🪷 Mahābhārata · Ādi-Parva · Chapter 165

The Book of the Beginning · Parva 1 · 44 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 44 Shlokas

MBh 1.165.1
अर्जुन उवाच किंनिमित्तमभूद्वैरं विश्वामित्रवसिष्ठयोः वसतोराश्रमे पुण्ये शंस नः सर्वमेव तत्
MBh 1.165.2
गन्धर्व उवाच इदं वासिष्ठमाख्यानं पुराणं परिचक्षते पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे
MBh 1.165.3
कन्यकुब्जे महानासीत्पार्थिवो भरतर्षभ गाधीति विश्रुतो लोके सत्यधर्मपरायणः
MBh 1.165.4
तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः
MBh 1.165.5
स चचार सहामात्यो मृगयां गहने वने मृगान्विध्यन्वराहांश्च रम्येषु मरुधन्वसु
MBh 1.165.6
व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति
MBh 1.165.7
तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया
MBh 1.165.8
पाद्यार्घ्याचमनीयेन स्वागतेन च भारत तथैव प्रतिजग्राह वन्येन हविषा तथा
MBh 1.165.9
तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः उक्ता कामान्प्रयच्छेति सा कामान्दुदुहे ततः
MBh 1.165.10
ग्राम्यारण्या ओषधीश्च दुदुहे पय एव च षड्रसं चामृतरसं रसायनमनुत्तमम्
MBh 1.165.11
भोजनीयानि पेयानि भक्ष्याणि विविधानि च लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुन
MBh 1.165.12
तैः कामैः सर्वसंपूर्णैः पूजितः स महीपतिः सामात्यः सबलश्चैव तुतोष स भृशं नृपः
MBh 1.165.13
षडायतां सुपार्श्वोरुं त्रिपृथुं पञ्च संवृताम् मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम्
MBh 1.165.14
सुवालधिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम् पुष्टायतशिरोग्रीवां विस्मितः सोऽभिवीक्ष्य ताम्
MBh 1.165.15
अभिनन्दति तां नन्दीं वसिष्ठस्य पयस्विनीम् अब्रवीच्च भृशं तुष्टो विश्वामित्रो मुनिं तदा
MBh 1.165.16
अर्बुदेन गवां ब्रह्मन्मम राज्येन वा पुनः नन्दिनीं संप्रयच्छस्व भुङ्क्ष्व राज्यं महामुने
MBh 1.165.17
वसिष्ठ उवाच देवतातिथिपित्रर्थमाज्यार्थं च पयस्विनी अदेया नन्दिनीयं मे राज्येनापि तवानघ
MBh 1.165.18
विश्वामित्र उवाच क्षत्रियोऽहं भवान्विप्रस्तपःस्वाध्यायसाधनः ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु
MBh 1.165.19
अर्बुदेन गवां यस्त्वं न ददासि ममेप्सिताम् स्वधर्मं न प्रहास्यामि नयिष्ये ते बलेन गाम्
MBh 1.165.20
वसिष्ठ उवाच बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः यथेच्छसि तथा क्षिप्रं कुरु त्वं मा विचारय
MBh 1.165.21
गन्धर्व उवाच एवमुक्तस्तदा पार्थ विश्वामित्रो बलादिव हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम्
MBh 1.165.22
कशादण्डप्रतिहता काल्यमाना ततस्ततः हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी
MBh 1.165.23
आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी भृशं च ताड्यमानापि न जगामाश्रमात्ततः
MBh 1.165.24
वसिष्ठ उवाच शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः बलाद्ध्रियसि मे नन्दि क्षमावान्ब्राह्मणो ह्यहम्
MBh 1.165.25
गन्धर्व उवाच सा तु तेषां बलान्नन्दी बलानां भरतर्षभ विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत्
MBh 1.165.26
गौरुवाच पाषाणदण्डाभिहतां क्रन्दन्तीं मामनाथवत् विश्वामित्रबलैर्घोरैर्भगवन्किमुपेक्षसे
MBh 1.165.27
गन्धर्व उवाच एवं तस्यां तदा पर्थ धर्षितायां महामुनिः न चुक्षुभे न धैर्याच्च विचचाल धृतव्रतः
MBh 1.165.28
वसिष्ठ उवाच क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम् क्षमा मां भजते तस्माद्गम्यतां यदि रोचते
MBh 1.165.29
गौरुवाच किं नु त्यक्तास्मि भगवन्यदेवं मां प्रभाषसे अत्यक्ताहं त्वया ब्रह्मन्न शक्या नयितुं बलात्
MBh 1.165.30
वसिष्ठ उवाच न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते दृढेन दाम्ना बद्ध्वैष वत्सस्ते ह्रियते बलात्
MBh 1.165.31
गन्धर्व उवाच स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्य पयस्विनी ऊर्ध्वाञ्चितशिरोग्रीवा प्रबभौ घोरदर्शना
MBh 1.165.32
क्रोधरक्तेक्षणा सा गौर्हम्भारवघनस्वना विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्वशः
MBh 1.165.33
कशाग्रदण्डाभिहता काल्यमाना ततस्ततः क्रोधदीप्तेक्षणा क्रोधं भूय एव समादधे
MBh 1.165.34
आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ अङ्गारवर्षं मुञ्चन्ती मुहुर्वालधितो महत्
MBh 1.165.35
असृजत्पह्लवान्पुच्छाच्छकृतः शबराञ्शकान् मूत्रतश्चासृजच्चापि यवनान्क्रोधमूर्च्छिता
MBh 1.165.36
पुण्ड्रान्किरातान्द्रमिडान्सिंहलान्बर्बरांस्तथा तथैव दरदान्म्लेच्छान्फेनतः सा ससर्ज ह
MBh 1.165.37
तैर्विसृष्टैर्महत्सैन्यं नानाम्लेच्छगणैस्तदा नानावरणसंछन्नैर्नानायुधधरैस्तथा अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः
MBh 1.165.38
एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः अस्त्रवर्षेण महता काल्यमानं बलं ततः प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः
MBh 1.165.39
न च प्राणैर्वियुज्यन्त केचित्ते सैनिकास्तदा विश्वामित्रस्य संक्रुद्धैर्वासिष्ठैर्भरतर्षभ
MBh 1.165.40
विश्वामित्रस्य सैन्यं तु काल्यमानं त्रियोजनम् क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत
MBh 1.165.41
दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजोभवं तदा विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत्
MBh 1.165.42
धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् बलाबलं विनिश्चित्य तप एव परं बलम्
MBh 1.165.43
स राज्यं स्फीतमुत्सृज्य तां च दीप्तां नृपश्रियम् भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे
MBh 1.165.44
स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा तताप सर्वान्दीप्तौजा ब्राह्मणत्वमवाप च अपिबच्च सुतं सोममिन्द्रेण सह कौशिकः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 44 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 1.165local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷