🪷 Atharvaveda 3.6

Tṛtīya-Kāṇḍa · Sūkta 6

शत्रुनाशनम्। १-८ जगद्वीजं पुरुषः। वानस्पत्योऽश्वत्थः। अनुष्टुप्। पुमा॑न् पुंसः परि॑जातोऽश्व॒त्थः ख॑दि॒रादधि॑ । स ह॑न्तु॒ शत्रू॑न् माम॒कान् यान॒हं द्वेष्मि॒ ये च॒ माम्॥१॥ तान॑श्वत्थ॒ निः शृ॑णीहि॒ शत्रू॑न् वैबाध॒दोध॑तः । इन्द्रे॑ण वृत्र॒घ्ना मे॒दी मि॒त्रेण॒ वरु॑णेन च ॥२॥ यथा॑श्वत्थ नि॒रभ॑नो॒ऽन्तर्म॑ह॒त्यऽर्ण॒वे। ए॒वा तान्त्सर्वा॒न् निर्भ॑ङ्ग्धि॒ यान॒हं द्वेष्मि॒ ये च॒ माम्॥३॥ यः सह॑मान॒श्चर॑सि सासहा॒न इव ऋष॒भः । तेना॑श्वत्थ॒ त्वया॑ व॒यं स॒पत्ना॑न्त्सहिषीमहि ॥४॥ सि॒नात्वे॑ना॒न् निरृ॑तिर्मृ॒त्योः पाशै॑रमो॒क्यैः । अश्व॑त्थ॒ शत्रू॑न् माम॒कान् यान॒हं द्वेष्मि॒ ये च॒ माम्॥५॥ यथा॑श्वत्थ वानस्प॒त्याना॒रोह॑न् कृणु॒षेऽध॑रान्। ए॒वा मे॒ शत्रो॑र्मू॒र्धानं॒ विष्व॑ग् भिन्द्धि॒ सह॑स्व च ॥६॥ तेऽध॒राञ्चः॒ प्र प्ल॑वन्तां छि॒न्ना नौरि॑व॒ बन्ध॑नात्। न वै॑बा॒धप्र॑णुत्तानां॒ पुन॑रस्ति नि॒वर्त॑नम्॥७॥ प्रैणा॑न् नुदे॒ मन॑सा॒ प्र चि॒त्ते॑नो॒त ब्रह्म॑णा । प्रैणा॑न् वृ॒क्षस्य॒ शाख॑याश्व॒त्थस्य॑ नुदामहे ॥८॥
— Atharvaveda Kāṇḍa 3 · Sūkta 6 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷