🪷 Atharvaveda 3.7

Tṛtīya-Kāṇḍa · Sūkta 7

यक्ष्मनाशनम्। १-७ भृग्वङ्गिराः। १-३ हरिणः, ४ तारके, ५ आपः, ६-७ यक्ष्मनाशनम्। अनुष्टुप्, ६ भुरिक्। ह॒रि॒णस्य॑ रघु॒ष्यदोऽधि॑ शी॒र्षणि॑ भेष॒जम्। स क्षे॑त्रि॒यं वि॒षाण॑या विषू॒चीन॑मनीनशत्॥१॥ अनु॑ त्वा हरि॒णो वृषा॑ प॒द्भिश्च॒तुर्भि॑रक्रमीत्। विषा॑णे॒ वि ष्य॑ गुष्पि॒तं यद॑स्य क्षेत्रि॒यं हृ॒दि॥२॥ अ॒दो यद॑व॒रोच॑ते॒ चतु॑ष्पक्षमिव च्छ॒दिः । तेना॑ ते॒ सर्वं॑ क्षेत्रि॒यमङ्गे॑भ्यो नाशयामसि ॥३॥ अ॒मू ये दि॒वि सु॒भगे॑ वि॒चृतौ॒ नाम॒ तार॑के । वि क्षे॑त्रि॒यस्य॑ मुञ्चतामध॒मं पाश॑मुत्त॒मम्॥४॥ आप॒ इद् वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः । आपो॒ विश्व॑स्य भेष॒जीस्तास्त्वा॑ मुञ्चन्तु क्षेत्रि॒यात्॥५॥ यदा॑सु॒तेः क्रि॒यमा॑णायाः क्षेत्रि॒यं त्वा॑ व्यान॒शे। वेदा॒हं तस्य॑ भेष॒जं क्षे॑त्रि॒यं ना॑शयामि॒ त्वत्॥६॥ अ॒प॒वा॒से नक्ष॑त्राणामपवा॒स उ॒षसा॑मु॒त। अपा॒स्मत् सर्वं॑ दुर्भू॒तमप॑ क्षेत्रि॒यमु॑च्छतु ॥७॥
— Atharvaveda Kāṇḍa 3 · Sūkta 7 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷