🪷 युद्धकाण्ड · Sarga 32

Yuddha-Kāṇḍa · The Book of War · Sarga 32 · 44 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.32.1
सा सीता तच्चिरो दृष्ट्वा तच् च कार्मुकम् उत्तमम् । ।सुग्रीव प्रतिसंसर्गम् आख्यातम् च हनूमता ॥६-३२-१॥
Vālmīki 6.32.2
नयने मुख वर्णम् च भर्तुस् तत् सदृशम् मुखम् ।केशान् केश अन्त देशम् च तम् च चूडा मणिम् शुभम् ॥६-३२-२॥
Vālmīki 6.32.3
एतैह् सर्वैर् अभिज्नानैर् अभिज्नाय सुदुह्खिता ।विजगर्हे अथ कैकेयीम् क्रोशन्ती कुररी यथा ॥६-३२-३॥
Vālmīki 6.32.4
सकामा भव कैकेयि हतो अयम् कुल नन्दनः ।कुलम् उत्सादितम् सर्वम् त्वया कलह शीलया ॥६-३२-४॥
Vālmīki 6.32.5
आर्येण किम् नु कैकेय्याः कृतम् रामेण विप्रियम् ।यन्मया चीर वसनस् तया प्रस्थापितो वनम् ॥६-३२-५॥
Vālmīki 6.32.6
एवम् उक्त्वा तु वैदेही वेपमाना तपस्विनी ।जगाम जगतीम् बाला चिन्ना तु कदली यथा ॥६-३२-६॥
Vālmīki 6.32.7
सा मुहूर्तात् समाश्वस्य प्रतिलभ्य च चेतनाम् ।तत् शिरह् समुपाघ्राय विललाप आयत ईक्षणा ॥६-३२-७॥
Vālmīki 6.32.8
हा हता अस्मि महा बाहो वीर व्रतम् अनुव्रता ।इमाम् ते पश्चिम अवस्थाम् गता अस्मि विधवा कृता ॥६-३२-८॥
Vālmīki 6.32.9
प्रथमम् मरणम् नार्या भर्तुर् वैगुण्यम् उच्यते ।सुवृत्तः साधु वृत्तायाः सम्वृत्तस् त्वम् मम अग्रतः ॥६-३२-९॥
Vālmīki 6.32.10
दुह्खाद् दुह्कःअम् प्रपन्नाया मग्नायाः शोक सागरे ।यो हि माम् उद्यतस् त्रातुम् सो अपि त्वम् विनिपातितः ॥६-३२-१०॥
Vālmīki 6.32.11
सा श्वश्रूर् मम कौसल्या त्वया पुत्रेण राघव ।वत्सेन इव यथा धेनुर् विवत्सा वत्सला कृता ॥६-३२-११॥
Vālmīki 6.32.12
उदिष्टम् दीर्घम् आयुस् ते यैर् अचिन्त्य पराक्रम ।अनृतम् वचनम् तेषाम् अल्प आयुर् असि राघव ॥६-३२-१२॥
Vālmīki 6.32.13
अथ वा नश्यति प्रज्ना प्राज्नस्य अपि सतस् तव ।पचत्य् एनम् तथा कालो भूतानाम् प्रभवो ह्ययम् ॥६-३२-१३॥
Vālmīki 6.32.14
अदृष्टम् मृत्युम् आपन्नः कस्मात् त्वम् नय शास्त्रवित् ।व्यसनानाम् उपायज्नः कुशलो ह्यसि वर्जने ॥६-३२-१४॥
Vālmīki 6.32.15
तथा त्वम् सम्परिष्वज्य रौद्रया अतिनृशंसया ।काल रात्र्या मया आच्चिद्य हृतः कमल लोचन ॥६-३२-१५॥
Vālmīki 6.32.16
उपशेषे महा बाहो माम् विहाय तपस्विनीम् ।प्रियाम् इव शुभाम् नारीम् पृथिवीम् पुरुष ऋषभ ॥६-३२-१६॥
Vālmīki 6.32.17
अर्चितम् सततम् यत्नाद् गन्ध माल्यैर् मया तव ।इदम् ते मत् प्रियम् वीर धनुः कान्चन भूषितम् ॥६-३२-१७॥
Vālmīki 6.32.18
पित्रा दशरथेन त्वम् श्वशुरेण मम अनघ ।पूर्वैसः च पितृभिः सार्धम् नूनम् स्वर्गे समागतः ॥६-३२-१८॥
Vālmīki 6.32.19
दिवि नक्षत्र भूतस् त्वम् महत् कर्म कृतम् प्रियम् ।पुण्यम् राज ऋषि वंशम् त्वम् आत्मनः समुपेक्षसे ॥६-३२-१९॥
Vālmīki 6.32.20
किम् मान् न प्रेक्षसे राजन् किम् माम् न प्रतिभाषसे ।बालाम् बालेन सम्प्राप्ताम् भार्याम् माम् सह चारिणीम् ॥६-३२-२०॥
Vālmīki 6.32.21
संश्रुतम् गृह्णता पाणिम् चरिष्यामि इति यत् त्वया ।स्मर तन् मम काकुत्स्थ नय माम् अपि दुह्खिताम् ॥६-३२-२१॥
Vālmīki 6.32.22
कस्मान् माम् अपहाय त्वम् गतो गतिमताम् वर ।अस्माल् लोकाद् अमुम् लोकम् त्यक्त्वा माम् इह दुह्खिताम् ॥६-३२-२२॥
Vālmīki 6.32.23
कल्याणैर् उचितम् यत् तत् परिष्वक्तम् मया एव तु ।क्रव्य अदैस् तत् शरीरम् ते नूनम् विपरिकृष्यते ॥६-३२-२३॥
Vālmīki 6.32.24
अग्निष्तोम आदिभिर् यज्नैर् इष्टवान् आप्त दक्षिणैः ।अग्नि होत्रेण संस्कारम् केन त्वम् तु न लप्स्यसे ॥६-३२-२४॥
Vālmīki 6.32.25
प्रव्रज्याम् उपपन्नानाम् त्रयाणाम् एकम् आगतम् ।परिप्रक्ष्यति कौसल्या लक्ष्मणम् शोक लालसा ॥६-३२-२५॥
Vālmīki 6.32.26
स तस्याः परिपृच्चन्त्या वधम् मित्र बलस्य ते ।तव च आख्यास्यते नूनम् निशायाम् राक्षसैर् वधम् ॥६-३२-२६॥
Vālmīki 6.32.27
सा त्वाम् सुप्तम् हतम् श्रुत्वा माम् च रक्षो गृहम् गताम् ।हृदयेन विदीर्णेन न भविष्यति राघव ॥६-३२-२७॥
Vālmīki 6.32.28
मम हेतोरनार्याया अवघः पार्थिवात्मजः ।रामः सागमुत्तीर्य वीर्यवान् गोष्पदे हतः ॥६-३२-२८॥
Vālmīki 6.32.29
अहम् दाशरथेनोढा मोहात्स्वकुपांसनी ।आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत ॥६-३२-२९॥
Vālmīki 6.32.30
मानमाव्याम् मया जातिम् वारितम् दानमुत्तमम् ।याहमद्येह शोचामि भार्या सर्वातिथेरपि ॥६-३२-३०॥
Vālmīki 6.32.31
साधु पातय माम् क्षिप्रम् रामस्य उपरि रावणः ।समानय पतिम् पत्न्या कुरु कल्याणम् उत्तमम् ॥६-३२-३१॥
Vālmīki 6.32.32
शिरसा मे शिरसः च अस्य कायम् कायेन योजय ।रावण अनुगमिष्यामि गतिम् भर्तुर् महात्मनः ॥६-३२-३२॥
Vālmīki 6.32.33
इति सा दुह्ख सम्तप्ता विललाप आयत ईक्षणा ।भर्तुः शिरो धनुस् तत्र समीक्ष्य जनक आत्मजा ॥६-३२-३३॥
Vālmīki 6.32.34
एवम् लालप्यमानायाम् सीतायाम् तत्र राक्षसः ।अभिचक्राम भर्तारम् अनीकस्थः क्ऱ्त अन्जलिः ॥६-३२-३४॥
Vālmīki 6.32.35
विजयस्व आर्य पुत्र इति सो अभिवाद्य प्रसाद्य च ।न्यवेदयद् अनुप्राप्तम् प्रहस्तम् वाहिनी पतिम् ॥६-३२-३५॥
Vālmīki 6.32.36
अमात्यैः स हितः सर्वैः प्रहस्तस्त्वामुपस्थितः ।तेन दर्शनकामेन अहम् प्रस्थापितः प्रभो ॥६-३२-३६॥
Vālmīki 6.32.37
मानमस्ति महारा ज राजभावात् क्षमान्वित ।किंचिद् आत्ययिकम् कार्यम् तेषाम् त्वम् दर्शनम् कुरु ॥६-३२-३७॥
Vālmīki 6.32.38
एतत् श्रुत्वा दशग्रीवो राक्षस प्रतिवेदितम् ।अशोक वनिकाम् त्यक्त्वा मन्त्रिणाम् दर्शनम् ययौ ॥६-३२-३८॥
Vālmīki 6.32.39
स तु सर्वम् समर्थ्य एव मन्त्रिभिः क्ऱ्त्यम् आत्मनः ।सभाम् प्रविश्य विदधे विदित्वा राम विक्रमम् ॥६-३२-३९॥
Vālmīki 6.32.40
अन्तर्धानम् तु तत् शीर्षम् तच् च कार्मुकम् उत्तमम् ।जगाम रावणस्य एव निर्याण समनन्तरम् ॥६-३२-४०॥
Vālmīki 6.32.41
राक्षस इन्द्रस् तु तैः सार्धम् मन्त्रिभिर् भीम विक्रमैः ।समर्थयाम् आस तदा राम कार्य विनिश्चयम् ॥६-३२-४१॥
Vālmīki 6.32.42
अविदूर स्थितान् सर्वान् बल अध्यक्षान् हित एषिणः ।अब्रवीत् काल सद्ऱ्शो रावणो राक्षस अधिपः ॥६-३२-४२॥
Vālmīki 6.32.43
शीघ्रम् भेरी निनादेन स्फुट कोण आहतेन मे ।समानयध्वम् सैन्यानि वक्तव्यम् च न कारणम् ॥६-३२-४३॥
Vālmīki 6.32.44
ततस् तथा इति प्रतिगृह्य तद् वचो ।स्तदैव दूताः सहसा महाद्बलम् ।समानयंसः चैव समागतम् च ते ।न्यवेदयन् भर्तरि युद्ध कान्क्षिणि ॥६-३२-४४॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷