🪷 युद्धकाण्ड · Sarga 34

Yuddha-Kāṇḍa · The Book of War · Sarga 34 · 28 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.34.1
अथ ताम् जात सम्तापाम् तेन वाक्येन मोदिताम् ।सरमा ह्लादयाम् आस महीं दग्धामिवाम्भसा ॥६-३४-१॥।। ॥६-३४-१॥
Vālmīki 6.34.2
ततस् तस्या हितम् सख्याश् चिकीर्षन्ती सखी वचः ।उवाच काले कालज्ना स्मित पूर्व अभिभाषिणी ॥६-३४-२॥।। ॥६-३४-२॥
Vālmīki 6.34.3
उत्सहेयम् अहम् गत्वा त्वद् वाक्यम् असित ईक्षणे ।निवेद्य कुशलम् रामे प्रतिच्चन्ना निवर्तितुम् ॥६-३४-३॥।। ॥६-३४-३॥
Vālmīki 6.34.4
न हि मे क्रममाणाया निरालम्बे विहायसि ।समर्थो गतिम् अन्वेतुम् पवनो गरुडो अपि वा ॥६-३४-४॥।। ॥६-३४-४॥
Vālmīki 6.34.5
एवम् ब्रुवाणाम् ताम् सीता सरमाम् पुनर् अब्रवीत् ।मधुरम् श्लक्ष्णया वाचा पूर्व शोक अभिपन्नया ॥६-३४-५॥।। ॥६-३४-५॥
Vālmīki 6.34.6
समर्था गगनम् गन्तुम् अपि वा त्वम् रसा तलम् ।अवगच्चाम्य् अकर्तव्यम् कर्तव्यम् ते मद् अन्तरे ॥६-३४-६॥।। ॥६-३४-६॥
Vālmīki 6.34.7
मत् प्रियम् यदि कर्तव्यम् यदि बुद्धिः स्थिरा तव ।ज्नातुम् इच्चामि तम् गत्वा किम् करोति इति रावणः ॥६-३४-७॥।। ॥६-३४-७॥
Vālmīki 6.34.8
स हि माया बलः क्रूरो रावणः शत्रु रावणः ।माम् मोहयति दुष्ट आत्मा पीत मात्रा इव वारुणी ॥६-३४-८॥।। ॥६-३४-८॥
Vālmīki 6.34.9
तर्जापयति माम् नित्यम् भर्त्सापयति च असक्र्त् ।राक्षसीभिः सुघोराभिर् या माम् रक्षन्ति नित्यशः ॥६-३४-९॥।। ॥६-३४-९॥
Vālmīki 6.34.10
उद्विग्ना शन्किता च अस्मि न च स्वस्थम् मनो मम ।तद् भयाच् च अहम् उद्विग्ना;अशोक वनिकाम् गताः ॥६-३४-१०॥।। ॥६-३४-१०॥
Vālmīki 6.34.11
यदि नाम कथा तस्य निश्चितम् वा अपि यद् भवेत् ।निवेदयेथाः सर्वम् तत् परो मे स्याद् अनुग्रहः ॥६-३४-११॥।। ॥६-३४-११॥
Vālmīki 6.34.12
साप्येवम् ब्रुवतीम् सीताम् सरमा वल्गु भाषिणी ।उवाच वचनम् तस्याः स्पृशन्ती बाष्प विक्लवम् ॥६-३४-१२॥।। ॥६-३४-१२॥
Vālmīki 6.34.13
एष ते यद्य् अभिप्रायस् तस्माद् गच्चामि जानकि ।गृह्य शत्रोर् अभिप्रायम् उपाव्र्त्ताम् च पश्य माम् ॥६-३४-१३॥।। ॥६-३४-१३॥
Vālmīki 6.34.14
एवम् उक्त्वा ततो गत्वा समीपम् तस्य रक्षसः ।शुश्राव कथितम् तस्य रावणस्य समन्त्रिणः ॥६-३४-१४॥।। ॥६-३४-१४॥
Vālmīki 6.34.15
सा श्रुत्वा निश्चयम् तस्य निश्चयज्ना दुरात्मनः ।पुनर् एव अगमत् क्षिप्रम् अशोक वनिकाम् तदा ॥६-३४-१५॥।। ॥६-३४-१५॥
Vālmīki 6.34.16
सा प्रविष्टा पुनस् तत्र ददर्श जनक आत्मजाम् ।प्रतीक्षमाणाम् स्वाम् एव भ्रष्ट पद्माम् इव श्रियम् ॥६-३४-१६॥।। ॥६-३४-१६॥
Vālmīki 6.34.17
ताम् तु सीता पुनः प्राप्ताम् सरमाम् वल्गु भाषिणीम् ।परिष्वज्य च सुस्निग्धम् ददौ च स्वयम् आसनम् ॥६-३४-१७॥।। ॥६-३४-१७॥
Vālmīki 6.34.18
इह आसीना सुखम् सर्वम् आख्याहि मम तत्त्वतः ।क्रूरस्य निश्चयम् तस्य रावणस्य दुरात्मनः ॥६-३४-१८॥।। ॥६-३४-१८॥
Vālmīki 6.34.19
एवम् उक्ता तु सरमा सीतया वेपमानया ।कथितम् सर्वम् आचष्त रावणस्य समन्त्रिणः ॥६-३४-१९॥।। ॥६-३४-१९॥
Vālmīki 6.34.20
जनन्या राक्षस इन्द्रो वै त्वन् मोक्ष अर्थम् बृहद् वचः ।अविद्धेन च वैदेहि मन्त्रि वृद्धेन बोधितः ॥६-३४-२०॥।। ॥६-३४-२०॥
Vālmīki 6.34.21
दीयताम् अभिसत्क्र्त्य मनुज इन्द्राय मैथिली ।निदर्शनम् ते पर्याप्तम् जन स्थाने यद् अद्भुतम् ॥६-३४-२१॥।। ॥६-३४-२१॥
Vālmīki 6.34.22
लन्घनम् च समुद्रस्य दर्शनम् च हनूमतः ।वधम् च रक्षसाम् युद्धे कः कुर्यान् मानुषो भुवि ॥६-३४-२२॥।। ॥६-३४-२२॥
Vālmīki 6.34.23
एवम् स मन्त्रि वृद्धैश्च मात्रा च बहु भाषितः ।न त्वाम् उत्सहते मोक्तुम् अर्तह्म् अर्थ परो यथा ॥६-३४-२३॥।। ॥६-३४-२३॥
Vālmīki 6.34.24
न उत्सहत्य् अम्र्तो मोक्तुम् युद्धे त्वाम् इति मैथिलि ।सामात्यस्य नृशम्सस्य निश्चयो ह्य् एष वर्तते ॥६-३४-२४॥।। ॥६-३४-२४॥
Vālmīki 6.34.25
तद् एषा सुस्थिरा बुद्धिर्मृत्यु लोभाद् उपस्थिता ।भयान् न शक्तस् त्वाम् मोक्तुम् अनिरस्तस् तु सम्युगे ॥६-३४-२५॥।। ॥६-३४-२५॥
Vālmīki 6.34.26
राक्षसानाम् च सर्वेषाम् आत्मनश् च वधेन हि ।निहत्य रावणम् सम्ख्ये सर्वथा निशितैः शरैः ॥६-३४-२६॥।। ॥६-३४-२६॥
Vālmīki 6.34.27
प्रतिनेष्यति रामस् त्वाम् अयोध्याम् असित ईक्षणे ।एतस्मिन्न् अन्तरे शब्दो भेरी शन्ख समाकुलः ॥६-३४-२७॥।। ॥६-३४-२७॥
Vālmīki 6.34.28
श्रुतो वै सर्व सैन्यानाम् कम्पयन् धरणी तलम् ।श्रुत्वा तु तम् वानर सैन्य शब्दम् ।लन्का गता राक्षस राज भ्र्त्याः ।नष्ट ओजसो दैन्य परीत चेष्टाः ।श्रेयो न पश्यन्ति न्र्पस्य दोषैः ॥६-३४-२८॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷