🪷 Mahābhārata · Ādi-Parva · Chapter 166

The Book of the Beginning · Parva 1 · 45 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 45 Shlokas

MBh 1.166.1
[ग] कल्माषपाद इत्य अस्मिँल लॊके राजा बभूव ह इक्ष्वाकुवंशजः पार्थ तेजसासदृशॊ भुवि
MBh 1.166.2
स कदा चिद वनं राजा मृगयां निर्ययौ पुरात मृगान विध्यन वराहांश च चचार रिपुमर्दनः
MBh 1.166.3
स तु राजा महात्मानं वासिष्ठम ऋषिसात्तमम तृषार्तश च कषुधार्तश च एकायनगतः पथि
MBh 1.166.4
अपश्यद अजितः संख्ये मुनिं परतिमुखागतम शक्तिं नाम महाभागं वसिष्ठ कुलनन्दनम जयेष्ठं पुत्रशतात पुत्रं वसिष्ठस्य महात्मनः
MBh 1.166.5
अपगच्छ पथॊ ऽसमाकम इत्य एवं पार्थिवॊ ऽबरवीत तथा ऋषिर उवाचैनं सान्त्वयञ शलक्ष्णया गिरा
MBh 1.166.6
ऋषिस तु नापचक्राम तस्मिन दर्म पथे सथितः नापि राजा मुनेर मानात करॊधाच्च चापि जगाम ह
MBh 1.166.7
अमुञ्चन्तं तु पन्थानं तम ऋषिं नृपसत्तमः जघान कशया मॊहात तदा राक्षसवन मुनिम
MBh 1.166.8
कशा परहाराभिहतस ततः स मुनिसत्तमः तं शशाप नृपश्रेष्ठं वासिष्ठः करॊधमूर्च्छितः
MBh 1.166.9
हंसि राक्षसवद यस्माद राजापसद तापसम तस्मात तवम अद्य परभृति पुरुषादॊ भविष्यसि
MBh 1.166.10
मनुष्यपिशिते सक्तश चरिष्यसि महीम इमाम गच्छ राजाधमेत्य उक्तः शक्तिना वीर्यशक्तिना
MBh 1.166.11
ततॊ याज्य निमित्तं तु विश्वामित्र वसिष्ठयॊः वैरम आसीत तदा तं तु विश्वामित्रॊ ऽनवपद्यत
MBh 1.166.12
तयॊर विवदतॊर एवं समीपम उपचक्रमे ऋषिर उग्रतपाः पार्थ विश्वामित्रः परतापवान
MBh 1.166.13
ततः स बुबुधे पश्चात तम ऋषिं नृपसत्तमः ऋषेः पुत्रं वसिष्ठस्य वसिष्ठम इव तेजसा
MBh 1.166.14
अन्तर्धाय तदात्मानं विश्वामित्रॊ ऽपि भारत ताव उभाव उपचक्राम चिकीर्षन्न आत्मनः परियम
MBh 1.166.15
स तु शप्तस तदा तेन शक्तिना वै नृपॊत्तमः जगाम शरणं शक्तिं परसादयितुम अर्हयन
MBh 1.166.16
तस्य भावं विदित्वा स नृपतेः कुरुनन्दन विश्वामित्रस ततॊ रक्ष आदिदेश नृपं परति
MBh 1.166.17
स शापात तस्य विप्रर्षेर विश्वामित्रस्य चाज्ञया राक्षसाः किंकरॊ नाम विवेश नृपतिं तदा
MBh 1.166.18
रक्षसा तु गृहीतं तं विदित्वा सा मुनिस तदा विश्वामित्रॊ ऽपय अपक्रामत तस्माद देशाद अरिंदम
MBh 1.166.19
ततः स नृपतिर विद्वान रक्षन्न आत्मानम आत्मना बलवत पीड्यमानॊ ऽपि रक्षसान्तर गतेन ह
MBh 1.166.20
ददर्श तं दविजः कश चिद राजानं परथितं पुनः ययाचे कषुधितश चैनं समांसां भॊजनं तदा
MBh 1.166.21
तम उवाचाथ राजर्षिर दविजं मित्रसहस तदा आस्स्व बरह्मंस तवम अत्रैव मुहूर्तम इति सान्त्वयन
MBh 1.166.22
निवृत्तः परतिदास्यामि भॊजनं ते यथेप्सितम इत्य उक्त्वा परययौ राजा तस्थौ च दविजसत्तमः
MBh 1.166.23
अन्तर्गतं तु तद राज्ञस तदा बराह्मण भाषितम सॊ ऽनतःपुरं परविश्याथ संविवेश नराधिपः
MBh 1.166.24
ततॊ ऽरधरात्र उत्थाय सूदम आनाय्य सत्वरम उवाच राजा संस्मृत्य बराह्मणस्य परतिश्रुतम
MBh 1.166.25
गच्छामुष्मिन्न असौ देशे बराह्मणॊ मां परतीक्षते अन्नार्थी तवं तन अन्नेन समांसेनॊपपादय
MBh 1.166.26
एवम उक्तस तदा सूदः सॊ ऽनासाद्यामिषं कव चित निवेदयाम आस तदा तस्मै राज्ञे वयथान्वितः
MBh 1.166.27
राजा तु रक्षसाविष्टः सूदम आह गतव्यथः अप्य एनं नरमांसेन भॊजयेति पुनः पुनः
MBh 1.166.28
तथेत्य उक्त्वा ततः सूदः संस्थानं वध्य घातिनाम गत्वा जहार तवरितॊ नरमांसम अपेतभीः
MBh 1.166.29
स तत संस्कृत्य विधिवद अन्नॊपहितम आशु वै तस्मै परादाद बराह्मणाय कषुधिताय तपस्विने
MBh 1.166.30
स सिद्धचक्षुषा दृष्ट्वा तदन्नं दविजसत्तमः अभॊज्यम इदम इत्य आह करॊधपर्याकुलेक्षणः
MBh 1.166.31
यस्माद अभॊज्यम अन्नं मे ददाति स नराधिपः तस्मात तस्यैव मूढस्य भविष्यत्य अत्र लॊलुपा
MBh 1.166.32
सक्तॊ मानुषमांसेषु यथॊक्तः शक्तिना पुरा उद्वेजनीयॊ भूतानां चरिष्यति महीम इमाम
MBh 1.166.33
दविर अनुव्याहृते राज्ञः स शापॊ बलवान अभूत रक्षॊबलसमाविष्टॊ विसंज्ञश चाभवत तदा
MBh 1.166.34
ततः स नृपतिश्रेष्ठॊ राक्षसॊपहतेन्द्रियः उवाच शक्तिं तं दृष्ट्वा नचिराद इव भारत
MBh 1.166.35
यस्माद असदृशः शापः परयुक्तॊ ऽयं तवया मयि तस्मात तवत्तः परवर्तिष्ये खादितुं मानुषान अहम
MBh 1.166.36
एवम उक्त्वा ततः सद्यस तं पराणैर विप्रयुज्य सः शक्तिनं भक्षयाम आस वयाघ्रः पशुम इवेप्सितम
MBh 1.166.37
शक्तिनं तु हतं दृष्ट्वा विश्वामित्रस ततः पुनः वसिष्ठस्यैव पुत्रेषु तद रक्षः संदिदेश ह
MBh 1.166.38
स ताञ शतावरान पुत्रान वसिष्ठस्य महात्मनः भक्षयाम आस संक्रुद्धः सिंहः कषुद्रमृगान इव
MBh 1.166.39
वसिष्ठॊ घातिताञ शरुत्वा विश्वामित्रेण तान सुतान धारयाम आस तं शॊकं महाद्रिर इव मेदिनीम
MBh 1.166.40
चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः न तव एव कुशिकॊच्छेदं मेने मतिमतां वरः
MBh 1.166.41
स मेरुकूटाद आत्मानं मुमॊच भगवान ऋषिः शिरस तस्य शिलायां च तूलराशाव इवापतत
MBh 1.166.42
न ममार च पातेन स यदा तेन पाण्डव तदाग्निम इद्ध्वा भगवान संविवेश महावने
MBh 1.166.43
तं तदा सुसमिद्धॊ ऽपि न ददाह हुताशनः दीप्यमानॊ ऽपय अमित्रघ्न शीतॊ ऽगनिर अभवत ततः
MBh 1.166.44
स समुद्रम अभिप्रेत्य शॊकाविष्टॊ महामुनिः बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तद अम्भसि
MBh 1.166.45
स समुद्रॊर्मि वेगेन सथले नयस्तॊ महामुनिः जगाम स ततः खिन्नः पुनर एवाश्रमं परति

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷