🪷 Atharvaveda 17.1

Saptadaśa-Kāṇḍa · Sūkta 1

अभ्युदयाय प्रार्थना। १-३० ब्रह्मा। आदित्यः। १ जगती; १-८ त्र्यवसाना; १-३ अतिजगती; ६-७, १९ अत्यष्टिः; ८, ११, १६ अतिधृतिः; ९ पञ्चपदा शक्वरी; १०-१३, १६, १८-१९, २४ त्र्यवसाना; १० अष्टपदा धृतिः; १२ कृतिः; १३ प्रकृतिः; १४-१५ पञ्चपदा शक्वरी; १७ पञ्चपदा विराडतिशक्वरी; १८ भुरिगष्टिः; २४ विराडत्यष्टिः; १-५ षट्-पदा; ११-१३,१६,१८-१९,२४ सप्तपदा; २० ककुप्; २१ चतुष्पदा उपरिष्टाद्बृहती; २२ याजुषी अनुष्टुप्; २३ निचृद् बृहती (२२-२३ द्विपदा) ; २५-२६ अनुष्टुप्; २७, ३०जगती; २८-२९ त्रिष्टुप्। वि॒षा॒स॒हिं सह॑मानं सासहा॒नं सही॑यांसम्। सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म्। ईड्यं॒ नाम॑ ह्व॒ इन्द्र॒मायु॑ष्मान् भूयासम् ॥१॥ वि॒षा॒स॒हिं सह॑मानं सासहा॒नं सही॑यांसम्। सह॑मानं सहो॒जितं॑ स्वर्जितं॑ गो॒जितं॑ संधना॒जित॑म्। ईड्यं॒ नाम॑ ह्व॒ इन्द्रं॑ प्रि॒यो दे॒वानां॑ भूयासम् ॥२॥ वि॒षा॒स॒हिं सह॑मानं सासहा॒नं सही॑यांसम्। सह॑मानं सहो॒जितं स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म्। ईड्यं॒ नाम॑ ह्व॒ इन्द्रं॑ प्रियः प्र॒जानां॑ भयासम् ॥३॥ वि॒षा॒स॒हिं सह॑मानं सासहा॒नं सही॑यांसम्। सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म्। ईड्यं॒ नाम॑ ह्व॒ इन्द्रं॑ प्रि॒यः प॑शू॒नां भू॑यासम् ॥४॥ वि॒षा॒स॒हिं सह॑मानं सासहा॒नं सही॑यांसम्। सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म्। ईड्यं॒ नाम॑ ह्व॒ इन्द्रं॑ प्रि॒यः स॑मा॒नानां॑ भूयासम्॥५॥ उदि॒ह्युदि॑हि सूर्य॒ वर्च॑सा मा॒भ्युदि॑हि । द्वि॒षंश्च॒ मह्यं॒ रध्य॑तु॒ मा चा॒हं द्वि॑ष॒ते र॑धं॒ तवेद् वि॑ष्णो बहु॒धा वी॒र्याऽनि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योऽमन्॥६॥ उदि॒ह्युदि॑हि सूर्य॒ वर्च॑सा मा॒भ्युदि॑हि । यांश्च॒ पश्या॑मि॒ यांश्च॒ न तेषु॑ मा सुम॒तिं कृ॑धि॒ तवेद् वि॑ष्णो बहु॒धा वी॒र्याऽनि । त्वं नः॑ पृणीहि पशुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योऽमन्॥७॥ मा त्वा॑ दभन्त्सलि॒ले अ॒प्स्व॑१न्तर्ये पा॒शिन॑ उप॒तिष्ठ॒न्त्यत्र॑ । हि॒त्वाश॑स्तिं॒ दिव॒मारु॑क्ष ए॒तां स नो॑ मृड सुम॒तौ ते॑ स्याम॒ तवेद् वि॑ष्णो बहु॒धा वी॒र्याऽनि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योऽमन्॥८॥ त्वं न॑ इन्द्र मह॒ते सौभ॑गा॒याद॑ब्धेभिः॒ परि॑ पाह्य॒क्तुभि॒स्तवेद् वि॑ष्णो बहु॒धा वी॒र्याऽनि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योऽमन्॥९॥ त्वं न॑ इन्द्रो॒तिभिः॑ शि॒वाभिः॒ शंत॑मो भव । आ॒रोहं॑स्त्रिदि॒वं दि॒वो गृ॑णा॒नः सोम॑पीतये प्रि॒यधा॑मा स्व॒स्तये॒ तवेद् वि॑ष्णो बहु॒धा वी॒र्याऽणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योऽमन्॥१०॥ त्वमि॑न्द्रासि विश्व॒जित् स॑र्व॒वित् पु॑रुहू॒तस्त्वमि॑न्द्र । त्वमि॑न्द्रे॒मं सु॒हवं॒ स्तोम॒मेर॑यस्व॒ स नो॑ मृड सुम॒तौ ते॑ स्याम॒ तवेद् वि॑ष्णो बहु॒धा वी॒र्याऽणि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योऽमन्॥११॥ अद॑ब्धो दि॒वि पृ॑थि॒व्यामु॒तासि॒ न त॑ आपुर्महि॒मान॑म॒न्तरि॑क्षे । अद॑ब्धेन॒ ब्रह्म॑णा वावृधा॒नः स त्वं न॑ इन्द्र दि॒वि संछर्म॑ यच्छ॒ तवेद् वि॑ष्णो बहु॒धा वी॒र्याऽणि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योऽमन्॥१२॥ या त॑ इन्द्र त॒नूर॒प्सु या पृ॑थि॒व्यां यान्तर॒ग्नौ या त॑ इन्द्र॒ पव॑माने स्व॒र्विदि॑ । यये॑न्द्र त॒न्वा॒३ऽन्तरि॑क्षं व्यापि॒थ तया॑ न इन्द्र त॒न्वा॒३शर्म॑ यच्छ॒ तवेद् वि॑ष्णो बहु॒धा वी॒र्याऽणि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योऽमन्॥१३॥ त्वामि॑न्द्र॒ ब्रह्म॑णा व॒र्धय॑न्तः स॒त्रं नि षे॑दु॒रऋष॑यो॒ नाध॑माना॒स्तवेद् वि॑ष्णो बहु॒धा वी॒र्याऽणि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योऽमन्॥१४॥ त्वं तृ॒तं त्वं पर्ये॒ष्युत्सं॑ स॒हस्र॑धारं वि॒दथं॑ स्व॒र्विदं॒ तवेद् वि॑ष्णो बहु॒धा वी॒र्याऽणि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योऽमन्॥१५॥ त्वं र॑क्षसे प्र॒दिश॒श्चत॑स्र॒स्त्वं शो॒चिषा॒ नभ॑सी॒ वि भा॑सि । त्वमि॒मा विश्वा॒ भुव॒नानु॑ तिष्ठस ऋ॒तस्य॑ पन्थाम॒न्वे॑षि वि॒द्वांस्तवेद् वि॑ष्णो बहु॒धा वी॒र्याऽणि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योऽमन्॥१६॥ प॒ञ्चभिः॒ परा॑ङ् तप॒स्येक॑या॒र्वाङश॑स्तिमेषि सु॒दिने॒ बाध॑मान॒स्तवेद् वि॑ष्णो बहु॒धा वी॒र्याऽणि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योऽमन्॥१७॥ त्वमिन्द्र॒स्त्वं म॑हे॒न्द्रस्त्वं लो॒कस्त्वं प्र॒जाप॑तिः । तुभ्यं॑ य॒ज्ञो वि ता॑यते॒ तुभ्यं॑ जुह्वति॒ जुह्व॑त॒स्तवेद् वि॑ष्णो बहु॒धा वी॒र्याऽणि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योऽमन्॥१८॥ अस॑ति॒ सत् प्रति॑ष्ठितं स॒ति भू॒तं प्रति॑ष्ठितम्। भू॒तं ह॒ भव्य॒ आहि॑तं॒ भव्यं॑ भू॒ते प्रति॑ष्ठितं॒ तवेद् वि॑ष्णो बहु॒धा वी॒र्याऽणि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योऽमन्॥१९॥ शु॒क्रोऽसि भ्रा॒जोऽसि । स यथा॒ त्वं भ्राज॑ता भ्रा॒जोऽस्ये॒वाहं भ्राज॑ता भ्राज्यासम्॥२०॥ रुचि॑रसि रो॒चोऽसि । स यथा॒ त्वं रुच्या॑ रो॒चोऽस्ये॒वाहं प॒शुभि॑श्च ब्राह्मणवर्च॒सेन॑ च रुचिषीय ॥२१॥ उ॒द्य॒ते नम॑ उदाय॒ते नम॒ उदि॑ताय॒ नमः॑ । वि॒राजे॒ नमः॑ स्व॒राजे॒ नमः॑ स॒म्राजे॒ नमः॑ ॥२२॥ अ॒स्तं॒य॒ते नमो॑ऽस्तमेष्य॒ते नमोऽस्त॑मिताय॒ नमः॑ । वि॒राजे॒ नमः॑ स्व॒राजे॒ नमः॑ स॒म्राजे॒ नमः॑ ॥२३॥ उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ तप॑सा स॒ह। स॒पत्ना॒न् मह्यं॑ र॒न्धय॒न् मा चा॒हं द्वि॑ष॒ते र॑धं॒ तवेद् वि॑ष्णो बहु॒धा वी॒र्याऽणि । त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योऽमन्॥२४॥ आदि॑त्य॒ नाव॒मारु॑क्षः श॒तारि॑त्रां स्व॒स्तये॑ । अह॒र्मात्य॑पीपरो॒ रात्रिं॑ स॒त्राति॑ पारय ॥२५॥ सूर्य॒ नाव॒मारु॑क्षः श॒तारि॑त्रां स्व॒स्तये॑ । रात्रिं॒ मात्य॑पीप॒रोऽहः॑ स॒त्राति॑ पारय ॥२६॥ प्र॒जाप॑ते॒रावृ॑तो॒ ब्रह्म॑णा॒ वर्म॑णा॒हं क॒श्यप॑स्य ज्योति॑षा॒ वर्च॑सा च । ज॒रद॑ष्टिः कृ॒तवी॑र्यो॒ विहा॑याः स॒हस्रा॑युः॒ सुकृ॑तश्चरेयम्॥२७॥ परी॑वृतो॒ ब्रह्म॑णा॒ वर्म॑णा॒हं क॒श्यप॑स्य॒ ज्योति॑षा॒ वर्च॑सा च । मा मा॒ प्राप॒न्निष॑वो॒ दैव्या॒ या मा मानु॑षी॒रव॑सृष्टाः व॒धाय॑ ॥२८॥ ऋ॒तेन॑ गु॒प्त ऋ॒तुभि॑श्च॒ सर्वै॑र्भू॒तेन॑ गु॒प्तो भव्ये॑न चा॒हम्। मा मा॒ प्राप॑त् पा॒प्मा मोत मृ॒त्युर॒न्तर्द॑धे॒ऽहं स॑लि॒लेन॑ वा॒चः ॥२९॥ अ॒ग्निर्मा॑ गो॒प्ता परि॑ पातु वि॒श्वतः॑ उ॒द्यन्त्सूर्यो॑ नुदतां मृत्युपा॒शान्। व्यु॒च्छन्ती॑रु॒षसः॒ पर्व॑ता ध्रु॒वाः स॒हस्रं॑ प्रा॒णा मय्या य॑तन्ताम्॥३०॥
— Atharvaveda Kāṇḍa 17 · Sūkta 1 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

Sources and Connected Readings

Continue from this Atharvaveda sūkta to its Kāṇḍa, the Atharvaveda reading index, the Catur-Veda doorway, and closely connected Śruti, Vedānta, Gītā, and Bhāgavata passages.

AV 17.1local Atharvaveda sūkta source routeAtharvaveda Kāṇḍa 17parent kāṇḍa sūkta index/atharvavedaAtharvaveda master index/four-vedasreceived Veda inventory with explicit missing-data boundaries/rigvedaṚgveda master index · 10 maṇḍalas · 1,027 sūktasRV 1.1Agnimīḷe Purohitam · opening mantra of the ṚgvedaRV 3.62Gāyatrī/Sāvitrī source routeRV 7.59Mahāmṛtyuñjaya source routeRV 10.90Puruṣa-Sūkta · cosmic Puruṣa foundationRV 10.129Nāsadīya-Sūkta · creation-enigma inquiryAV 10.7Skambha-Sūkta · cosmic-pillar witnessAV 11.4Prāṇa-Sūkta · cosmic-prāṇa witnessAV 12.1Pṛthvī/Bhūmi-Sūkta · Mother Earth source routeAV 19.6Atharvaveda Puruṣa-Sūkta recension/yajurvedaŚukla-Yajurveda master index · Mādhyandina and Kāṇva recensionsYV 16Rudra-Praśna / Śrī-Rudram source routeYV 31Yajurveda Puruṣa-Sūkta source routeYV 34Śiva-Saṁkalpa-Sūkta source routeYV 36Śānti-mantra source routeYV 40Īśopaniṣad in the Yajurveda source route/upanishads10 Mukhya Upaniṣads · Vedānta doorway/mahavakyasfour Mahā-vākyas · Upaniṣadic concentrateBG 9.17Krishna as pitā, mātā, dhātā, pitāmaha and ṛk-sāma-yajusBG 10.22vedānāṁ sāmavedo’smi · Sāmaveda honored by KrishnaŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattva/binduDiamond of Darśanas · Bindu reader key/philosophyconstitutional Krishna = Paramaatma = Parabrahman foundation

🪷 ॐ 🪷