🪷 Atharvaveda 6.127

Ṣaṣṭha-Kāṇḍa · Sūkta 127

यक्ष्मनाशनम्। १-३ भृग्वङ्गिराः। यक्ष्मनाशनम्, वनस्पतिः। अनुष्टुप्, ३ त्र्यवसाना षट्-पदा जगती। वि॒द्र॒धस्य॑ ब॒लास॑स्य॒ लोहि॑तस्य वनस्पते । वि॒सल्प॑कस्योषधे॒ मोच्छि॑षः पिशि॒तं च॒न॥१॥ यौ ते॑ बलास॒ तिष्ठ॑तः॒ कक्षे॑ मु॒ष्कावप॑श्रितौ । वेदा॒हं तस्य॑ भेष॒जं ची॒पुद्रु॑रभि॒चक्ष॑णम्॥२॥ यो अङ्ग्यो॒ यः कर्ण्यो॒ यो अ॒क्ष्योर्वि॒सल्प॑कः । वि वृ॑हामो वि॒सल्प॑कं विद्र॒धं हृ॑दयाम॒यम्। परा॒ तमज्ञा॑तं॒ यक्ष्म॑मध॒राञ्चं॑ सुवामसि ॥३॥
— Atharvaveda Kāṇḍa 6 · Sūkta 127 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷