🪷 Mahābhārata · Ādi-Parva · Chapter 17

The Book of the Beginning · Parva 1 · 30 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 30 Shlokas

MBh 1.17.1
सूत उवाच अथावरणमुख्यानि नानाप्रहरणानि च प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः
MBh 1.17.2
ततस्तदमृतं देवो विष्णुरादाय वीर्यवान् जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः
MBh 1.17.3
ततो देवगणाः सर्वे पपुस्तदमृतं तदा विष्णोः सकाशात्संप्राप्य संभ्रमे तुमुले सति
MBh 1.17.4
ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम् राहुर्विबुधरूपेण दानवः प्रापिबत्तदा
MBh 1.17.5
तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया
MBh 1.17.6
ततो भगवता तस्य शिरश्छिन्नमलंकृतम् चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा
MBh 1.17.7
तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत् चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम्
MBh 1.17.8
ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ
MBh 1.17.9
विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत्
MBh 1.17.10
ततः प्रवृत्तः संग्रामः समीपे लवणाम्भसः सुराणामसुराणां च सर्वघोरतरो महान्
MBh 1.17.11
प्रासाः सुविपुलास्तीक्ष्णा न्यपतन्त सहस्रशः तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च
MBh 1.17.12
ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु असिशक्तिगदारुग्णा निपेतुर्धरणीतले
MBh 1.17.13
छिन्नानि पट्टिशैश्चापि शिरांसि युधि दारुणे तप्तकाञ्चनजालानि निपेतुरनिशं तदा
MBh 1.17.14
रुधिरेणावलिप्ताङ्गा निहताश्च महासुराः अद्रीणामिव कूटानि धातुरक्तानि शेरते
MBh 1.17.15
हाहाकारः समभवत्तत्र तत्र सहस्रशः अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति
MBh 1.17.16
परिघैश्चायसैः पीतैः संनिकर्षे च मुष्टिभिः निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत्
MBh 1.17.17
छिन्धि भिन्धि प्रधावध्वं पातयाभिसरेति च व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः
MBh 1.17.18
एवं सुतुमुले युद्धे वर्तमाने भयावहे नरनारायणौ देवौ समाजग्मतुराहवम्
MBh 1.17.19
तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि चिन्तयामास वै चक्रं विष्णुर्दानवसूदनम्
MBh 1.17.20
ततोऽम्बराच्चिन्तितमात्रमागतं; महाप्रभं चक्रममित्रतापनम् विभावसोस्तुल्यमकुण्ठमण्डलं; सुदर्शनं भीममजय्यमुत्तमम्
MBh 1.17.21
तदागतं ज्वलितहुताशनप्रभं; भयंकरं करिकरबाहुरच्युतः मुमोच वै चपलमुदग्रवेगव;न्महाप्रभं परनगरावदारणम्
MBh 1.17.22
तदन्तकज्वलनसमानवर्चसं; पुनः पुनर्न्यपतत वेगवत्तदा विदारयद्दितिदनुजान्सहस्रशः; करेरितं पुरुषवरेण संयुगे
MBh 1.17.23
दहत्क्वचिज्ज्वलन इवावलेलिह;त्प्रसह्य तानसुरगणान्न्यकृन्तत प्रवेरितं वियति मुहुः क्षितौ तदा; पपौ रणे रुधिरमथो पिशाचवत्
MBh 1.17.24
अथासुरा गिरिभिरदीनचेतसो; मुहुर्मुहुः सुरगणमर्दयंस्तदा महाबला विगलितमेघवर्चसः; सहस्रशो गगनमभिप्रपद्य ह
MBh 1.17.25
अथाम्बराद्भयजननाः प्रपेदिरे; सपादपा बहुविधमेघरूपिणः महाद्रयः प्रविगलिताग्रसानवः; परस्परं द्रुतमभिहत्य सस्वनाः
MBh 1.17.26
ततो मही प्रविचलिता सकानना; महाद्रिपाताभिहता समन्ततः परस्परं भृशमभिगर्जतां मुहू; रणाजिरे भृशमभिसंप्रवर्तिते
MBh 1.17.27
नरस्ततो वरकनकाग्रभूषणै;र्महेषुभिर्गगनपथं समावृणोत् विदारयन्गिरिशिखराणि पत्रिभि;र्महाभयेऽसुरगणविग्रहे तदा
MBh 1.17.28
ततो महीं लवणजलं च सागरं; महासुराः प्रविविशुरर्दिताः सुरैः वियद्गतं ज्वलितहुताशनप्रभं; सुदर्शनं परिकुपितं निशाम्य च
MBh 1.17.29
ततः सुरैर्विजयमवाप्य मन्दरः; स्वमेव देशं गमितः सुपूजितः विनाद्य खं दिवमपि चैव सर्वश;स्ततो गताः सलिलधरा यथागतम्
MBh 1.17.30
ततोऽमृतं सुनिहितमेव चक्रिरे; सुराः परां मुदमभिगम्य पुष्कलाम् ददौ च तं निधिममृतस्य रक्षितुं; किरीटिने बलभिदथामरैः सह

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 30 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 1.17local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷