🪷 Mahābhārata · Ādi-Parva · Chapter 151
The Book of the Beginning · Parva 1 · 24 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 24 Shlokas
MBh 1.151.1
वैशंपायन उवाच
ततो रात्र्यां व्यतीतायामन्नमादाय पाण्डवः
भीमसेनो ययौ तत्र यत्रासौ पुरुषादकः
MBh 1.151.2
आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली
आजुहाव ततो नाम्ना तदन्नमुपयोजयन्
MBh 1.151.3
ततः स राक्षसः श्रुत्वा भीमसेनस्य तद्वचः
आजगाम सुसंक्रुद्धो यत्र भीमो व्यवस्थितः
MBh 1.151.4
महाकायो महावेगो दारयन्निव मेदिनीम्
त्रिशिखां भृकुटिं कृत्वा संदश्य दशनच्छदम्
MBh 1.151.5
भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः
विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत्
MBh 1.151.6
कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम्
पश्यतो मम दुर्बुद्धिर्यियासुर्यमसादनम्
MBh 1.151.7
भीमसेनस्तु तच्छ्रुत्वा प्रहसन्निव भारत
राक्षसं तमनादृत्य भुङ्क्त एव पराङ्मुखः
MBh 1.151.8
ततः स भैरवं कृत्वा समुद्यम्य करावुभौ
अभ्यद्रवद्भीमसेनं जिघांसुः पुरुषादकः
MBh 1.151.9
तथापि परिभूयैनं नेक्षमाणो वृकोदरः
राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा
MBh 1.151.10
अमर्षेण तु संपूर्णः कुन्तीपुत्रस्य राक्षसः
जघान पृष्ठं पाणिभ्यामुभाभ्यां पृष्ठतः स्थितः
MBh 1.151.11
तथा बलवता भीमः पाणिभ्यां भृशमाहतः
नैवावलोकयामास राक्षसं भुङ्क्त एव सः
MBh 1.151.12
ततः स भूयः संक्रुद्धो वृक्षमादाय राक्षसः
ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद्बली
MBh 1.151.13
ततो भीमः शनैर्भुक्त्वा तदन्नं पुरुषर्षभः
वार्युपस्पृश्य संहृष्टस्तस्थौ युधि महाबलः
MBh 1.151.14
क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान्
सव्येन पाणिना भीमः प्रहसन्निव भारत
MBh 1.151.15
ततः स पुनरुद्यम्य वृक्षान्बहुविधान्बली
प्राहिणोद्भीमसेनाय तस्मै भीमश्च पाण्डवः
MBh 1.151.16
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम्
घोररूपं महाराज बकपाण्डवयोर्महत्
MBh 1.151.17
नाम विश्राव्य तु बकः समभिद्रुत्य पाण्डवम्
भुजाभ्यां परिजग्राह भीमसेनं महाबलम्
MBh 1.151.18
भीमसेनोऽपि तद्रक्षः परिरभ्य महाभुजः
विस्फुरन्तं महावेगं विचकर्ष बलाद्बली
MBh 1.151.19
स कृष्यमाणो भीमेन कर्षमाणश्च पाण्डवम्
समयुज्यत तीव्रेण श्रमेण पुरुषादकः
MBh 1.151.20
तयोर्वेगेन महता पृथिवी समकम्पत
पादपांश्च महाकायांश्चूर्णयामासतुस्तदा
MBh 1.151.21
हीयमानं तु तद्रक्षः समीक्ष्य भरतर्षभ
निष्पिष्य भूमौ पाणिभ्यां समाजघ्ने वृकोदरः
MBh 1.151.22
ततोऽस्य जानुना पृष्ठमवपीड्य बलादिव
बाहुना परिजग्राह दक्षिणेन शिरोधराम्
MBh 1.151.23
सव्येन च कटीदेशे गृह्य वाससि पाण्डवः
तद्रक्षो द्विगुणं चक्रे नदन्तं भैरवान्रवान्
MBh 1.151.24
ततोऽस्य रुधिरं वक्त्रात्प्रादुरासीद्विशां पते
भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 150
- Next chapter · Ādi-Parva Ch 152 →
Sources and Connected Readings
Continue from these 24 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 1.151local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷