🪷 Atharvaveda 15.11
Pañcadaśa-Kāṇḍa · Sūkta 11
१-११ अथर्वा। अध्यात्मं, व्रात्यः। १ दैवी पङ्क्तिः, २ द्विपदा पूर्वात्रिष्टुबतिशक्वरी,
३-६, ८, १० निचृदाऽर्ची बृहती (१० भुरिक्), ७,९ द्विपदा प्राजापत्या बृहती, ११ द्विपदाऽर्च्यनुष्टुप्।
तद् यस्यै॒वं वि॒द्वान् व्रात्योऽति॑थिर्गृ॒हाना॒गछे॑त्॥१॥
स्व॒यमे॑नमभ्यु॒देत्य॑ ब्रूया॒द् व्रात्य॒ क्वाऽवात्सी॒र्व्रात्यो॑द॒कं व्रात्य॑ त॒र्पय॑न्तु॒ व्रात्य॒ यथा॑ ते प्रि॒यं तथा॑स्तु॒
व्रात्य॒ यथा॑ ते॒ वश॒स्तथा॑स्तु॒ व्रात्य॒ यथा॑ ते निका॒मस्तथा॒स्त्विति॑ ॥२॥
यदे॑न॒माह॒ व्रात्य॒ क्वाऽवात्सी॒रिति॑ प॒थ ए॒व तेन॑ देव॒याना॒नव॑ रुन्द्धे ॥३॥
यदे॑न॒माह॒ व्रात्यो॑द॒कमित्य॒प ए॒व तेनाव॑ रुन्द्धे ॥४॥
यदे॑न॒माह॒ व्रात्य॑ त॒र्पय॒न्त्विति॑ प्रा॒णमे॒व तेन॒ वर्षी॑यांसं कुरुते ॥५॥
यदे॑न॒माह॒ व्रात्य॒ यथा॑ ते प्रि॒यं तथा॒स्त्विति॑ प्रि॒यमे॒व तेनाव॑ रुन्द्धे ॥६॥
ऐनं॑ प्रि॒यं ग॑च्छति प्रि॒यः प्रि॒यस्य॑ भवति॒ य ए॒वं वेद॑ ॥७॥
यदे॑न॒माह॒ व्रात्य॒ यथा॑ ते॒ वश॒स्तथा॒स्त्विति॒ वश॑मे॒व तेनाव॑ रुन्द्धे ॥८॥
ऐनं॒ वशो॑ ग॑च्छति व॒शी व॒शिनां॑ भवति॒ य ए॒वं वेद॑ ॥९॥
यदे॑न॒माह॒ व्रात्य॒ यथा॑ ते निका॒मस्तथा॒स्त्विति॑ निका॒ममे॒व तेनाव॑ रुन्द्धे ॥१०॥
ऐनं॑ निका॒मो ग॑च्छति निका॒मे नि॑का॒मस्य॑ भवति॒ य ए॒वं वेद॑ ॥११॥
— Atharvaveda Kāṇḍa 15 · Sūkta 11 · Śaunaka shākhā · Devanāgarī yathārtha
Navigation
- ← Previous: AV 15.10
- Next: AV 15.12 →
- Kāṇḍa 15 Sūkta-index
- Atharvaveda master-index
- /four-vedas · the Catur-Veda-Pūrṇatā
🪷 ॐ 🪷