🪷 Atharvaveda 15.17

Pañcadaśa-Kāṇḍa · Sūkta 17

१-१० अथर्वा। अध्यात्मं, व्रात्यः। १, ५ प्राजापत्या उष्णिक्, २, ७ आसुरी अनुष्टुप्, ३ याजुषी पङ्क्तिः, ४ साम्नी उष्णिक्, ६ याजुषी त्रिष्टुप्, ८ त्रिपदा प्रतिष्ठाऽर्ची पङ्क्तिः, ९ द्विपदा साम्नी त्रिष्टुप्, १० साम्नी अनुष्टुप्। तस्य॒ व्रात्य॑स्य । योऽस्य प्रथ॒मो व्या॒नः सेयं भूमिः॑ ॥१॥ तस्य॒ व्रात्य॑स्य । योऽस्य द्वि॒तीयो॑ व्या॒नस्तद॒न्तरि॑क्षम्॥२॥ तस्य॒ व्रात्य॑स्य । योऽस्य तृ॒तीयो॑ व्या॒नः सा द्यौः ॥३॥ तस्य॒ व्रात्य॑स्य ।योऽस्य चतु॒र्थो व्या॒नस्तानि॒ नक्ष॑त्राणि ॥४॥ तस्य॒ व्रात्य॑स्य । योऽस्य पञ्च॒मो व्या॒नस्त ऋ॒तवः॑ ॥५॥ तस्य॒ व्रात्य॑स्य । योऽस्य ष॒ष्ठो व्या॒नस्त आ॑र्त॒वाः ॥६॥ तस्य॒ व्रात्य॑स्य । योऽस्य सप्त॒मो व्या॒नः स सं॑वत्स॒रः ॥७॥ तस्य॒ व्रात्य॑स्य । स॒मा॒नमर्थं॒ परि॑ यन्ति दे॒वाः सं॑वत्स॒रं वा ए॒तदृ॒तवो॑ऽनु॒परि॑यन्ति॒ व्रात्यं॑ च ॥८॥ तस्य॒ व्रात्य॑स्य । यदा॑दि॒त्यम॑भिसंवि॒शन्त्य॑मावा॒स्यां चै॒व तत् पौ॑र्णमा॒सीं च॑ ॥९॥ तस्य॒ व्रात्य॑स्य । एकं॒ तदे॑षाममृत॒त्वमित्याहु॑तिरे॒व॥१०॥
— Atharvaveda Kāṇḍa 15 · Sūkta 17 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷