🪷 Atharvaveda 6.128

Ṣaṣṭha-Kāṇḍa · Sūkta 128

राजा १-४ अङ्गिराः। सोमः, शकधूमः। अनुष्टुप्। श॒क॒धूमं॒ नक्ष॑त्राणि॒ यद् राजा॑न॒मकु॑र्वत । भ॒द्रा॒हम॑स्मै॒ प्राय॑च्छन्नि॒दं रा॒ष्ट्रमसा॒दिति॑ ॥१॥ भ॒द्रा॒हं नो॑ म॒ध्यंदि॑ने भद्रा॒हं सा॒यम॑स्तु नः । भ॒द्रा॒हं नो॒ अह्नां॑ प्रा॒ता रात्री॑ भद्रा॒हम॑स्तु नः ॥२॥ अ॒हो॒रा॒त्राभ्यां॒ नक्ष॑त्रेभ्यः सूर्याचन्द्र॒मसा॑भ्याम्। भ॒द्रा॒हम॒स्मभ्यं॑ राज॒न्छक॑धूम॒ त्वं कृ॑धि ॥३॥ यो नो॑ भद्रा॒हमक॑रः सा॒यं नक्त॒मथो॒ दिवा॑ । तस्मै॑ ते नक्षत्रराज॒ शक॑धूम॒ सदा॒ नमः॑ ॥४॥
— Atharvaveda Kāṇḍa 6 · Sūkta 128 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷