🪷 Atharvaveda 16.9

Ṣoḍaśa-Kāṇḍa · Sūkta 9

१-४ यमः। १ प्रजापतिः, २ अग्निः, सोमः, पूषा, ३-४ सूर्यः। प्राजापत्या आर्च्यनुष्टुप्, २ आर्च्युष्णिक्, ३ साम्नी पङ्क्तिः, ४ परोष्णिक्। जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑म॒भ्यऽष्ठां॒ विश्वाः॒ पृत॑ना॒ अरा॑तीः ॥१॥ तद॒ग्निरा॑ह॒ तदु॒ सोम॑ आह पू॒षा मा॑ धात् सुकृ॒तस्य॑ लो॒के॥२॥ अग॑न्म॒ स्वः॑१ स्वऽरगन्म॒ सं सूर्य॑स्य॒ ज्यो॑ति॑षागन्म ॥३॥ व॒स्यो॒भूया॑य॒ वसु॑मान् य॒ज्ञो वसु॑ वंसिषीय॒ वसु॑मान् भूयासं॒ वसु॒ मयि॑ धेहि ॥४॥
— Atharvaveda Kāṇḍa 16 · Sūkta 9 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷