🪷 Atharvaveda 15.6

Pañcadaśa-Kāṇḍa · Sūkta 6

१-२७ अथर्वा। अध्यातमं, व्रात्यः। १,४ आसुरी पङ्क्तिः; ७, १०, १३, १६, २५ आसुरी बृहती; २२-३३ परोष्णिक्; २,१७ आर्ची पङ्क्तिः; १९ आर्च्युष्णिक्; ५, ११ साम्नी त्रिष्टुप्; ८ साम्नी पङ्क्तिः; १४,२४ आर्ची त्रिष्टुप्; २० साम्नयनुष्टुप्; २६ आर्च्यनुष्टुप्; ३ आर्षी पङ्क्तिः; ६, १२ निचृद्बहती; ९ प्राजापत्या त्रिष्टुप्; १५, १८ विराट् जगती; २१ आर्ची बृहती; २७ विराड् बृहती। स ध्रु॒वां दिश॒मनु॒ व्यऽचलत्॥१॥ तं भूमि॑श्चा॒ग्निश्चौष॑धयश्च॒ वन॒स्पत॑यश्च वानस्प॒त्याश्च॑ वी॒रुध॑श्चानु॒व्यऽचलन्॥२॥ भूमे॑श्च॒ वै सो॒३ग्नेश्चौष॑धीनां च॒ वन॒स्पती॑नां च वानस्प॒त्यानां॑ । च वी॒रुधां॑ च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥३॥ स ऊ॒र्ध्वां दिश॒मनु॒ व्यऽचलत्॥४॥ तमृ॒तं च॑ स॒त्यं च॒ सूर्य॑श्च च॒न्द्रश्च॒ नक्ष॑त्राणि चानु॒व्यचलन्॥५॥ ऋ॒तस्य॑ च॒ वै स स॒त्यस्य॑ च॒ सूर्य॑स्य च च॒न्द्रस्य॑ च॒ नक्ष॑त्राणां च । प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥६॥ स उत्त॒मां दिश॒मनु॒ व्यऽचलत्॥७॥ तमृच॑श्च॒ सामा॑नि च॒ यजूं॑षि च॒ ब्रह्म॑ चानु॒व्यऽचलन्॥८॥ ऋ॒चां च॒ वै स साम्नां॑ च॒ यजु॑षां च॒ ब्रह्म॑णश्च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥९॥ स बृ॑ह॒तीं दिश॒मनु॒ व्यऽचलत्॥१०॥ तमि॑तिहा॒सश्च॑ पुरा॒णं च॒ गाथा॑श्च नाराशं॒सीश्चा॑नु॒व्यऽचलन्॥११॥ इ॒ति॒हा॒सस्य॑ च॒ वै स पु॑रा॒णस्य॑ च॒ गाथा॑नां च नाराशं॒सीनां॑ च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥१२॥ स प॑र॒मां दिश॒मनु॒ व्यऽचलत्॥१३॥ तमा॑हव॒नीय॑श्च॒ गार्ह॑पत्यश्च दक्षिणा॒ग्निश्च॑ य॒ज्ञश्च॒ यज॑मानश्च प॒शव॑श्चानु॒व्यऽचलन्॥१४॥ आ॒ह॒व॒नीय॑स्य च॒ वै स गार्ह॑पत्यस्य च दक्षिणा॒ग्नेश्च॑ य॒ज्ञस्य॑ च॒ यज॑मानस्य च प॒शूनां च॑ प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥१५॥ सोऽना॑दिष्टां॒ दिश॒मनु॒ व्यऽचलत्॥१६॥ तमृ॒तव॑श्चार्त॒वाश्च॒ लोका॑श्च लौ॒क्याश्च॒ मासा॑श्चार्धमा॒साश्चा॑होरा॒त्रे चा॑नु॒व्यऽचलन्॥१७॥ ऋ॒तू॒नां च॒ वै स आ॑र्त॒वानां॑ च॒ लोका॑नां च लौ॒क्यानां॑ च॒ मासा॑नां चार्धमा॒सानां॑ चाहोरा॒त्रयो॑श्च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥१८॥ सोऽना॑वृत्तां॒ दिश॒मनु॒ व्यचल॒त् ततो॒ नाव॒र्त्स्यन्न॑मन्यत ॥१९॥ तं दिति॒श्चादि॑ति॒श्चेडा॑ चेन्द्रा॒णी चानु॒व्यऽचलन्॥२०॥ दिते॑श्च॒ वै सोऽदि॑ते॒श्चेडा॑याश्चेन्द्रा॒ण्याश्च॑ प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥२१॥ स दिशोऽनु॒ व्यऽचलत् ॥२२॥ तं वि॒राडनु॒ व्यऽचल॒त् सर्वे॑ च दे॒वाः सर्वा॑श्च दे॒वताः॑ ॥२३॥ वि॒राज॑श्च॒ वै स सर्वे॑षां च दे॒वानां॒ सर्वा॑सां च दे॒वतानां प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥२४॥ स सर्वा॑नन्तर्दे॒शाननु॒ व्यऽचलत्॥२५॥ तं प्र॒जाप॑तिश्च परमे॒ष्ठी च॑ पि॒ता च॑ पिताम॒हश्चा॑नु॒व्यऽचलन्॥२६॥ प्र॒जाप॑तेश्च॒ वै प॑रमे॒ष्ठिन॑श्च पि॒तुश्च॑ पिताम॒हस्य॑ च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥२६॥
— Atharvaveda Kāṇḍa 15 · Sūkta 6 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷