🪷 Atharvaveda 15.7

Pañcadaśa-Kāṇḍa · Sūkta 7

१-५ अथर्वा। अध्यात्मं, व्रात्यः। १ त्रिपदा निचृद् गायत्री; २ एकपदा विराड् बृहती; ३ विराडुष्णिक्; ४ एकपदा गायत्री; ५ पङ्क्तिः। स म॑हि॒मा सद्रु॑र्भू॒त्वान्तं॑ पृथि॒व्या अ॑गच्छ॒त् स स॑मु॒द्रोऽभवत्॥१॥ तं प्र॒जाप॑तिश्च परमे॒ष्ठी च॑ पि॒ता च॑ पिताम॒हश्चाप॑श्च श्र॒द्धा च॑ व॒र्षं भू॒त्वानु॒व्यऽवर्तयन्त ॥२॥ ऐन॒मापो॑ गच्छ॒त्यैनं॑ श्र॒द्धा ग॑च्छ॒त्यैनं॑ व॒र्षं ग॑च्छति॒ य ए॒वं वेद॑ ॥३॥ तं श्र॒द्धा च॑ य॒ज्ञश्च॑ लो॒कश्चान्नं॑ चा॒न्नाद्यं॑ च भू॒त्वाभि॑प॒र्याव॑र्तन्त ॥४॥ ऐनं॑ श्र॒द्धा ग॑च्छत्यैनं य॒ज्ञो ग॑च्छ॒त्यैनं॑ लो॒को ग॑च्छ॒त्यैन॒मन्नं॑ गच्छ॒त्यैन॑म॒न्नाद्यं॑ गच्छति॒ य ए॒वं वेद॑ ॥५॥
— Atharvaveda Kāṇḍa 15 · Sūkta 7 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷