🪷 Atharvaveda 5.5

Pañcama-Kāṇḍa · Sūkta 5

लाक्षा १-९ अथर्वा। लाक्षा। अनुष्टुप्। रात्री॑ मा॒ता नभः॑ पि॒तार्य॒मा ते॑ पिताम॒हः । सि॒ला॒ची नाम॒ वा अ॑सि॒ सा दे॒वाना॑मसि॒ स्वसा॑ ॥१॥ यस्त्वा॒ पिब॑ति॒ जीव॑ति॒ त्राय॑से॒ पुरु॑षं॒ त्वम्। भ॒र्त्री हि शश्व॑ता॒मसि॒ जना॑नां च॒ न्यञ्च॑नी ॥२॥ वृ॒क्षंवृ॑क्ष॒मा रो॑हसि वृष॒ण्यन्ती॑व क॒न्यला॑ । जय॑न्ती प्रत्या॒तिष्ठ॑न्ती॒ स्पर॑णी॒ नाम॒ वा अ॑सि ॥३॥ यद् द॒ण्डेन॒ यदिष्वा॒ यद् वारु॒र्हर॑सा कृ॒तम्। तस्य॒ त्वम॑सि॒ निष्कृ॑तिः॒ सेमं निष्कृ॑धि॒ पूरु॑षम्॥४॥ भ॒द्रात् प्ल॒क्षान्निस्ति॑ष्ठस्यश्व॒त्थात् ख॑दि॒राद्ध॒वात्। भ॒द्रान्न्य॒ग्रोधा॑त् प॒र्णात् सा न॒ एह्य॑रुन्धति ॥५॥ हिर॑ण्यवर्णे॒ सुभ॑गे॒ सूर्य॑वर्णे॒ वपु॑ष्टमे । रु॒तं ग॑छासि निष्कृते॒ निष्कृ॑ति॒र्नाम॒ वा अ॑सि ॥६॥ हिर॑ण्यवर्णे॒ सुभ॑गे॒ शुष्मे॒ लोम॑शवक्षने । अ॒पाम॑सि॒ स्वसा॒ लाक्षे॒ वातो॑ हा॒त्मा ब॑भूव ते ॥७॥ सि॒ला॒ची नाम॑ कानी॒नोऽज॑बभ्रु पि॒ता तव॑ । अश्वो॑ य॒मस्य॒ यः श्या॒वस्तस्य॑ हा॒स्नास्यु॑क्षि॒ता॥८॥ अश्व॑स्या॒स्नः संप॑तिता॒ सा वृ॒क्षां अ॒भि सि॑ष्यदे । स॒रा प॑त॒त्रिणी॑ भू॒त्वा सा न॒ एह्य॑रुन्धति ॥९॥
— Atharvaveda Kāṇḍa 5 · Sūkta 5 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷