🪷 युद्धकाण्ड · Sarga 30

Yuddha-Kāṇḍa · The Book of War · Sarga 30 · 35 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.30.1
ततस्तमक्षोभ्य बलम् लंका अधिपतये चराः ।सुवेले राघवम् शैले निविष्टम् प्रत्यवेदयन् ॥६-३०-१॥।। ॥६-३०-१॥
Vālmīki 6.30.2
चाराणाम् रावणः श्रुत्वा प्राप्तम् रामम् महाबलम् ।जात उद्वेगो अभवत् किम्चित् शार्दूलम् वाक्यम् अब्रवीत् ॥६-३०-२॥।। ॥६-३०-२॥
Vālmīki 6.30.3
अयथावच् च ते वर्णो दीनः च असि निशा चर ।न असि कच्चिद् अमित्राणाम् क्रुद्धानाम् वशम् आगतः ॥६-३०-३॥।। ॥६-३०-३॥
Vālmīki 6.30.4
इति तेन अनुशिष्टस् तु वाचम् मन्दम् उदीरयत् ।तदा राक्षस शार्दूलम् शार्दूलो भय विह्वलः ॥६-३०-४॥।। ॥६-३०-४॥
Vālmīki 6.30.5
न ते चारयितुम् शक्या राजन् वानर पुम्गवाः ।विक्रान्ता बलवन्तः च राघवेण च रक्षिताः ॥६-३०-५॥।। ॥६-३०-५॥
Vālmīki 6.30.6
न अपि सम्भाषितुम् शक्याः सम्प्रश्नो अत्र न लभ्यते ।सर्वतो रक्ष्यते पन्था वानरैः पर्वत उपमैः ॥६-३०-६॥।। ॥६-३०-६॥
Vālmīki 6.30.7
प्रविष्ट मात्रे ज्ञातो अहम् बले तस्मिन्न् अचारिते ।बलाद् गृहीतो बहुभिर् बहुधा अस्मि विदारितः ॥६-३०-७॥।। ॥६-३०-७॥
Vālmīki 6.30.8
जानुभिर् मुष्टिभिर् दन्तैस् तलैः च अभिहतो भृशम् ।परिणीतो अस्मि हरिभिर् बलवद्भिर् अमर्षणैः ॥६-३०-८॥।। ॥६-३०-८॥
Vālmīki 6.30.9
परिणीय च सर्वत्र नीतो अहम् राम सम्सदम् ।रुधिर आदिग्ध सर्व अन्गो विह्वलः चलित इन्द्रियः ॥६-३०-९॥।। ॥६-३०-९॥
Vālmīki 6.30.10
हरिभिर् वध्यमानः च याचमानः कृत अन्जलिः ।राघवेण परित्रातो जीवामि ह यदृच्चया ॥६-३०-१०॥।। ॥६-३०-१०॥
Vālmīki 6.30.11
एष शैलैः शिलाभिः च पूरयित्वा महाअर्णवम् ।द्वारम् आश्रित्य लंकाया रामस् तिष्ठति सायुधः ॥६-३०-११॥।। ॥६-३०-११॥
Vālmīki 6.30.12
गरुड व्यूहम् आस्थाय सर्वतो हरिभिर् वृतः ।माम् विसृज्य महातेजा लंकाम् एव अभिवर्तते ॥६-३०-१२॥।। ॥६-३०-१२॥
Vālmīki 6.30.13
पुरा प्राकारम् आयाति क्षिप्रम् एकतरम् कुरु ।सीताम् च अस्मै प्रयच्च आशु सुयुद्धम् वा प्रदीयताम् ॥६-३०-१३॥।। ॥६-३०-१३॥
Vālmīki 6.30.14
मनसा सम्तताप अथ तत् श्रुत्वा राक्षस अधिपः ।शार्दूलस्य महद् वाक्यम् अथ उवाच स रावणः ॥६-३०-१४॥।। ॥६-३०-१४॥
Vālmīki 6.30.15
यदि माम् प्रतियुध्येरन् देव गन्धर्व दानवाः ।न एव सीताम् प्रदास्यामि सर्व लोक भयाद् अपि ॥६-३०-१५॥।। ॥६-३०-१५॥
Vālmīki 6.30.16
एवम् उक्त्वा महातेजा रावणः पुनर् अब्रवीत् ।चारिता भवता सेना के अत्र शूराः प्लवम् गमाः ॥६-३०-१६॥।। ॥६-३०-१६॥
Vālmīki 6.30.17
कीदृशाः किम् प्रभावाः च वानरा ये दुरासदाः ।कस्य पुत्राः च पौत्राः च तत्त्वम् आख्याहि राक्षस ॥६-३०-१७॥।। ॥६-३०-१७॥
Vālmīki 6.30.18
तथात्र प्रतिपत्स्यामि ज्ञात्वा तेषाम् बल अबलम् ।अवश्यम् बल सम्ख्यानम् कर्तव्यम् युद्धम् इच्चता ॥६-३०-१८॥।। ॥६-३०-१८॥
Vālmīki 6.30.19
अथ एवम् उक्तः शार्दूलो रावणेन उत्तमः चरः ।इदम् वचनम् आरेभे वक्तुम् रावण सम्निधौ ॥६-३०-१९॥।। ॥६-३०-१९॥
Vālmīki 6.30.20
अथ ऋक्ष रजसः पुत्रो युधि राजन् सुदुर्जयः ।गद्गदस्य अथ पुत्रो अत्र जाम्बवान् इति विश्रुतः ॥६-३०-२०॥।। ॥६-३०-२०॥
Vālmīki 6.30.21
गद्गदस्य एव पुत्रो अन्यो गुरु पुत्रः शत क्रतोः ।कदनम् यस्य पुत्रेण कृतम् एकेन रक्षसाम् ॥६-३०-२१॥।। ॥६-३०-२१॥
Vālmīki 6.30.22
सुषेणः च अपि धर्म आत्मा पुत्रो धर्मस्य वीर्यवान् ।सौम्यः सोम आत्मजः च अत्र राजन् दधि मुखः कपिः ॥६-३०-२२॥।। ॥६-३०-२२॥
Vālmīki 6.30.23
सुमुखो दुर्मुखः च अत्र वेग दर्शी च वानरः ।मृत्युर् वानर रूपेण नूनम् सृष्टः स्वयम्भुवा ॥६-३०-२३॥।। ॥६-३०-२३॥
Vālmīki 6.30.24
पुत्रो हुत वहस्य अथ नीलः सेना पतिः स्वयम् ।अनिलस्य च पुत्रो अत्र हनूमान् इति विश्रुतः ॥६-३०-२४॥।। ॥६-३०-२४॥
Vālmīki 6.30.25
नप्ता शक्रस्य दुर्धर्षो बलवान् अन्गदो युवा ।मैन्दः च द्विविदः च उभौ बलिनाव् अश्वि सम्भवौ ॥६-३०-२५॥।। ॥६-३०-२५॥
Vālmīki 6.30.26
पुत्रा वैवस्वतस्य अत्र पन्च काल अन्तक उपमाः ।गजो गव अक्षो गवयः शरभो गन्ध मादनः ॥६-३०-२६॥।। ॥६-३०-२६॥
Vālmīki 6.30.27
दश वानरकोट्यश्च शूराणाम् युद्धकाङ्ग्क्षिणाम् ।श्रीमताम् देवपुत्राणाम् शेषम् नाख्यातुमुत्सहे ॥६-३०-२७॥।। ॥६-३०-२७॥
Vālmīki 6.30.28
पुत्रो दशरथस्येष सिम्हसम्हननो युवा ।दूषणो निहतो येन खरश्च त्रिशिरास्तथा ॥६-३०-२८॥।। ॥६-३०-२८॥
Vālmīki 6.30.29
नास्ति रामस्य सदृशो विक्रमे भुवि कश्चन ।विराधो निहतो येन कबन्धश्चान्तकोपमः ॥६-३०-२९॥।। ॥६-३०-२९॥
Vālmīki 6.30.30
वक्तुम् न शक्तो रामस्य गुणान् कश्चिन्नरः क्षितौ ।जनस्थानगता येन तावन्तो राक्षसा हताः ॥६-३०-३०॥।। ॥६-३०-३०॥
Vālmīki 6.30.31
लक्ष्मणश्चात्र धर्मात्मा मातङ्गवामिवर्षभः ।यस्य बाणपथम् प्राप्य व जीवेदपि वासवः ॥६-३०-३१॥।। ॥६-३०-३१॥
Vālmīki 6.30.32
श्वेतो ज्योतिर् मुखः च अत्र भास्करस्य आत्म सम्भवौ ।वरुणस्य च पुत्रो अथ हेम कूटः प्लवम् गमः ॥६-३०-३२॥।। ॥६-३०-३२॥
Vālmīki 6.30.33
विश्व कर्म सुतो वीरो नलः प्लवग सत्तमः ।विक्रान्तो वेगवान् अत्र वसु पुत्रः सुदुर्धरः ॥६-३०-३३॥।। ॥६-३०-३३॥
Vālmīki 6.30.34
राक्षसानाम् वरिष्ठः च तव भ्राता विभीषणः ।परिगृह्य पुरीम् लंकाम् राघवस्य हिते रतः॥६-३०-३४॥।। ॥६-३०-३४॥
Vālmīki 6.30.35
इति सर्वम् समाख्यातम् तव इदम् वानरम् बलम् ।सुवेले अधिष्ठितम् शैले शेष कार्ये भवान् गतिः ॥६-३०-३५॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷