🪷 युद्धकाण्ड · Sarga 31
Yuddha-Kāṇḍa · The Book of War · Sarga 31 · 46 ślokas
🪷 Devanāgarī Ślokas
ततस्तमक्षोभ्यबलंलङ्काधिपतयेचराः ।सुवेलेराघवंशैलेनिविष्टंप्रत्यवेदयन् ॥६-३१-१॥
चाराणांरावणश्श्रुत्वाप्राप्तंरामंमहाबलम् ।जातोद्वेगोऽभवत्किञ्चित्सचिवानिदमब्रवीत् ॥६-३१-२॥
मन्त्रिणश्शीघ्रमायान्तुसर्वेवैसुसमाहिताः ।अयंनोमन्त्रकालोहिसम्प्रप्ताइतिराक्षसाः ॥६-३१-३॥
तस्यतद्वचनंश्रुत्वामन्त्रिणोऽभ्यागमन् द्रुतम् ।ततस्समन्त्रयामासराक्षसैस्सचिवैस्सह ॥६-३१-४॥
मन्त्रयित्वासदुर्धर्षःक्षमंयत्समनन्तरम् ।विसर्जयित्वासचिवान्प्रविवेशस्वमालयम् ॥६-३१-५॥
ततोराक्षसमाहूयविद्युज्जिह्वंमहाबलम् ।मायाविदंमहामायःप्राविशद्यत्रमैथिली ॥६-३१-६॥
विद्युज्जिह्वंचमायाज्ञमब्रवीद्राक्षसाधिपः ।मोहयिष्यावहेसीतांमाययाजनकात्मजाम् ॥६-३१-७॥
शिरोमायामयंगृह्यराघवस्यनिशाचर: ।त्वंमांसमुतिष्ठस्वमहच्चसशरंधनुः ॥६-३१-८॥
एवमुक्तस्तथेत्याहविद्युज्जिह्वोनिशाचरः ।दर्शयामासतांमायांसुप्रयुक्तांसरावणे ॥६-३१-९॥
अशोकवनिकायांतुसीतादर्शनलालसः ।वैरृतानामधिपतिस्संविवेशमहाबलः ॥६-३१-१०॥
ततोदीनामदैन्यार्हांददर्शधनदानुजः ॥६-३१-११॥
अधोमुखींशोकपरामुपविष्टांमहीतले ।भर्तारमेवध्यायन्तीमशोकवविकांगताम् ॥६-३१-१२॥
उपास्यमानांघोराभीराक्षसीभिरितस्ततः ।उपसृत्यततस्सीतांप्रहर्षंनामकीर्तयन् ॥६-३१-१३॥
सान्त्व्यमानामयाभद्रेयमुपाश्रित्यवल्गसे ।खरहन्तासतेभर्ताराघवस्समरेहतः ॥६-३१-१४॥
छिन्नंतेसर्वतोमूलंदर्पस्तेनिहतोमया ।व्यसनेनात्मनस्सीते ममभार्याभविष्यसि ॥६-३१-१५॥
विसृजेमांमतिंमूढे: किंमृतेनकरिष्यसि ।भवस्वभद्रे: भार्याणांसर्वेसामीश्वरीमम ॥६-३१-१६॥
अल्पपुण्ये: निवृत्तार्थे: मूढे: पण्डितमानिनि: ।शृणुभर्तृवधंसीते: घोरंवृत्रवधंयथा ॥६-३१-१७॥
समायातस्समुद्रान्तंमांहन्तुंकिलराघवः ।वानरेन्द्रप्रणीतेनबलेनमहतावृतः ॥६-३१-१८॥
सन्निविष्टस्समुद्रस्यपीड्यतीरमथोत्तरम् ।बलेनमहतारामोव्रजत्यस्तंदिवाकरे ॥६-३१-१९॥
अथाध्वनिपरिश्रान्तमर्धरात्रेस्थितंबलम् ।सुखसुप्तंसमासाद्यचारित्रंप्रथमंचरैः ॥६-३१-२०॥
तत्प्रहस्तप्रणीतेनबलेनमहतामम ।बलमस्यहतंरात्रौयत्ररामस्सलक्ष्मणः ॥६-३१-२१॥
पट्टसान्परिघांश्चक्रान्दण्डान्महायशान् ।बाणजालानिशूलानिभास्वरान्कूटमुद्गरान् ॥६-३१-२२॥
यष्टीश्चतोमरान् शक्तीश्चक्राणिमुसलानिच ।उद्यम्योद्यम्यरक्षोभिर्वानरेषुनिपातितां ॥६-३१-२३॥
अथसुप्तस्यरामस्यप्रहस्तेनप्रमाथिना ।असक्तंकृतहस्तेनशिरश्छिन्नंमहासिना ॥६-३१-२४॥
विभीषणस्समुत्पत्यनिगृहीतोयदृच्छया ।दिशःप्रव्राजितस्सर्वैस्सर्लक्ष्मणःप्लवगैस्सहा ॥६-३१-२५॥
सुग्रीवोग्रीनयासीतेभग्नयाप्लवगाधिपः ।निरस्तहनुकश्शेतेहनुमान्राक्षसैर्हतः ॥६-३१-२६॥
जाम्बवानथजानुभ्यामुत्पतन्निहतोयुधि ।पट्टसैर्बहुभिश्छिन्नोनिकृत्तःपादपोयथा ॥६-३१-२७॥
मैन्दश्चद्विविदश्चोभौनिहतौवानरर्षभौ ॥६-३१-२८॥
निश्श्वसन्तौरुदन्तौचरुधिरेणसमुक्षितौ ।असिनाव्यायतौछिन्नौमध्येह्यरिनिषूदनौ ॥६-३१-२९॥
अनुतिष्ठतिमेदिन्यांपनसःपनसोयथा ॥६-३१-३०॥
नाराचैर्बहुभिश्चिन्नश्शेतेदर्यांदरीमुखः ।कुमुदस्तुमहातेजानिष्कूजन्सायकै: कृतः ॥६-३१-३१॥
अङ्गदोबहुभिश्छिन्नश्शरैरासाद्यराक्षसैः ।पतितोरुधिरोद्गारीक्षितौनिपतिताङ्गदः ॥६-३१-३२॥
हरयोमथितानागैरथजातैस्तथापरे ।शयितामृदिताश्चाश्वैर्यायुवेगैरिवाम्बुदाः ॥६-३१-३३॥
प्रहृताश्चपरेत्रस्ताहस्यमानाजघन्यतः ।अभिद्रुतास्तुरक्षोभिस्सिंहैरिवमहाद्विपाः ॥६-३१-३४॥
सागरेपतिताःकेचित्केचिग्दगनमाश्रिताः ।ऋक्षावृक्षानुपारूढावानरींवृत्तिमाश्रिताः ॥६-३१-३५॥
सागरस्यचतीरेषुशैलेषुचवनेषुच ।पिङ्गलास्तेविरूपाक्षैर्बहुभिर्बहवोहताः ॥६-३१-३६॥
एवंतवहतोभर्ताससैन्योममसेनया ।क्षतजार्द्रंरजोध्वस्तमिदंचस्याहृतंशिरः ॥६-३१-३७॥
ततःपरमदुर्धर्षोरावणोराक्षसेश्वरः ।सीतायामुपशन्त्यांराक्षसीमिदमब्रवीत् ॥६-३१-३८॥
राक्षसंक्रूरकर्माणंविद्युज्जिह्वंत्वमानय ।येनतद्राघवशिरस्सङ्ग्रामात्स्वयमाहृतम् ॥६-३१-३९॥
विद्युज्जिह्वस्ततोगृह्यशिरस्तत्सशरासनम् ।प्रणामंशिरसाकृत्वारावणस्याग्रतस्थितः ॥६-३१-४०॥
तमब्रवीत्ततोराजारावणोराक्षसंस्थितम् ।विद्युज्जिह्वंमहाजिह्वंसमीपपरिवर्तिनम् ॥६-३१-४१॥
अग्रतःकुरुसीतायाश्शीघ्रंदाशरधेशशिरः ।अवस्थांपश्चिमांभर्तुःकृपणासाधुपश्यतु ॥६-३१-४२॥
एवमुक्तंतुतद्रक्षशशिरस्तत्प्रियदर्शनम् ।उपनिक्षिप्यसीतायाःक्षिप्रमन्तरधीयत ॥६-३१-४३॥
रावणश्चापिचिक्षेपभस्वरंकार्मुकंमहत् ।त्रिषुलोकेषुविख्यातंसीतामिदमुवाचह ॥६-३१-४४॥
इदंतुतवरामस्यकार्मुकंज्यासमायुतम् ।इहप्रहस्तेनानीतंहत्वातंनिशिमानुषम् ॥६-३१-४५॥
सविद्युज्जिह्वेनसहैवतच्छिरोधनुश्चभूमौविनिकीर्यरावणः ।विदेहराजस्यसुतांयशस्विनींततोऽब्रवीत्तांभवमेवशानुगा ॥६-३१-४६॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 30
- Next: Yuddha-Kāṇḍa Sarga 32 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷