🪷 Atharvaveda 15.10

Pañcadaśa-Kāṇḍa · Sūkta 10

१-११ अथर्वा। अध्यात्मं, व्रात्यः। १ द्विपदा साम्नी बृहती, २ त्रिपदाऽर्ची पङ्क्तिः, ३ द्विपदा प्राजापत्या पङ्क्तिः, ४ त्रिपदा वर्धमाना गायत्री, ५ त्रिपदा साम्नी बृहती, ६,८,१० द्विपदा आसुरी गायत्री, ७, ९ साम्नी उष्णिक्, ११ आसुरी बृहती। तद् यस्यै॒वं वि॒द्वान् व्रात्यो॒ राज्ञोऽति॑थिर्गृ॒हाना॒गच्छे॑त्॥१॥ श्रेयां॑समेनमा॒त्मनो॑ मानये॒त् तथा॑ क्ष॒त्राय॒ ना वृ॑श्चते॒ तथा॑ रा॒ष्ट्राय॒ ना वृ॑श्चते ॥२॥ अतो॒ वै ब्रह्म॑ च क्ष॒त्रं चोद॑तिष्ठतां॒ ते अ॑ब्रूतां॒ कं प्र वि॑शा॒वेति॑ ॥३॥ अतो॒ वै बृह॒स्पति॑मे॒व ब्रह्म॒ प्रा वि॑श॒त्विन्द्रं॑ क्ष॒त्रं तथा॒ वा इति॑ ॥४॥ अतो॒ वै बृह॒स्पति॑मे॒व ब्रह्म॒ प्रावि॑श॒दिन्द्रं॑ क्ष॒त्रम् ॥५॥ इ॒यं वा उ॑ पृथि॒वी बृह॒स्पति॒र्द्यौरे॒वेन्द्रः॑ ॥६॥ अ॒यं वा उ॑ अ॒ग्निर्ब्रह्मा॒सावा॑दि॒त्यः क्ष॒त्रम्॥७॥ ऐनं॒ ब्रह्म॑ गच्छति ब्रह्मवर्च॒सी भ॑वति ॥८॥ यः पृ॑थि॒वीं बृह॒स्पति॑म॒ग्निं ब्रह्म॒ वेद॑ ॥९॥ ऐन॑मिन्द्रि॒यं ग॑च्छतीन्द्रि॒यवा॑न् भवति ॥१०॥ य आ॑दि॒त्यं क्ष॒त्रं दिव॒मिन्द्रं॒ वेद॑ ॥११॥
— Atharvaveda Kāṇḍa 15 · Sūkta 10 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷