🪷 Atharvaveda 6.115

Ṣaṣṭha-Kāṇḍa · Sūkta 115

पापमोचनम्। १-३ ब्रह्मा। विश्वे देवाः। अनुष्टुप्। यद् वि॒द्वांसो॒ यदवि॑द्वांस॒ एनां॑सि चकृ॒मा व॒यम्। यू॒यं न॒स्तस्मा॑न्मुञ्चत॒ विश्वे॑ देवाः सजोषसः ॥१॥ यदि॒ जाग्र॒द् यदि॒ स्वप॒न्नेन॑ एन॒स्योऽक॑रम्। भू॒तं मा॒ तस्मा॒द् भव्यं॑ च द्रुप॒दादि॑व मुञ्चताम्॥२॥ द्रु॒प॒दादि॑व मुमुचा॒नः स्वि॒न्नः स्ना॒त्वा मला॑दिव । पू॒तं प॒वित्रे॑णे॒वाज्यं॒ विश्वे॑ शुम्भन्तु॒ मैन॑सः ॥३॥
— Atharvaveda Kāṇḍa 6 · Sūkta 115 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷