🪷 Atharvaveda 15.18

Pañcadaśa-Kāṇḍa · Sūkta 18

अध्यात्म-प्रकरणम्। १-५ अथर्वा। अध्यात्मं, व्रात्यः। १ दैवी पङ्क्तिः, २-३ आर्ची बृहती, ४ आर्ची अनुष्टुप्, ५ साम्नी उष्णिक्। तस्य॒ व्रात्य॑स्य ॥१॥ यद॑स्य॒ दक्षि॑ण॒मक्ष्य॒सौ स आ॑दि॒त्यो यद॑स्य स॒व्यमक्ष्य॒सौ स च॒न्द्रमाः॑ ॥२॥ योऽस्य॒ दक्षि॑णः॒ कर्णो॒ऽयं सो अ॒ग्निर्योऽस्य स॒व्यः कर्णो॒ऽयं स पव॑मानः ॥३॥ अ॒हो॒रा॒त्रे नासि॑के॒ दिति॒श्चादि॑तिश्च शीर्षकपा॒ले सं॑वत्स॒रः शिरः॑ ॥४॥ अह्ना॑ प्र॒त्यङ् व्रात्यो॒ रात्र्या॒ प्राङ् नमो॒ व्रात्या॑य ॥५॥
— Atharvaveda Kāṇḍa 15 · Sūkta 18 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷