🪷 Atharvaveda 4.29

Caturtha-Kāṇḍa · Sūkta 29

पापमोचनम् । १-७ मृगारः । मित्रावरुणौ। त्रिष्टुप्, ७ शक्वरीगर्भातिजगती। म॒न्वे वां॑ मित्रावरुणावृतावृधौ॒ सचे॑तसौ॒ द्रुह्व॑णो॒ यौ नु॒देथे॑ । प्र स॒त्यावा॑न॒मव॑थो॒ भरे॑षु॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥१॥ सचे॑तसौ॒ द्रुह्व॑णो॒ यौ नु॒देथे॒ प्र स॒त्यावा॑न॒मव॑थो॒ भरे॑षु । यौ गच्छ॑थो नृ॒चक्ष॑सौ ब॒भ्रुणा॑ सु॒तं तौ नो॑ मुञ्चत॒मंह॑सः ॥२॥ यावङ्गि॑रस॒मव॑थो॒ याव॒गस्तिं॒ मित्रा॑वरुणा ज॒मद॑ग्नि॒मत्रिम्। यौ क॒श्यप॒मव॑थो॒ यौ वसि॑ष्ठं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥३॥ यौ श्या॒वाश्व॒मव॑थो वाध्र्य॒श्वं मित्रा॑वरुणा पुरुमी॒ढमत्रिम्। यौ वि॑म॒दमव॑थः स॒प्तव॑ध्रिं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥४॥ यो भ॒रद्वा॑जमव॑थो॒ यौ ग॒विष्ठि॑रं वि॒श्वामि॑त्रं वरुण मित्र॒ कुत्स॑म्। यौ क॒क्षीव॑न्त॒मव॑थः प्रोत कण्वं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥५॥ यौ मेधा॑तिथि॒मव॑थो॒ यौ त्रि॒शोकं॒ मित्रा॑वरुणावु॒शनां॑ का॒व्यं यौ। यौ गोत॑म॒मव॑थः प्रोत मुद्ग॑लं तौ नो॑ मुञ्चत॒मंह॑सः ॥६॥ ययो॒ रथः॑ स॒त्यव॑र्त्म॒र्जुर॑श्मिर्मिथु॒या चर॑न्तमभि॒याति॑ दू॒षय॑न्। स्तौमि॑ मि॒त्रावरु॑णौ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥७॥
— Atharvaveda Kāṇḍa 4 · Sūkta 29 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷