🪷 Atharvaveda 4.28
Caturtha-Kāṇḍa · Sūkta 28
पापमोचनम् ।
१-७ मृगारोऽथर्वा वा । भवाशर्वौ रुद्रो वा । त्रिष्टुप्, १ अतिजागतगर्भा भुरिक्।
भवा॑शर्वौ म॒न्वे वां॒ तस्य॑ वित्तं॒ ययो॑र्वामि॒दं प्र॒दिशि॒ यद् वि॒रोच॑ते ।
याव॒स्ये॑शा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥१॥
ययो॑रभ्यभ्व॒ उ॒त यद् दू॒रे चि॒द् यौ वि॑दि॒तावि॑षु॒भृता॒मसि॑ष्ठौ ।
याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥२॥
स॒ह॒स्रा॒क्षौ वृ॑त्र॒हना॑ हुवे॒हं दू॒रेग॑व्यूती स्तु॒वन्ने॑म्यु॒ग्रौ।
याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥३॥
यावा॑रे॒भाथे॑ ब॒हु सा॒कमग्रे॒ प्र चेद॑स्रा॑ष्ट्रमभि॒भां जने॑षु ।
याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥४॥
ययो॑र्व॒धान्नाप॒पद्य॑ते॒ कश्च॒नान्तर्दे॒वेषू॒त मानु॑षेषु ।
याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥५॥
यः कृ॑त्या॒कृन्मू॑ल॒कृद् या॑तु॒धानो॒ नि तस्मि॑न् धत्तं॒ वज्र॑मु॒ग्रौ।
याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥६॥
अधि॑ नो ब्रूतं॒ पृत॑नासूग्रौ॒ सं वज्रे॑ण सृजतं॒ यः कि॑मी॒दी।
स्तौमि॑ भवाश॒र्वौ ना॑थि॒तो॑ जो॑हवीमि॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥७॥
— Atharvaveda Kāṇḍa 4 · Sūkta 28 · Śaunaka shākhā · Devanāgarī yathārtha
Navigation
- ← Previous: AV 4.27
- Next: AV 4.29 →
- Kāṇḍa 4 Sūkta-index
- Atharvaveda master-index
- /four-vedas · the Catur-Veda-Pūrṇatā
🪷 ॐ 🪷