🪷 युद्धकाण्ड · Sarga 33

Yuddha-Kāṇḍa · The Book of War · Sarga 33 · 39 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.33.1
सीताम् तु मोहिताम् दृष्ट्वा सरमा नाम राक्षसी ।आससाद आशु वैदेहीम् प्रियाम् प्रणयिनी सखी ॥६-३३-१॥
Vālmīki 6.33.2
मोहिताम् राक्षसेन्द्रेण सीताम् परमदुःखिताम् ।आश्वासयामास तदा सरमा मृदुभाषिणी ॥६-३३-२॥
Vālmīki 6.33.3
सा हि तत्र कृता मित्रम् सीतया रक्ष्यमाणया ।रक्षन्ती रावणाद् इष्टा सानुक्रोशा दृढ व्रता ॥६-३३-३॥
Vālmīki 6.33.4
सा ददर्श सखीम् सीताम् सरमा नष्ट चेतनाम् ।उपावृत्य उत्थिताम् ध्वस्ताम् वडवाम् इव पांसुषु ॥६-३३-४॥
Vālmīki 6.33.5
ताम् समाश्वासयाम् आस सखी स्नेहेन सुव्रता ।उक्ता यद् रावणेन त्वम् प्रत्युक्तम् च स्वयम् त्वया ॥६-३३-५॥
Vālmīki 6.33.6
उक्ता यद्रावणेन त्वम् प्रत्युक्तश्च स्वयम् त्वया ।सखी स्नेहेन तद् भीरु मया सर्वम् प्रतिश्रुतम् ॥६-३३-६॥
Vālmīki 6.33.7
लीनया गनहे शूह्ये भयम् उत्सृज्य रावणात् ।तव हेतोर् विशाल अक्षि न हि मे जीवितम् प्रियम् ॥६-३३-७॥
Vālmīki 6.33.8
स सम्भ्रान्तश च निष्क्रान्तो यत् कृते राक्षस अधिपः ।तच् च मे विदितम् सर्वम् अभिनिष्क्रम्य मैथिलि ॥६-३३-८॥
Vālmīki 6.33.9
न शक्यम् सौप्तिकम् कर्तुम् रामस्य विदित आत्मनः ।वधश्च पुरुष व्याघ्रे तस्मिन्न् एव उपपद्यते ॥६-३३-९॥
Vālmīki 6.33.10
न च एव वानरा हन्तुम् शक्याः पादप योधिनः ।सुरा देव ऋषभेण इव रामेण हि सुरक्षिताः ॥६-३३-१०॥
Vālmīki 6.33.11
दीर्घ वृत्त भुजह् श्रीमान् महा उरस्कह् प्रतापवान् ।धन्वी सम्हनन उपेतो धर्म आत्मा भुवि विश्रुतः ॥६-३३-११॥
Vālmīki 6.33.12
विक्रान्तो रक्षिता नित्यम् आत्मनश्च परस्य च ।लक्ष्मणेन सह भ्रात्रा कुशली नय शास्त्रवित् ॥६-३३-१२॥
Vālmīki 6.33.13
हन्ता पर बल ओघानाम् अचिन्त्य बल पौरुषः ।न हतो राघवः श्रीमान् सीते शत्रु निबर्हणः ।। १३।। ॥६-३३-१३॥
Vālmīki 6.33.14
अयुक्त बुद्धि कृत्येन सर्व भूत विरोधिना ।इयम् प्रयुक्ता रौद्रेण माया मायाविदा त्वयि ॥६-३३-१४॥
Vālmīki 6.33.15
शोकस् ते विगतः सर्वः कल्याणम् त्वाम् उपस्थितम् ।ध्रुवम् त्वाम् भजते लक्ष्मीः प्रियम् प्रीति करम् शृणु ॥६-३३-१५॥
Vālmīki 6.33.16
उत्तीर्य सागरम् रामः सह वानर सेनया ।सम्निविष्टः समुद्रस्य तीरम् आसाद्य दक्षिणम् ॥६-३३-१६॥
Vālmīki 6.33.17
दृष्टो मे परिपूर्ण अर्थः काकुत्स्थः सह लक्ष्मणः ।सहितैः सागर अन्तस्थैर् बलैस् तिष्ठति रक्षितः ॥६-३३-१७॥
Vālmīki 6.33.18
अनेन प्रेषिता ये च राक्षसा लघु विक्रमः ।राघवस् तीर्णैत्य् एवम् प्रवृत्तिस् तैर् इह आहृता ॥६-३३-१८॥
Vālmīki 6.33.19
स ताम् श्रुत्वा विशाल अक्षि प्रवृत्तिम् राक्षस अधिपः ।एष मन्त्रयते सर्वैः सचिवैः सह रावणः ॥६-३३-१९॥
Vālmīki 6.33.20
इति ब्रुवाणा सरमा राक्षसी सीतया सह ।सर्व उद्योगेन सैन्यानाम् शब्दम् शुश्राव भैरवम् ॥६-३३-२०॥
Vālmīki 6.33.21
दण्ड निर्घात वादिन्याः श्रुत्वा भेर्या महा स्वनम् ।उवाच सरमा सीताम् इदम् मधुर भाषिणी ॥६-३३-२१॥
Vālmīki 6.33.22
सम्नाह जननी ह्य् एषा भैरवा भीरु भेरिका ।भेरी नादम् च गम्भीरम् शृणु तोयद निस्वनम् ॥६-३३-२२॥
Vālmīki 6.33.23
कल्प्यन्ते मत्त मातम्गा युज्यन्ते रथ वाजिनः ।तत्र तत्र च सम्नद्धाः सम्पतन्ति पदातयः ॥६-३३-२३॥
Vālmīki 6.33.24
तत्र तत्र च सन्नद्धाः सम्पतन्ति सहस्रशः ।आपूर्यन्ते राज मार्गाः सैन्यैर् अद्भुत दर्शनैः ।। ६-३३-२४। ॥६-३३-२४॥
Vālmīki 6.33.25
वेगवद्भिर् नदद्भिश्च तोय ओघैर् इव सागरः ।शास्त्राणाम् च प्रसन्नानाम् चर्मणाम् वर्मणाम् तथा ॥६-३३-२५॥
Vālmīki 6.33.26
रथ वाजि गजानाम् च भूषितानाम् च रक्षसाम् ।सम्भ्रमो रक्षसामेष हृषितानाम् तरस्विनाम् ॥६-३३-२६॥
Vālmīki 6.33.27
प्रभाम् विसृजताम् पश्य नाना वर्णाम् समुत्थिताम् ।वनम् निर्दहतो धर्मे यथा रूपम् विभावसोः ॥६-३३-२७॥
Vālmīki 6.33.28
घण्टानाम् शृणु निर्घोषम् रथानाम् शृणु निस्वनम् ।हयानाम् हेषमाणानाम् शृणु तूर्य ध्वनिम् यथा ॥६-३३-२८॥
Vālmīki 6.33.29
उद्यत आयुध हस्तानाम् राक्षस इन्द्र अनुयायिनाम् ।सम्भ्रमो रक्षसाम् एष तुमुलो लोम हर्षणः ॥६-३३-२९॥
Vālmīki 6.33.30
श्रीस् त्वाम् भजति शोकघ्नी रक्षसाम् भयम् आगतम् ।रामात् कमल पत्र अक्षि दैत्यानाम् इव वासवात् ॥६-३३-३०॥
Vālmīki 6.33.31
अवजित्य जित क्रोधस् तम् अचिन्त्य पराक्रमः ।रावणम् समरे हत्वा भर्ता त्वा अधिगमिष्यति ॥६-३३-३१॥
Vālmīki 6.33.32
विक्रमिष्यति रक्षह्सु भर्ता ते सह लक्ष्मणः ।यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः ॥६-३३-३२॥
Vālmīki 6.33.33
आगतस्य हि रामस्य क्षिप्रम् अन्क गताम् सतीम् ।अहम् द्रक्ष्यामि सिद्ध अर्थाम् त्वाम् शत्रौ विनिपातिते ॥६-३३-३३॥
Vālmīki 6.33.34
अश्रूण्य् आनन्दजानि त्वम् वर्तयिष्यसि शोभने ।समागम्य परिष्वक्ता तस्य उरसि महा उरसः ॥६-३३-३४॥
Vālmīki 6.33.35
अचिरान् मोक्ष्यते सीते देवि ते जघनम् गताम् ।धृताम् एताम् बहून् मासान् वेणीम् रामो महा बलः ॥६-३३-३५॥
Vālmīki 6.33.36
तस्य दृष्ट्वा मुखम् देवि पूर्ण चन्द्रम् इव उदितम् ।मोक्ष्यसे शोकजम् वारि निर्मोकम् इव पन्नगी ॥६-३३-३६॥
Vālmīki 6.33.37
रावणम् समरे हत्वा नचिराद् एव मैथिलि ।त्वया समग्रम् प्रियया सुख अर्हो लप्स्यते सुखम् ॥६-३३-३७॥
Vālmīki 6.33.38
समागता त्वम् रामेण मोदिष्यसि महात्मना ।सुवर्षेण समायुक्ता यथा सस्येन मेदिनी ॥६-३३-३८॥
Vālmīki 6.33.39
गिरि वरम् अभितो अनुवर्तमानो ।हय इव मण्डलम् आशु यः करोति ।तम् इह शरणम् अभ्युपेहि देविदिवस करम् प्रभवो ह्ययम् प्रजानाम् ॥६-३३-३९॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷