🪷 Atharvaveda 14.1 · विवाह-सूक्त

Caturdaśa-Kāṇḍa · Sūkta 1 · Vivāha-Sūkta · The First Marriage Hymn

Veda Detail Source-Anchor Spine

This Atharvaveda sūkta page exposes its local source route, parent kāṇḍa, Atharvaveda master route, Catur-Veda hub, and wider śruti/Vedānta/Gītā/Bhāgavata source spine.

AV 14.1The first of two Vivāha-Kāṇḍa marriage hymns · parallel and complementary to RV 10.85 · grounds all marriage-saṁskāra mantrasAtharvaveda Kāṇḍa 14parent kāṇḍa sūkta index/atharvavedaAtharvaveda master index/four-vedasCatur-Veda-Pūrṇatā hub for the live śruti URL graph/rigvedaṚgveda master index · 10 maṇḍalas · 1,027 sūktasRV 1.1Agnimīḷe Purohitam · opening mantra of the ṚgvedaRV 3.62Gāyatrī/Sāvitrī source routeRV 7.59Mahāmṛtyuñjaya source routeRV 10.90Puruṣa-Sūkta · cosmic Puruṣa foundationRV 10.129Nāsadīya-Sūkta · creation-enigma inquiryAV 10.7Skambha-Sūkta · cosmic-pillar witnessAV 11.4Prāṇa-Sūkta · cosmic-prāṇa witnessAV 12.1Pṛthvī/Bhūmi-Sūkta · Mother Earth source routeAV 19.6Atharvaveda Puruṣa-Sūkta recension/yajurvedaŚukla-Yajurveda master index · Mādhyandina and Kāṇva recensionsYV 16Rudra-Praśna / Śrī-Rudram source routeYV 31Yajurveda Puruṣa-Sūkta source routeYV 34Śiva-Saṁkalpa-Sūkta source routeYV 36Śānti-mantra source routeYV 40Īśopaniṣad in the Yajurveda source route/upanishads10 Mukhya Upaniṣads · Vedānta doorway/mahavakyasfour Mahā-vākyas · Upaniṣadic concentrateBG 9.17Krishna as pitā, mātā, dhātā, pitāmaha and ṛk-sāma-yajusBG 10.22vedānāṁ sāmavedo’smi · Sāmaveda honored by KrishnaŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattva/binduDiamond of Darśanas · Bindu reader key/philosophyconstitutional Krishna = Paramaatma = Parabrahman foundation
⭐ A Landmark Sūkta
The first of two Vivāha-Kāṇḍa marriage hymns · parallel and complementary to RV 10.85 · grounds all marriage-saṁskāra mantras
विवाह- प्रकरणम्। १-६४ सूर्या सावित्री। आत्मा; १-५ सोमः, ६ स्वविवाहः, २३ सोमार्कौ, २४ चन्द्रमाः, २५ नृणां विवाहमन्त्राशिषः; २५,२७ वधूवासःसंस्पर्शमोचनम। अनुष्टुप्, १४ विराट् प्रस्तारपङ्क्तिः; १५ आस्तारपङ्क्तिः; १९-२०, २३-२४, ३१-३३,३७, ३९-४०, ४५, ४७, ४९-५०, ५३, ५६-५७, ५८-५९,६१ त्रिष्टुप् (२३,३१,४५ बृहतीगर्भा), २१, ४६, ५४,६४ जगती (५४, ६४ भुरिक् त्रिष्टुप्) ; २९, ५५ पुरस्ताद्बृहती; ३४ प्रस्तारपङ्क्तिः; ३८ पुरोबृहती त्रिपदा परोष्णिक्; (४८ पथ्यापङ्क्तिः) ६० पराऽनुष्टुप्। स॒त्येनोत्त॑भिता॒ भूमिः॒ सूर्ये॒णोत्त॑भिता॒ द्यौः । ऋ॒तेना॑दि॒त्यास्ति॑ष्ठन्ति दि॒वि सोमो॒ अधि॑ श्रि॒तः ॥१॥ सोमे॑नादि॒त्या ब॒लिनः॒ सोमे॑न पृथि॒वी म॒ही। अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आहि॑तः ॥२॥ सोमं॑ मन्यते पपि॒वान् यत् सं॑पिं॒षन्त्योष॑धिम्। सोमं॒ यं ब्र॒ह्माणो॑ वि॒दुर्न तस्या॑श्नाति॒ पार्थि॑वः ॥३॥ यत् त्वा॑ सोम प्र॒पिब॑न्ति॒ तत॒ आ प्या॑यसे॒ पुनः॑ । वा॒युः सोम॑स्य रक्षि॒ता समा॑नां॒ मास॒ आकृ॑तिः ॥४॥ आ॒च्छद्वि॑धानैर्गुपि॒तो बार्ह॑तैः सोम रक्षि॒तः । ग्राव्णा॒मिच्छृ॒ण्वन् ति॑ष्ठसि॒ न ते॑ अश्नाति॒ पार्थि॑वः ॥५॥ चित्ति॑रा उप॒बर्ह॑णं॒ चक्षु॑रा अ॒भ्यञ्ज॑नम्। द्यौर्भूमिः॒ कोश॑ आसी॒द् यदया॑त् सू॒र्या पति॑म्॥६॥ रैभ्या॑सीदनु॒देयी॑ नाराशं॒सी न्योच॑नी । सू॒र्याया॑ भ॒द्रमिद् वासो॒ गाथ॑यैति॒ परि॑ष्कृता ॥७॥ स्तोमा॑ आसन् प्रति॒धयः॑ कु॒रीरं॒ छन्द॑ ओप॒शः । सू॒र्याया॑ अ॒श्विना॑ व॒राग्निरा॑सीत् पुरोग॒वः ॥८॥ सोमो॑ वधू॒युर॑भवद॒श्विना॑स्तामु॒भा व॒रा। सू॒र्यां यत् पत्ये॒ शंस॑न्तीं॒ मन॑सा सवि॒ताद॑दात्॥९॥ मनो॑ अस्या॒ अन॑ आसी॒द् द्यौरा॑सीदु॒त च्छ॒दिः । शु॒क्राव॑न॒ड्वाहा॑वास्तां॒ यदया॑त् सू॒र्या पति॑म्॥१०॥ ऋ॒क्सा॒माभ्या॑म॒भिहि॑तौ॒ गावौ॑ ते साम॒नावै॑ताम्। श्रोत्रे॑ ते च॒क्रे आ॑स्तां दि॒वि पन्था॑श्चराच॒रः ॥११॥ शुची॑ ते च॒क्रे या॒त्या व्या॒नो अक्ष॒ आह॑तः । अनो॑ मन॒स्मयं॑ सू॒र्यारो॑हत् प्रय॒ती पति॑म्॥१२॥ सू॒र्याया॑ वह॒तुः प्रागा॑त् सवि॒ता यम॒वासृ॑जत्। म॒घासु॑ ह॒न्यन्ते॒ गावः॒ फल्गु॑नीषु॒ व्युऽह्यते ॥१३॥ यद॑श्विना पृ॒च्छमा॑ना॒वया॑तं त्रिच॒क्रेण॑ वह॒तुं सू॒र्यायाः॑ । क्वैकं॑ च॒क्रं वा॑मासी॒त् क्वऽदे॒ष्ट्राय॑ तस्थथुः ॥१४॥ यदया॑तं शुभस्पती वरे॒यं सू॒र्यामुप॑ । विश्वे॑ दे॒वा अनु॒ तद् वा॑मजानन् पु॒त्रः पि॒तर॑मवृणीत पू॒षा॥१५॥ द्वे ते॑ च॒क्रे सूर्ये॑ ब्र॒ह्माण॑ ऋतु॒था वि॑दुः । अथैकं॑ च॒क्रं यद् गुहा॒ तद॑द्धा॒तय॒ इद् वि॒दुः ॥१६॥ अ॒र्य॒मणं॑ यजामहे सुब॒न्धुं प॑ति॒वेद॑नम्। उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑ना॒त् प्रेतो मु॑ञ्चामि॒ नामुतः॑ ॥१७॥ प्रेतो मु॑ञ्चामि॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करम्। यथे॒यमि॑न्द्र मीढ्वः सुपु॒त्रा सु॒भगास॑ति ॥१८॥ प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द् येन॒ त्वाब॑ध्नात् सवि॒ता सु॒शेवाः॑ । ऋ॒तस्य॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नं ते॑ अस्तु स॒हसं॑भलायै ॥१९॥ भग॑स्त्वे॒तो न॑यतु हस्त॒गृह्या॒श्विना॑ त्वा॒ प्र व॑हतां॒ रथे॑न । गृ॒हान् ग॑च्छ गृ॒हप॑त्नी॒ यथासो॑ व॒शिनी॒ त्वं वि॒दथ॒मा व॑दासि ॥२०॥ इ॒ह प्रि॒यं प्र॒जायै॑ ते॒ समृ॑ध्यताम॒स्मिन् गृ॒हे गार्ह॑पत्याय जागृहि । ए॒ना पत्या॑ त॒न्वं॑१ सं स्पृ॑श॒स्वाथ॒ जिर्वि॑र्वि॒दथ॒मा व॑दासि ॥२१॥ इ॒हैव स्तं॒ मा वि यौ॑ष्टं॒ विश्व॒मायु॒र्व्यऽश्नुतम्। क्रीड॑न्तौ पु॒त्रैर्नप्तृ॑भि॒र्मोद॑मानौ स्वस्त॒कौ॥२२॥ पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ शिशू॒ क्रीड॑न्तौ॒ परि॑ यातोऽर्ण॒वम्। विश्वा॒न्यो भुव॑ना वि॒चष्ट॑ ऋ॒तूंर॒न्यो वि॒दध॑ज्जायसे॒ नवः॑ ॥२३॥ नवो॑नवो भवसि॒ जाय॑मा॒नोऽह्नां॑ के॒तुरु॒षसा॑मे॒ष्यग्र॑म्। भा॒गं दे॒वेभ्यो॒ वि द॑धास्या॒यन् प्र च॑न्द्रमस्तिरसे दी॒र्घमायुः॑ ॥२४॥ परा॑ देहि शामु॒ल्यं ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑ । कृ॒त्यैषा प॒द्वती॑ भू॒त्वा जा॒या वि॑शते॒ पति॑म्॥२५॥ नी॒ल॒लो॒हि॒तं भ॑वति कृ॒त्यास॒क्तिर्व्यऽज्यते । एध॑न्ते अस्या ज्ञा॒तयः॒ पति॑र्ब॒न्धेषु॑ बध्यते ॥२६॥ अ॒श्ली॒ला त॒नूर्भ॑वति॒ रुश॑ती पा॒पया॑मु॒या। पति॒र्यद् व॒ध्वो॒३वास॑सः॒ स्वमङ्ग॑मभ्यूर्णु॒ते॥२७॥ आ॒शस॑नं वि॒शस॑न॒मथो॑ अधिवि॒कर्त॑नम्। सू॒र्यायाः॑ पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मोत शु॑म्भति ॥२८॥ तृ॒ष्टमे॒तत् कटु॑कमपा॒ष्ठव॑द् वि॒षव॒न्नैतदत्त॑वे । सू॒र्यां यो ब्र॒ह्मा वेद॒ स इद् वाधू॑यमर्हति ॥२९॥ स इत् तत् स्यो॒नं ह॑रति ब्र॒ह्मा वासः॑ सुम॒ङ्गल॑म्। प्राय॑श्चित्तिं॒ यो अ॒ध्येति॒ येन॑ जा॒या न रिष्य॑ति ॥३०॥ यु॒वं भगं॒ सं भ॑रतं॒ समृ॑द्धमृ॒तं वद॑न्तावृ॒तोद्ये॑षु । ब्रह्म॑णस्पते॒ पति॑म॒स्यै रो॑चय॒ चारु॑ संभ॒लो व॑दतु॒ वाच॑मे॒ताम्॥३१॥ इ॒हेद॑साथ॒ न प॒रो ग॑माथे॒मं गा॑वः प्र॒जया॑ वर्धयाथ । शुभं॑ यतीरु॒स्रियाः॒ सोम॑वर्चसो॒ विश्वे॑ दे॒वाः क्रन्नि॒ह वो॒ मनां॑सि ॥३२॥ इ॒मं गा॑वः प्र॒जया॒ सं वि॑शाथा॒यं दे॒वानां॒ न मि॑नाति भा॒गम्। अ॒स्मै वः॑ पू॒षा म॒रुत॑श्च॒ सर्वे॑ अ॒स्मै वो॑ धा॒ता स॑वि॒ता सु॑वाति ॥३३॥ अ॒नृ॒क्ष॒रा ऋ॒जवः॑ सन्तु॒ पन्थ॑नो॒ येभिः॒ सखा॑यो॒ यन्ति॑ नो वरे॒यम्। सं भगे॑न॒ सम॑र्य॒म्णा सं धा॒ता सृ॑जतु॒ वर्च॑सा ॥३४॥ यच्च॒ वर्चो॑ अ॒क्षेषु॒ सुरा॑यां च॒ यदाहि॑तम्। यद् गोष्व॒श्विना॒ वर्च॒स्तेने॒मां वर्च॑सावतम्॥३५॥ ये न॑ महान॒घ्न्या ज॒घन॒मश्वि॑ना॒ येन॑ वा॒ सुरा॑ । येना॒क्षा अ॒भ्यषि॑च्यन्त॒ तेने॒मां वर्च॑सावतम्॥३६॥ यो अ॑नि॒ध्मो दी॒दय॑द॒प्स्व॑१न्तर्यं विप्रा॑स॒ ईड॑ते अध्व॒रेषु॑ । अपां॑ नपा॒न्मधु॑मतीर॒पो दा॒ याभि॒रिन्द्रो॑ वावृ॒धे वी॒र्याऽवान्॥३७॥ इ॒दम॒हं रुश॑न्तं ग्रा॒भं त॑नू॒दूषि॒मपो॑हामि । यो भ॒द्रो रो॑च॒नस्तमुद॑चामि ॥३८॥ आस्यै॑ ब्राह्म॒णाः स्नप॑नीर्हर॒न्त्ववी॑रघ्नी॒रुद॑ज॒न्त्वापः॑ । अ॒र्य॒म्णो अ॒ग्निं पर्ये॑तु पूष॒न् प्रती॑क्षन्ते॒ श्वशु॑रो दे॒वर॑श्च ॥३९॥ शं ते॒ हिर॑ण्यं॒ शमु॑ स॒न्त्वापः॒ शं मे॒थिर्भ॑वतु॒ शं यु॒गस्य॒ तर्द्म॑ । शं त॒ आपः॑ श॒तप॑वित्रा भवन्तु॒ शमु॒ पत्या॑ त॒न्वं॑१ सं स्पृ॑शस्व ॥४०॥ खे रथ॑स्य॒ खेऽन॑सः॒ खे यु॒गस्य॑ शतक्रतो । अ॒पा॒लामि॑न्द्र॒ त्रिष्पू॒त्वाकृ॑णोः॒ सूर्य॑त्वचम्॥४१॥ आ॒शासा॑ना सौमन॒सं प्र॒जां सौभा॑ग्यं र॒यिम्। पत्यु॒रनु॑व्रता भू॒त्वा सं न॑ह्यस्वा॒मृता॑य॒ कम्॥४२॥ यथा॒ सिन्धु॑र्न॒दीनां॒ साम्रा॑ज्यं सुषु॒वे वृषा॑ । ए॒वा त्वं स॒म्राज्ञ्ये॑धि॒ पत्यु॒रस्तं॑ प॒रेत्य॑ ॥४३॥ स॒म्राज्ञ्ये॑धि॒ श्वशु॑रेषु स॒म्राज्ञ्यु॒त दे॒वृषु॑ । नना॑न्दुः स॒म्राज्ञ्ये॑धि स॒म्राज्ञ्यु॒त श्व॒श्र्वाः ॥४४॥ या अकृ॑न्त॒न्नव॑य॒न् याश्च॑ तत्नि॒रे या दे॒वीरन्तां॑ अ॒भितोऽद॑दन्त । तास्त्वा॑ ज॒रसे॒ सं व्य॑य॒न्त्वायु॑ष्मती॒दं परि॑ धत्स्व॒ वासः॑ ॥४५॥ जी॒वं रु॑दन्ति॒ वि न॑यन्त्यध्व॒रं दी॒र्घामनु॒ प्रसि॑तिं दीध्यु॒र्नरः॑ । वा॒मं पि॒तृभ्यो॒ य इ॒दं स॑मीरि॒रे मयः॒ पति॑भ्यो ज॒नये॑ परि॒ष्वजे॑ ॥४६॥ स्यो॒नं ध्रु॒वं प्र॒जायै॑ धारयामि॒ तेऽश्मा॑नं दे॒व्याः पृ॑थि॒व्या उ॒पस्थे॑ । तमा ति॑ष्ठानु॒माद्या॑ सु॒वर्चा॑ दी॒र्घं त॒ आयुः॑ सवि॒ता कृ॑णोतु ॥४७॥ ये ना॒ग्निर॒स्या भूम्या॒ हस्तं॑ ज॒ग्राह॒ दक्षि॑णम्। तेन॑ गृह्णामि ते॒ हस्तं॒ मा व्य॑थिष्ठा॒ मया॑ स॒ह प्र॒जया॑ च॒ धने॑न च ॥४८॥ दे॒वस्ते॑ सवि॒ता हस्तं॑ गृह्णातु॒ सोमो॒ राजा॑ सुप्र॒जसं॑ कृणोतु । अ॒ग्निः सु॒भगां॑ ज॒तवे॑दाः॒ पत्ये॒ पत्नीं॑ ज॒रद॑ष्टिं कृणोतु ॥४९॥ गृ॒ह्णामि॑ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथासः॑ । भगो॑ अर्य॒मा स॑वि॒ता पुरं॑धि॒र्मह्यं॑ त्वादु॒र्गार्ह॑पत्याय दे॒वाः ॥५०॥ भग॑स्ते॒ हस्त॑मग्रहीत् सवि॒ता हस्त॑मग्रहीत्। पत्नी॒ त्वम॑सि॒ धर्म॑णा॒हं गृ॒हप॑ति॒स्तव॑ ॥५१॥ ममे॒यम॑स्तु॒ पोष्या॒ मह्यं॑ त्वादा॒द् बृह॒स्पतिः॑ । मया॒ पत्या॑ प्रजावति॒ सं जी॑व श॒रदः॑ श॒तम्॥५२॥ त्वष्टा॒ वासो॒ व्यदधाच्छु॒भे कं बृह॒स्पतेः॑ प्र॒शिषा॑ कवी॒नाम्। तेने॒मां नारीं॑ सवि॒ता भग॑श्च सू॒र्यामि॑व॒ परि॑ धत्तां प्र॒जया॑ ॥५३॥ इ॒न्द्रा॒ग्नी द्यावा॑पृथि॒वी मा॑त॒रिश्वा॑ मि॒त्रावरु॑णा॒ भगो॑ अ॒श्विनो॒भा। बृह॒स्पति॑र्म॒रुतो॒ ब्रह्म॒ सोम॑ इ॒मां नारीं॑ प्र॒जया॑ वर्धयन्तु ॥५४॥ बृह॒स्पतिः॑ प्रथ॒मः सू॒र्यायाः॑ शी॒र्षे केशां॑ अकल्पयत्। तेने॒माम॑श्विना॒ नारीं॒ पत्ये॒ सं शो॑भयामसि ॥५५॥ इ॒दं तद् रू॒पं यदव॑स्त॒ योषा॑ जा॒यां जि॑ज्ञासे॒ मन॑सा॒ चर॑न्तीम्। तामन्व॑र्तिष्ये॒ सखि॑भि॒र्नव॑ग्वैः॒ क इ॒मान् वि॒द्वान् वि च॑चर्त॒ पाशा॑न्॥५६॥ अ॒हं वि ष्या॑मि॒ मयि॑ रू॒पम॑स्या॒ वेद॒दित् पश्य॒न् मन॑सः कु॒लाय॑म्। न स्तेय॑मद्मि॒ मन॒सोद॑मुच्ये स्व॒यं श्र॑थ्ना॒नो वरु॑णस्य॒ पाशा॑न्॥५७॥ प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द् येन॒ त्वाब॑ध्नात् सवि॒ता सु॒शेवाः॑ । उ॒रुं लो॒कं सु॒गमत्र॒ पन्थां॑ कृ॒णोमि॒ तुभ्यं॑ स॒हप॑त्न्यै वधु ॥५८॥ उद्य॑च्छध्व॒मप॒ रक्षो॑ हनाथे॒मं नारीं॑ सुकृ॒ते द॑धात । धा॒ता वि॑प॒श्चित् पति॑म॒स्यै वि॑वेद॒ भगो॒ राजा॑ पु॒र ए॑तु प्रजा॒नन्॥५९॥ भग॑स्ततक्ष च॒तुरः॒ पादा॒न् भग॑स्ततक्ष च॒त्वार्युष्प॑लानि । त्वष्टा॑ पिपेश मध्य॒तोऽनु॒ वर्ध्रा॒न्त्सा नो॑ अस्तु सुमङ्ग॒ली॥६०॥ सु॒किं॒शु॒कं व॑ह॒तुं वि॒श्वरू॑पं॒ हिर॑ण्यवर्णं सु॒वृतं॑ सुच॒क्रम्। आ रो॑ह सूर्ये अ॒मृत॑स्य लो॒कं स्यो॒नं पति॑भ्यो वह॒तुं कृ॑णु॒ त्वम्॥६१॥ अभ्रा॑तृघ्नीं वरु॒णाप॑शुघ्नीं बृहस्पते । इन्द्राप॑तिघ्नीं पु॒त्रिणी॒मास्मभ्यं॑ सवितर्वह ॥६२॥ मा हिं॑सिष्टं कुमा॒र्यं॑१ स्थूणे॑ दे॒वकृ॑ते प॒थि। शाला॑या दे॒व्या द्वारं॑ स्यो॒नं कृ॑ण्मो वधूप॒थम्॥६३॥ ब्रह्माप॑रं यु॒ज्यतां॒ ब्रह्म॒ पूर्वं॒ ब्रह्मा॑न्त॒तो म॑ध्य॒तो ब्रह्म॑ स॒र्वतः॑ । अ॒ना॒व्या॒धां दे॑वपु॒रां प्र॒पद्य॑ शि॒वा स्यो॒ना प॑तिलो॒के वि रा॑ज ॥६४॥
— Atharvaveda Kāṇḍa 14 · Sūkta 1 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷