🪷 Atharvaveda 14.2 · विवाह-सूक्त (द्वितीय)

Caturdaśa-Kāṇḍa · Sūkta 2 · Vivāha-Sūkta (II) · The Second Marriage Hymn

⭐ A Landmark Sūkta
The second Vivāha-Kāṇḍa hymn · domestic dharma after the wedding rite
विवाह-प्रकरणम्। १-७५ सूर्या सावित्री। आत्मा, १० यक्षमनाशी, ११ दम्पत्यो परिपन्थिनाशनी, ३६ देवाः। अनुष्टुप्, ५-६, १२, ३१, ३७, ३९-४० जगती (३७,३९ भुरिक् त्रिष्टुप्), ९ त्र्यवसाना षट्-पदा विराडत्यष्टिः, १३-१४, १७-१९, ३४, ३६, ३८, ४१-४२, ४९, ६१, ७०,७४-७५ त्रिष्टुप्, १५, ५१ भुरिक्, २०पुरस्ताद्बृहती, १३, २४-२५, ३२-३३ पुरोबृहती (२६ त्रिपदाविराण्नाम गायत्री), ३३ विराडास्तारपङ्क्तिः, ३५ पुरोबृहती त्रिष्टुप्, ४३ त्रिष्टुब्गर्भा पङ्क्तिः ४४ प्रस्तारपङ्क्तिः, ४७ पथ्याबृहती, ४८ सतः पङ्क्तिः, ५० उपरिष्टाद्बृहती निचृत्, ५२ विराट् पुर उष्णिक्, ५९-६०, ६२ पथ्यापङ्क्तिः, ६८ पुर उष्णिक्, ६९ त्र्यवसाना षट् पदाऽतिशक्वरी,७१ बृहती। तुभ्य॒मग्रे॒ पर्य॑वहन्त्सू॒र्यां व॑ह॒तुना॑ स॒ह। स नः॒ पति॑भ्यो जा॒यां दा अग्ने॑ प्र॒जया॑ स॒ह॥१॥ पुनः॒ पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा । दी॒र्घायु॑रस्या॒ यः पति॒र्जीवा॑ति श॒रदः॑ श॒तम्॥२॥ सोम॑स्य जा॒या प्र॑थ॒मं ग॑न्ध॒र्वस्तेऽप॑रः॒ पतिः॑ । तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः ॥३॥ सोमो॑ ददद् गन्ध॒र्वाय॑ गन्ध॒र्वो द॑दद॒ग्नये॑ । र॒यिं च पु॒त्रांस्चा॑दाद॒ग्निर्मह्य॒मथो॑ इ॒माम्॥४॥ आ वा॑मगन्त्सुम॒तिर्वा॑जिनीवसू॒ न्यश्विना हृ॒त्सु कामा॑ अरंसत । अभू॑तं गो॒पा मि॑थु॒ना शु॑भस्पती प्रि॒या अ॑र्य॒म्णो दुर्यां॑ अशीमहि ॥५॥ सा म॑न्दसा॒ना मन॑सा शि॒वेन॑ र॒यिं धे॑हि॒ सर्व॑वीरं वच॒स्यऽम्। सु॒गं ती॒र्थं सु॑प्रपा॒णं शु॑भस्पती स्था॒णुं पथि॑ष्ठा॒मप॑ दुर्म॒तिं ह॑तम्॥६॥ या ओष॑धयो॒ या न॒द्यो॒३ यानि॒ क्षेत्रा॑णि॒ या वना॑ । तास्त्वा॑ वधु प्र॒जाव॑तीं॒ पत्ये॑ रक्षन्तु र॒क्षसः॑ ॥७॥ एमं पन्था॑मरुक्षाम सु॒गं स्व॑स्ति॒वाह॑नम्। यस्मि॑न् वी॒रो न रिष्य॑त्य॒न्येषां॑ वि॒न्दते॒ वसु॑ ॥८॥ इ॒दं सु मे॑ नरः शृणुत॒ यया॒शिषा॒ दंप॑ती वा॒मम॑श्नु॒तः । ये ग॑न्ध॒र्वा अ॑प्स॒रस॑श्च दे॒वीरे॒षु वा॑नस्प॒त्येषु॒ येऽधि॑ त॒स्थुः । स्यो॒नास्ते॑ अ॒स्यै व॒ध्वै भ॑वन्तु॒ मा हिं॑सिषुर्वह॒तुमु॒ह्यमा॑नम्॥९॥ ये व॒ध्वश्च॒न्द्रं व॑ह॒तुं यक्ष्मा॒ यन्ति॒ जनाँ॒ अनु॑ । पुन॒स्तान् य॒ज्ञिया॑ दे॒वा नय॑न्तु॒ यत॒ आग॑ताः ॥१०॥ मा वि॑दन् परिप॒न्थिनो॒ य आ॒सीद॑न्ति॒ दंपती । सु॒गेन॑ दु॒र्गमती॑ता॒मप॑ द्रा॒न्त्वरा॑तयः ॥११॥ सं का॑शयामि वह॒तुं ब्रह्म॑णा गृ॒हैरघो॑रेण॒ चक्षु॑षा मि॒त्रिये॑ण । प॒र्याण॑द्धं वि॒श्वरू॑पं॒ यदस्ति॑ स्यो॒नं पति॑भ्यः सवि॒ता तत् कृ॑णोतु ॥१२॥ शि॒वा नारी॒यमस्त॒माग॑न्नि॒मं धा॒ता लो॒कम॒स्यै दि॑देश । ताम॑र्य॒मा भगो॑ अ॒श्विनो॒भा प्र॒जाप॑तिः प्र॒जया॑ वर्धयन्तु ॥१३॥ आ॒त्म॒न्वत्यु॒र्वरा॒ नारी॒यमाग॒न् तस्यां॑ नरो वपत॒ बीज॑मस्याम्। सा वः॑ प्र॒जां ज॑नयद् व॒क्षणा॑भ्यो॒ बिभ्र॑ती दु॒ग्धमृ॑ष॒भस्य॒ रेतः॑ ॥१४॥ प्रति॑ तिष्ठ वि॒राड॑सि॒ विष्णु॑रिवे॒ह स॑रस्वति । सिनी॑वालि॒ प्र जा॑यतां॒ भग॑स्य सुम॒ताव॑सत्॥१५॥ उद् व॑ ऊ॒र्मिः शम्या॑ ह॒न्त्वापो॒ योक्त्रा॑णि मुञ्चत । मादु॑ष्कृतौ॒ व्येनसाव॒घ्न्यावशु॑न॒मार॑ताम्॥१६॥ अघो॑रचक्षु॒रप॑तिघ्नी स्यो॒ना श॒ग्मा सु॒शेवा॑ सु॒यमा॑ गृ॒हेभ्यः॑ । वी॒रसूर्दे॒वका॑मा॒ सं त्वयै॑धिषीमहि सुमन॒स्यमा॑ना ॥१७॥ अदे॑वृ॒घ्न्यप॑तिघ्नी॒हैधि॑ शि॒वा प॒शुभ्यः॑ सु॒यमा॑ सु॒वर्चाः॑ । प्र॒जाव॑ती वीर॒सूर्दे॒वका॑मा स्यो॒नेमम॒ग्निं गार्ह॑पत्यं सपर्य ॥१८॥ उत् ति॑ष्ठे॒तः किमि॒च्छन्ती॒दमागा॑ अ॒हं त्वे॑डे अभि॒भूः स्वाद् गृ॒हात्। शू॒न्यै॒षी नि॑रृते॒ याज॒गन्थोत्ति॑ष्ठाराते॒ प्र प॑त॒ मेह रं॑स्थाः ॥१९॥ य॒दा गार्ह॑पत्य॒मस॑पर्यै॒त् पूर्व॑म॒ग्निं व॒धूरि॒यम्। अधा॒ सर॑स्वत्यै नारि पि॒तृभ्य॑श्च॒ नम॑स्कुरु ॥२०॥ शर्म॒ वर्मै॒तदा ह॑रा॒स्यै नार्या॑ उप॒स्तिरे॑ । सिनी॑वालि॒ प्र जा॑यतां॒ भग॑स्य सुम॒ताव॑सत्॥२१॥ यं बल्ब॑जं॒ न्यस्य॑थ॒ चर्म॑ चोपस्तृणी॒थन॑ । तदा रो॑हतु सुप्र॒जा या क॒न्या वि॒न्दते॒ पति॑म्॥२२॥ उप॑ स्तृणीहि॒ बल्ब॑ज॒मधि॒ चर्म॑णि॒ रोहि॑ते । तत्रो॑प॒विश्य॑ सुप्र॒जा इ॒मम॒ग्निं स॑पर्यतु ॥२३॥ आ रो॑ह॒ चर्मोप॑ सीदा॒ग्निमे॒ष दे॒वो ह॑न्ति॒ रक्षां॑सि॒ सर्वा॑ । इ॒ह प्र॒जां ज॑नय॒ पत्ये॑ अ॒स्मै सु॑ज्यै॒ष्ठ्यो भ॑वत् पु॒त्रस्त॑ ए॒षः ॥२४॥ वि ति॑ष्ठन्तां मा॒तुर॒स्या उ॒पस्था॒न्नाना॑रूपाः प॒शवो॒ जाय॑मानाः । सु॒म॒ङ्ग॒ल्युप॑ सीदे॒मम॒ग्निं संप॑त्नी॒ प्रति॑ भूषे॒ह दे॒वान्॥२५॥ सु॒म॒ङ्ग॒ली प्र॒तर॑णी गृ॒हाणां॑ सु॒शेवा॒ पत्ये॒ श्वशु॑राय शं॒भूः । स्यो॒ना श्व॒श्र्वै प्र गृ॒हान् वि॑शे॒मान्॥२६॥ स्यो॒ना भ॑व॒ श्वशु॑रेभ्यः स्यो॒ना पत्ये॑ गृ॒हेभ्यः॑ । स्यो॒नास्यै सर्व॑स्यै वि॒शे स्यो॒ना पु॒ष्टायै॑षां भव ॥२७॥ सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒मां स॒मेत॒ पश्य॑त । सौभा॑ग्यम॒स्यै द॒त्त्वा दौर्भा॑ग्यैर्वि॒परे॑तन ॥२८॥ या दु॒र्हार्दो॑ युव॒तयो॒ याश्चे॒ह ज॑रती॒रपि॑ । वर्चो॒ न्व॑स्यै सं द॒त्ताथास्तं॑ वि॒परे॑तन ॥२९॥ रु॒क्म॒प्रस्त॑रणं व॒ह्यं विश्वा॑ रू॒पाणि॒ बिभ्र॑तम्। आरो॑हत् सू॒र्या सा॑वि॒त्री बृ॑ह॒ते सौभ॑गाय॒ कम्॥३०॥ आ रो॑ह॒ तल्पं सुमन॒स्यमा॑ने॒ह प्र॒जां ज॑नय॒ पत्ये॑ अ॒स्मै। इ॒न्द्रा॒णीव॑ सु॒बुधा॒ बुध्य॑माना॒ ज्योति॑रग्रा उ॒षसः॒ प्रति॑ जागरासि ॥३१॥ दे॒वा अग्रे॒ न्यपद्यन्त॒ पत्नीः॒ सम॑स्पृशन्त त॒न्वऽस्त॒नूभिः॑ । सू॒र्येव॑ नारि वि॒श्वरू॑पा महि॒त्वा प्र॒जाव॑ती॒ पत्या॒ सं भ॑वे॒ह॥३२॥ उत् ति॑ष्ठे॒तो वि॑श्वावसो॒ नम॑सेडामहे त्वा । जा॒मिमि॑च्छ पितृ॒षदं॒ न्यक्तां॒ स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ॥३३॥ अ॒प्स॒रसः॑ सध॒मादं॑ मदन्ति हवि॒र्धान॑मन्त॒रा सूर्यं॑ च । तास्ते॑ ज॒नित्र॑म॒भि ताः परे॑हि॒ नम॑स्ते गन्धर्व॒र्तुना॑ कृणोमि ॥३४॥ नमो॑ गन्ध॒र्वस्य॒ नम॑से॒ नमो॒ भामा॑य॒ चक्षु॑षे च कृण्मः । विश्वा॑वसो॒ ब्रह्म॑णा ते॒ नमो॒ऽभि जा॒या अ॑प्स॒रसः॒ परे॑हि ॥३५॥ रा॒या व॒यं सु॒मन॑सः स्या॒मोदि॒तो ग॑न्ध॒र्वमावी॑वृताम । अग॑न्त्स दे॒वः प॑र॒मं स॒धस्थ॒मग॑न्म॒ यत्र॑ प्रति॒रन्त॒ आयुः॑ ॥३६॥ सं पि॑तरा॒वृत्वि॑ये सृजेथां मा॒ता पि॒ता च॒ रेत॑सो भवाथः । मर्य॑ इव॒ योषा॒मधि॑रोहयैनां प्र॒जां कृ॑ण्वाथामि॒ह पु॑ष्यतं र॒यिम्॥३७॥ तां पूषं॑छि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं॑ मनु॒ष्या॒३वप॑न्ति । या न॑ ऊ॒रू उ॑श॒ती वि॒श्रया॑ति॒ यस्या॑मु॒शन्तः॑ प्र॒हरे॑म॒ शेपः॑ ॥३८॥ आ रो॑हो॒रुमुप॑ धत्स्व॒ हस्तं॒ परि॑ ष्वजस्व जा॒यां सु॑मन॒स्यमा॑नः । प्र॒जां कृ॑ण्वाथामि॒ह मोद॑मानौ दी॒र्घं वा॒मायुः॑ सवि॒ता कृ॑णोतु ॥३९॥ आ वां॑ प्र॒जां ज॑नयतु प्र॒जाप॑तिरहोरा॒त्राभ्यां॒ सम॑नक्त्वर्य॒मा। अदु॑र्मङ्गली पतिलो॒कमा वि॑शे॒मं शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥४०॥ दे॒वैर्द॒त्तं मनु॑ना सा॒कमे॒तद् वाधू॑यं॒ वासो॑ व॒ध्वऽश्च॒ वस्त्र॑म्। यो ब्र॒ह्मणे॑ चिकि॒तुषे॒ ददा॑ति॒ स इद् रक्षां॑सि॒ तल्पा॑नि हन्ति ॥४१॥ यं मे॑ द॒त्तो ब्र॑ह्मभा॒गं व॑धू॒योर्वाधू॑यं॒ वासो॑ व॒ध्वऽश्च॒ वस्त्र॑म्। यु॒वं ब्र॒ह्मणे॑ऽनुमन्य॑मानौ॒ बृह॑स्पते सा॒कमिन्द्र॑श्च द॒त्तम्॥४२॥ स्यो॒नाद्योने॒रधि॒ बध्य॑मानौ हसामु॒दौ मह॑सा॒ मोद॑मानौ । सु॒गू सु॑पु॒त्रौ सु॑गृ॒हौ त॑राथो जी॒वावु॒षसो॑ विभा॒तीः ॥४३॥ नवं॒ वसा॑नः सुर॒भिः सु॒वासा॑ उ॒दागां॑ जी॒व उ॒षसो॑ विभा॒तीः । आ॒ण्डात् प॑त॒त्रीवा॑मुक्षि॒ विश्व॑स्मा॒देन॑स॒स्परि॑ ॥४४॥ शुम्भ॑नी॒ द्यावा॑पृथि॒वी अन्ति॑सुम्ने॒ महि॑व्रते । आपः॑ स॒प्त सु॑स्रुवुर्दे॒वीस्ता नो॑ मुञ्च॒न्त्वंह॑सः ॥४५॥ सू॒र्यायै॑ दे॒वेभ्यो॑ मि॒त्राय॒ वरु॑णाय च । ये भू॒तस्य॒ प्रचे॑तस॒स्तेभ्य॑ इ॒दम॑करं॒ नमः॑ ॥४६॥ य ऋ॒ते चि॑दभि॒श्रिषः॑ पु॒रा ज॒त्रुभ्य॑ आ॒तृदः॑ । संधा॑ता सं॒धिं म॒घवा॑ पुरू॒वसु॒र्निष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑ ॥४७॥ अपा॒स्मत् तम॑ उच्छतु॒ नीलं॑ पि॒शङ्ग॑मु॒त लोहि॑तं॒ यत्। नि॒र्द॒ह॒नी या पृ॑षात॒क्य॑१स्मिन् तां स्था॒णावध्या स॑जामि ॥४८॥ याव॑तीः कृ॒त्या उ॑प॒वास॑ने॒ याव॑न्तो॒ राज्ञो॒ वरु॑णस्य॒ पाशाः॑ । व्यृद्धयो॒ या अस॑मृद्धयो॒ या अ॒स्मिन् ता स्था॒णावधि॑ सादयामि ॥४९॥ या मे॑ प्रि॒यतमा त॒नूः सा मे॑ बिभाय॒ वास॑सः । तस्याग्रे॒ त्वं व॑नस्पते नी॒विं कृ॑णुष्व॒ मा व॒यं रि॑षाम ॥५०॥ ये अन्ता॒ याव॑तीः॒ सिचो॒ य ओत॑वो॒ ये च॒ तन्त॑वः । वासो॒ यत् पत्नी॑भिरु॒तं तन्नः॑ स्यो॒नमुप॑ स्पृशात्॥५१॥ उ॒श॒तीः क॒न्यला॑ इ॒माः पि॑तृलो॒कात् पतिं॑ य॒तीः । अव॑ दी॒क्षाम॑सृक्षत॒ स्वाहा॑ ॥५२॥ बृह॒स्पति॒नाव॑सृष्टां॒ विश्वे॑ दे॒वा अ॑धारयन्। वर्चो॒ गोषु॒ प्रवि॑ष्टं॒ यत् तेने॒मां सं सृ॑जामसि ॥५३॥ बृह॒स्पति॒नाव॑सृष्टां॒ विश्वे॑ दे॒वा अ॑धारयन्। तेजो॒ गोषु॒ प्रवि॑ष्टं॒ यत् तेने॒मां सं सृ॑जामसि ॥५४॥ बृह॒स्पति॒नाव॑सृष्टां॒ विश्वे॑ दे॒वा अ॑धारयन्। भजो॒ गोषु॒ प्रवि॑ष्टो॒ यस्तेने॒मां सं सृ॑जामसि ॥५५॥ बृह॒स्पति॒नाव॑सृष्टां॒ विश्वे॑ दे॒वा अ॑धारयन्। यशो॒ गोषु॒ प्रवि॑ष्टं॒ यत् तेने॒मां सं सृ॑जामसि ॥५६॥ बृह॒स्पति॒नाव॑सृष्टां॒ विश्वे॑ दे॒वा अ॑धारयन्। पयो॒ गोषु॒ प्रवि॑ष्टं॒ यत् तेने॒मां सं सृ॑जामसि ॥५७॥ बृह॒स्पति॒नाव॑सृष्टां॒ विश्वे॑ दे॒वा अ॑धारयन्। रसो॒ गोषु॒ प्रवि॑ष्टो॒ यस्तेने॒मां सं सृ॑जामसि ॥५८॥ यदी॒मे के॒शिनो॒ जना॑ गृ॒हे ते॑ स॒मन॑र्तिषू॒ रोदे॑न कृण्व॒न्तो॒३घम्। अ॒ग्निष्ट्वा॒ तस्मा॒देन॑सः सवि॒ता च॒ प्र मु॑ञ्चताम्॥५९॥ यदी॒यं दु॑हि॒ता तव॑ विके॒श्यरु॑दद् गृ॒हे रोदे॑न कृण्व॒त्य॑१घम्। अ॒ग्निष्ट्वा॒ तस्मा॒देन॑सः सवि॒ता च॒ प्र मु॑ञ्चताम्॥६०॥ यज्जा॒मयो॒ यद् यु॑व॒तयो॑ गृ॒हे ते॑ स॒मन॑र्तिषू॒ रोदे॑न कृण्व॒तीर॒घम्। अ॒ग्निष्ट्वा॒ तस्मा॒देन॑सः सवि॒ता च प्र मु॑ञ्चताम्॥६१॥ यत् ते॑ प्र॒जायां॑ प॒शुषु॒ यद् वा॑ गृ॒हेषु॒ निष्ठि॑तमघ॒कृद्भि॑र॒घं कृ॒तम्। अ॒ग्निष्ट्वा॒ तस्मा॒देनसः सवि॒ता च॒ प्र मु॑ञ्चताम्॥६२॥ इ॒यं नार्युप॑ ब्रूते॒ पूल्या॑न्यावपन्ति॒का। दी॒र्घायु॑रस्तु मे॒ पति॒र्जीवा॑ति श॒रदः॑ श॒तम्॥६३॥ इ॒हेमावि॑न्द्र॒ सं नु॑द चक्रवा॒केव॒ दंप॑ती । प्र॒जयै॑नौ स्वस्त॒कौ विश्व॒मायु॒र्व्यऽश्नुताम्॥६४॥ यदा॑स॒न्द्यामु॑प॒धाने॒ यद् वो॑प॒वास॑ने कृ॒तम्। वि॒वा॒हे कृ॒त्यां यां च॒क्रुरा॒स्नाने॒ तां नि द॑ध्मसि ॥६५॥ यद् दु॑ष्कृ॒तं यच्छम॑लं विवा॒हे व॑ह॒तौ च॒ यत्। तत् सं॑भ॒लस्य॑ कम्ब॒ले मृ॒ज्महे॑ दुरि॒तं व॒यम्॥६६॥ सं॒भ॒ले मलं॑ सादयित्वा क॑म्बले दु॑रितं व॒यम्। अभू॑म य॒ज्ञियाः॑ शु॒द्धाः प्र ण॒ आयूं॑षि तारिषत्॥६७॥ कृ॒त्रिमः॒ कण्ट॑कः श॒तद॒न् य ए॒षः । अपा॒स्याः केश्यं॒ मल॒मप॑ शीर्ष॒ण्यं लिखात्॥६८॥ अङ्गा॑द॒ङ्गाद् व॒यम॒स्या अप॒ यक्ष्मं॒ नि द॑ध्मसि । तन्मा प्राप॑त् पृथि॒वीं मोत दे॒वान् दिवं॒ मा प्राप॑दु॒र्व॑१न्तरि॑क्षम्। अ॒पो मा प्राप॒न्मल॑मे॒तद॑ग्ने य॒मं मा प्राप॑त् पि॒तॄंश्च॒ सर्वा॑न्॥६९॥ सं त्वा॑ नह्यामि॒ पय॑सा पृथि॒व्याः सं त्वा॑ नह्यामि॒ पय॒सौष॑धीनाम्। सं त्वा॑ नह्यामि प्र॒जया॒ धने॑न॒ सा संन॑द्धा सनुहि॒ वाज॒मेमम्॥७०॥ अमो॒ऽहम॑स्मि॒ सा त्वं सामा॒हम॒स्म्यृक् त्वं द्यौर॒हं पृ॑थि॒वी त्वम्। तावि॒ह सं भ॑वाव प्र॒जामा ज॑नयावहै ॥७१॥ ज॒नि॒यन्ति॑ ना॒वग्र॑वः पुत्रि॒यन्ति॑ सु॒दान॑वः । अरि॑ष्टासू सचेवहि बृह॒ते वाज॑सातये ॥७२॥ ये पि॒तरो॑ वधूद॒र्शा इमं व॑ह॒तुमाग॑मन्। ते अ॒स्यै व॒ध्वै संप॑त्न्यै प्र॒जाव॒च्छर्म॑ यच्छन्तु ॥७३॥ येदं पूर्वाग॑न् रशना॒यमा॑ना प्र॒जाम॒स्यै द्रवि॑णं चे॒ह द॒त्त्वा। तां व॑ह॒न्त्वग॑त॒स्यानु॒ पन्थां॑ वि॒राडि॒यं सु॑प्र॒जा अत्य॑जैषीत्॥७४॥ प्र बु॑ध्यस्व सु॒बुधा॒ बुध्य॑माना दीर्घायु॒त्वाय॑ श॒तशा॑रदाय । गृ॒हान् ग॑च्छ गृ॒हप॑त्नी॒ यथासो॑ दी॒र्घं त॒ आयुः॑ सवि॒ता कृ॑णोतु ॥७५॥
— Atharvaveda Kāṇḍa 14 · Sūkta 2 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

Sources and Connected Readings

Continue from this Atharvaveda sūkta to its Kāṇḍa, the Atharvaveda reading index, the Catur-Veda doorway, and closely connected Śruti, Vedānta, Gītā, and Bhāgavata passages.

AV 14.2The second Vivāha-Kāṇḍa hymn · domestic dharma after the wedding riteAtharvaveda Kāṇḍa 14parent kāṇḍa sūkta index/atharvavedaAtharvaveda master index/four-vedasreceived Veda inventory with explicit missing-data boundaries/rigvedaṚgveda master index · 10 maṇḍalas · 1,027 sūktasRV 1.1Agnimīḷe Purohitam · opening mantra of the ṚgvedaRV 3.62Gāyatrī/Sāvitrī source routeRV 7.59Mahāmṛtyuñjaya source routeRV 10.90Puruṣa-Sūkta · cosmic Puruṣa foundationRV 10.129Nāsadīya-Sūkta · creation-enigma inquiryAV 10.7Skambha-Sūkta · cosmic-pillar witnessAV 11.4Prāṇa-Sūkta · cosmic-prāṇa witnessAV 12.1Pṛthvī/Bhūmi-Sūkta · Mother Earth source routeAV 19.6Atharvaveda Puruṣa-Sūkta recension/yajurvedaŚukla-Yajurveda master index · Mādhyandina and Kāṇva recensionsYV 16Rudra-Praśna / Śrī-Rudram source routeYV 31Yajurveda Puruṣa-Sūkta source routeYV 34Śiva-Saṁkalpa-Sūkta source routeYV 36Śānti-mantra source routeYV 40Īśopaniṣad in the Yajurveda source route/upanishads10 Mukhya Upaniṣads · Vedānta doorway/mahavakyasfour Mahā-vākyas · Upaniṣadic concentrateBG 9.17Krishna as pitā, mātā, dhātā, pitāmaha and ṛk-sāma-yajusBG 10.22vedānāṁ sāmavedo’smi · Sāmaveda honored by KrishnaŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattva/binduDiamond of Darśanas · Bindu reader key/philosophyconstitutional Krishna = Paramaatma = Parabrahman foundation

🪷 ॐ 🪷