र ह्यद्भुतसंकाशो भविता सुमहोत्सवः
MBh 1.175.7
यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः
वेदीमध्यात्समुत्पन्ना पद्मपत्रनिभेक्षणा
MBh 1.175.8
दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी
धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः
MBh 1.175.9
यो जातः कवची खड्गी सशरः सशरासनः
सुसमिद्धे महाबाहुः पावके पावकप्रभः
MBh 1.175.10
स्वसा तस्यानवद्याङ्गी द्रौपदी तनुमध्यमा
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति
MBh 1.175.11
तां यज्ञसेनस्य सुतां स्वयंवरकृतक्षणाम्
गच्छामहे वयं द्रष्टुं तं च देवमहोत्सवम्
MBh 1.175.12
राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः
स्वाध्यायवन्तः शुचयो महात्मानो यतव्रताः
MBh 1.175.13
तरुणा दर्शनीयाश्च नानादेशसमागताः
महारथाः कृतास्त्राश्च समुपैष्यन्ति भूमिपाः
MBh 1.175.14
ते तत्र विविधान्दायान्विजयार्थं नरेश्वराः
प्रदास्यन्ति धनं गाश्च भक्ष्यं भोज्यं च सर्वशः
MBh 1.175.15
प्रतिगृह्य च तत्सर्वं दृष्ट्वा चैव स्वयंवरम्
अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम्
MBh 1.175.16
नटा वैतालिकाश्चैव नर्तकाः सूतमागधाः
नियोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः
MBh 1.175.17
एवं कौतूहलं कृत्वा दृष्ट्वा च प्रतिगृह्य च
सहास्माभिर्महात्मानः पुनः प्रतिनिवर्त्स्यथ
MBh 1.175.18
दर्शनीयांश्च वः सर्वान्देवरूपानवस्थितान्
समीक्ष्य कृष्णा वरयेत्संगत्यान्यतमं वरम्
MBh 1.175.19
अयं भ्राता तव श्रीमान्दर्शनीयो महाभुजः
नियुध्यमानो विजयेत्संगत्या द्रविणं बहु
MBh 1.175.20
युधिष्ठिर उवाच
परमं भो गमिष्यामो द्रष्टुं देवमहोत्सवम्
भवद्भिः सहिताः सर्वे कन्यायास्तं स्वयंवरम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 174
- Next chapter · Ādi-Parva Ch 176 →
Sources and Connected Readings
Continue from these 20 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 1.175local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷