🪷 Mahābhārata · Ādi-Parva · Chapter 166

The Book of the Beginning · Parva 1 · 45 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 45 Shlokas

MBh 1.166.1
गन्धर्व उवाच कल्माषपाद इत्यस्मिँल्लोके राजा बभूव ह इक्ष्वाकुवंशजः पार्थ तेजसासदृशो भुवि
MBh 1.166.2
स कदाचिद्वनं राजा मृगयां निर्ययौ पुरात् मृगान्विध्यन्वराहांश्च चचार रिपुमर्दनः
MBh 1.166.3
स तु राजा महात्मानं वासिष्ठमृषिसत्तमम् तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि
MBh 1.166.4
अपश्यदजितः संख्ये मुनिं प्रतिमुखागतम् शक्तिं नाम महाभागं वसिष्ठकुलनन्दनम् ज्येष्ठं पुत्रशतात्पुत्रं वसिष्ठस्य महात्मनः
MBh 1.166.5
अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत् तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा
MBh 1.166.6
ऋषिस्तु नापचक्राम तस्मिन्धर्मपथे स्थितः नापि राजा मुनेर्मानात्क्रोधाच्चापि जगाम ह
MBh 1.166.7
अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः जघान कशया मोहात्तदा राक्षसवन्मुनिम्
MBh 1.166.8
कशाप्रहाराभिहतस्ततः स मुनिसत्तमः तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः
MBh 1.166.9
हंसि राक्षसवद्यस्माद्राजापसद तापसम् तस्मात्त्वमद्य प्रभृति पुरुषादो भविष्यसि
MBh 1.166.10
मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम् गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना
MBh 1.166.11
ततो याज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत
MBh 1.166.12
तयोर्विवदतोरेवं समीपमुपचक्रमे ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान्
MBh 1.166.13
ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा
MBh 1.166.14
अन्तर्धाय तदात्मानं विश्वामित्रोऽपि भारत तावुभावुपचक्राम चिकीर्षन्नात्मनः प्रियम्
MBh 1.166.15
स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः जगाम शरणं शक्तिं प्रसादयितुमर्हयन्
MBh 1.166.16
तस्य भावं विदित्वा स नृपतेः कुरुनन्दन विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति
MBh 1.166.17
स शापात्तस्य विप्रर्षेर्विश्वामित्रस्य चाज्ञया राक्षसः किंकरो नाम विवेश नृपतिं तदा
MBh 1.166.18
रक्षसा तु गृहीतं तं विदित्वा स मुनिस्तदा विश्वामित्रोऽप्यपक्रामत्तस्माद्देशादरिंदम
MBh 1.166.19
ततः स नृपतिर्विद्वान्रक्षन्नात्मानमात्मना बलवत्पीड्यमानोऽपि रक्षसान्तर्गतेन ह
MBh 1.166.20
ददर्श तं द्विजः कश्चिद्राजानं प्रस्थितं पुनः ययाचे क्षुधितश्चैनं समांसं भोजनं तदा
MBh 1.166.21
तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तमिति सान्त्वयन्
MBh 1.166.22
निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम् इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः
MBh 1.166.23
अन्तर्गतं तु तद्राज्ञस्तदा ब्राह्मणभाषितम् सोऽन्तःपुरं प्रविश्याथ संविवेश नराधिपः
MBh 1.166.24
ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम् उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम्
MBh 1.166.25
गच्छामुष्मिन्नसौ देशे ब्राह्मणो मां प्रतीक्षते अन्नार्थी त्वं तमन्नेन समांसेनोपपादय
MBh 1.166.26
एवमुक्तस्तदा सूदः सोऽनासाद्यामिषं क्वचित् निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः
MBh 1.166.27
राजा तु रक्षसाविष्टः सूदमाह गतव्यथः अप्येनं नरमांसेन भोजयेति पुनः पुनः
MBh 1.166.28
तथेत्युक्त्वा ततः सूदः संस्थानं वध्यघातिनाम् गत्वा जहार त्वरितो नरमांसमपेतभीः
MBh 1.166.29
स तत्संस्कृत्य विधिवदन्नोपहितमाशु वै तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने
MBh 1.166.30
स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः
MBh 1.166.31
यस्मादभोज्यमन्नं मे ददाति स नराधिपः तस्मात्तस्यैव मूढस्य भविष्यत्यत्र लोलुपा
MBh 1.166.32
सक्तो मानुषमांसेषु यथोक्तः शक्तिना पुरा उद्वेजनीयो भूतानां चरिष्यति महीमिमाम्
MBh 1.166.33
द्विरनुव्याहृते राज्ञः स शापो बलवानभूत् रक्षोबलसमाविष्टो विसंज्ञश्चाभवत्तदा
MBh 1.166.34
ततः स नृपतिश्रेष्ठो राक्षसोपहतेन्द्रियः उवाच शक्तिं तं दृष्ट्वा नचिरादिव भारत
MBh 1.166.35
यस्मादसदृशः शापः प्रयुक्तोऽयं त्वया मयि तस्मात्त्वत्तः प्रवर्तिष्ये खादितुं मानुषानहम्
MBh 1.166.36
एवमुक्त्वा ततः सद्यस्तं प्राणैर्विप्रयुज्य सः शक्तिनं भक्षयामास व्याघ्रः पशुमिवेप्सितम्
MBh 1.166.37
शक्तिनं तु हतं दृष्ट्वा विश्वामित्रस्ततः पुनः वसिष्ठस्यैव पुत्रेषु तद्रक्षः संदिदेश ह
MBh 1.166.38
स ताञ्शतावरान्पुत्रान्वसिष्ठस्य महात्मनः भक्षयामास संक्रुद्धः सिंहः क्षुद्रमृगानिव
MBh 1.166.39
वसिष्ठो घातिताञ्श्रुत्वा विश्वामित्रेण तान्सुतान् धारयामास तं शोकं महाद्रिरिव मेदिनीम्
MBh 1.166.40
चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः न त्वेव कुशिकोच्छेदं मेने मतिमतां वरः
MBh 1.166.41
स मेरुकूटादात्मानं मुमोच भगवानृषिः शिरस्तस्य शिलायां च तूलराशाविवापतत्
MBh 1.166.42
न ममार च पातेन स यदा तेन पाण्डव तदाग्निमिद्ध्वा भगवान्संविवेश महावने
MBh 1.166.43
तं तदा सुसमिद्धोऽपि न ददाह हुताशनः दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्ततः
MBh 1.166.44
स समुद्रमभिप्रेत्य शोकाविष्टो महामुनिः बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदम्भसि
MBh 1.166.45
स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 45 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 1.166local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷