🪷 Atharvaveda 6.116

Ṣaṣṭha-Kāṇḍa · Sūkta 116

मधुमदन्नम्। १-३ जाटिकायनः। विवस्वान्। जगती, २ त्रिष्टुप्। यद् या॒मं च॒क्रुर्नि॒खन॑न्तो॒ अग्रे॒ कार्षी॑वणा अन्न॒विदो॒ न वि॒द्यया॑ । वै॒व॒स्व॒ते राज॑नि॒ तज्जु॑हो॒म्यथ॑ य॒ज्ञियं॒ मधु॑मदस्तु॒ नोऽन्न॑म्॥१॥ वै॒व॒स्व॒तः कृ॑णवद् भाग॒धेयं॒ मधु॑भागो॒ मधु॑ना॒ सं सृ॑जाति । मा॒तुर्यदेन॑ इषि॒तं न॒ आग॒न् यद् वा॑ पि॒ताप॑राद्धो जिही॒डे॥२॥ यदी॒दं मा॒तुर्यदि॑ पि॒तुर्नः॒ परि॒ भ्रातुः॑ पु॒त्राच्चेत॑स॒ एन॒ आग॑न्। याव॑न्तो अ॒स्मान् पि॒तरः॒ सच॑न्ते॒ तेषां॒ सर्वे॑षां शि॒वो अ॑स्तु म॒न्युः ॥३॥
— Atharvaveda Kāṇḍa 6 · Sūkta 116 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷