🪷 Atharvaveda 5.4

Pañcama-Kāṇḍa · Sūkta 4

कुष्ठतक्मनाशनम्। १-१० भृग्वङ्गिराः। कुष्ठो, यक्ष्मनाशनम्। अनुष्टप्, ५ भुरिक्, ६ गायत्री, १० उष्णिग्गर्भा निचृत्। यो गि॒रिष्वजा॑यथा वी॒रुधां॒ बल॑वत्तमः । कुष्ठेहि॑ तक्मनाशन त॒क्मानं॑ ना॒शय॑न्नि॒तः ॥१॥ सु॒प॒र्ण॒सुव॑ने गि॒रौ जा॒तं हि॒मव॑त॒स्परि॑ । धनै॑र॒भि श्रु॒त्वा य॑न्ति वि॒दुर्हि त॑क्म॒नाश॑नम्॥२॥ अ॒श्व॒त्थो दे॑व॒सद॑नस्तृ॒तीय॑स्यामि॒तो दि॒वि। तत्रा॒मृत॑स्य चक्ष॑णं दे॒वाः कुष्ठ॑मवन्वत ॥३॥ हि॒र॒ण्ययी॒ नौर॑चर॒द्धिर॑ण्यबन्धना दि॒वि। तत्रा॒मृत॑स्य॒ पुष्पं॑ दे॒वाः कुष्ठ॑मवन्वत ॥४॥ हि॒र॒ण्ययाः॒ पन्था॑न आस॒न्नरि॑त्राणि हिर॒ण्यया॑ । नावो॑ हिर॒ण्ययी॑रास॒न् याभिः॒ कुष्ठं॑ नि॒राव॑हन्॥५॥ इ॒मं मे॑ कुष्ठ॒ पूरु॑षं॒ तमा व॑ह॒ तं निष्कु॑रु । तमु॑ मे अग॒दं कृ॑धि ॥६॥ दे॒वेभ्यो॒ अधि॑ जा॒तोऽसि॒ सोम॑स्यासि॒ सखा॑ हि॒तः । स प्रा॒णाय॑ व्या॒नाय॒ च॑क्षुषे मे अ॒स्मै मृ॑ड ॥७॥ उद॑ङ् जा॒तो हि॒मव॑तः॒ स प्रा॒च्यां नी॑यसे॒ जन॑म्। तत्र॑ कुष्ठ॑स्य॒ नामा॑न्युत्त॒मानि॒ वि भे॑जिरे ॥८॥ उ॒त्त॒मो नाम॑ कुष्ठस्युत्त॒मो नाम॑ ते पि॒ता। यक्ष्मं॑ च॒ सर्वं॑ ना॒शय॑ त॒क्मानं॑ चार॒सं कृ॑धि ॥९॥ शी॒र्षा॒म॒यमु॑पह॒त्याम॒क्ष्योस्त॒न्वो॒३रपः॑ । कुष्ठ॒स्तत् सर्वं॒ निष्क॑र॒द् दैवं॑ समह॒ वृष्ण्य॑म्॥१०॥
— Atharvaveda Kāṇḍa 5 · Sūkta 4 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷