🪷 युद्धकाण्ड · Sarga 29
Yuddha-Kāṇḍa · The Book of War · Sarga 29 · 30 ślokas
🪷 Devanāgarī Ślokas
शुकेन तु समाख्याताम्स् तान् दृष्ट्वा हरि यूथपान् ।लक्ष्मणम् च महावीर्यम् भुजम् रामस्य दक्षिणम् ॥६-२९-१॥।। ॥६-२९-१॥
समीपस्थम् च रामस्य भ्रातरम् स्वम् विभीषणम् ।सर्व वानर राजम् च सुग्रीवम् भीम विक्रमम् ॥६-२९-२॥।। ॥६-२९-२॥
अङ्गदम् चापि बलिनम् वज्रहस्तात्मजात्मजम् ।हनूमन्तम् च विक्रान्तम् जाम्बवन्तम् च दुर्जयम् ॥६-२९-३॥।। ॥६-२९-३॥
सुषेणम् कुमुदम् नीलम् नलम् च प्लवगर्षभम् ।गजम् गवाक्षम् शरभम् वैन्दम् च द्विविदम् तथा ॥६-२९-४॥।। ॥६-२९-४॥
किम्चिद् आविग्न हृदयो जात क्रोधः च रावणः ।भर्त्सयाम् आस तौ वीरौ कथा अन्ते शुक सारणौ ॥६-२९-५॥।। ॥६-२९-५॥
अधो मुखौ तौ प्रणताव् अब्रवीत् शुक सारणौ ।रोष गद्गदया वाचा सम्रब्धः परुषम् वचः ॥६-२९-६॥।। ॥६-२९-६॥
न तावत् सदृशम् नाम सचिवैर् उपजीविभिः ।विप्रियम् नृपतेर् वक्तुम् निग्रह प्रग्रहे विभोः ॥६-२९-७॥।। ॥६-२९-७॥
रिपूणाम् प्रतिकूलानाम् युद्ध अर्थम् अभिवर्तताम् ।उभाभ्याम् सदृशम् नाम वक्तुम् अप्रस्तवे स्तवम् ॥६-२९-८॥।। ॥६-२९-८॥
आचार्या गुरवो वृद्धा वृथा वाम् पर्युपासिताः ।सारम् यद् राज शास्त्राणाम् अनुजीव्यम् न गृह्यते ॥६-२९-९॥।। ॥६-२९-९॥
गृहीतो वा न विज्ञातो भारो ज्ञानस्य वा उच्यते ।ईदृशैः सचिवैर् युक्तो मूर्खैर् दिष्ट्या धरामि अहम् ॥६-२९-१०॥।। ॥६-२९-१०॥
किम् नु मृत्योर् भयम् न अस्ति माम् वक्तुम् परुषम् वचः ।यस्य मे शासतो जिह्वा प्रयच्चति शुभ अशुभम् ॥६-२९-११॥।। ॥६-२९-११॥
अपि एव दहनम् स्पृष्ट्वा वने तिष्ठन्ति पादपाः ।राज दोष परामृष्टास् तिष्ठन्ते न अपराधिनः ॥६-२९-१२॥।। ॥६-२९-१२॥
हन्याम् अहम् इमौ पापौ शत्रु पक्ष प्रशम्सकौ ।यदि पूर्व उपकारैर् मे न क्रोधो मृदुताम् व्रजेत् ॥६-२९-१३॥।। ॥६-२९-१३॥
अपध्वम्सत गच्चध्वम् सम्निकर्षाद् इतो मम ।न हि वाम् हन्तुम् इच्चामि स्मरन्न् उपकृतानि वाम् ॥६-२९-१४॥।। ॥६-२९-१४॥
हताव् एव कृतघ्नौ तौ मयि स्नेह परान् मुखौ ।एवम् उक्तौ तु सव्रीडौ ताव् उभौ शुक सारणौ ॥६-२९-१५॥।। ॥६-२९-१५॥
रावणम् जय शब्देन प्रतिनन्द्य अभिनिह्सृतौ ।अब्रवीत् स दशग्रीवः समीपस्थम् महाउदरम् ॥६-२९-१६॥।। ॥६-२९-१६॥
उपस्थापय शीघ्रम् मे चारान् नीति विशारदान् ।महोदरस्तथोक्तस्तु शीघ्रमाज्ञापयच्चरान् ॥६-२९-१७॥।। ॥६-२९-१७॥
ततश्चाराः सम्त्वरिताः प्राप्ताः पार्थिवशासनात् ।उपस्थिथाः प्राञ्जलयो वर्धयित्वा जयाशिषः ॥६-२९-१८॥।। ॥६-२९-१८॥
तान् अब्रवीत् ततो वाक्यम् रावणो राक्षस अधिपः ॥६-२९-१९॥।। ॥६-२९-१९॥
चारान् प्रत्ययिकान् शूरान् भक्तान् विगत साध्वसान् ।इतो गच्चत रामस्य व्यवसायम् परीक्षथ ॥६-२९-२०॥।। ॥६-२९-२०॥
मन्त्रेष्व् अभ्यन्तरा ये अस्य प्रीत्या तेन समागताः ।कथम् स्वपिति जागर्ति किम् अन्यच् च करिष्यति ॥६-२९-२१॥।। ॥६-२९-२१॥
विज्ञाय निपुणम् सर्वम् आगन्तव्यम् अशेषतः ।चारेण विदितः शत्रुः पण्डितैर् वसुधा अधिपैः ॥६-२९-२२॥।। ॥६-२९-२२॥
युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते ।चारास् तु ते तथा इति उक्त्वा प्रहृष्टा राक्षस ईश्वरम् ॥६-२९-२३॥।। ॥६-२९-२३॥
शार्दूलमग्रतः कृत्वा ततश्चक्रुः प्रदक्षिणम् ।ततस्तम् तु महात्मानम् चारा राक्षससत्तमम् ॥६-२९-२४॥।। ॥६-२९-२४॥
कृत्वा प्रदक्षिणम् जग्मुर् यत्र रामः सलक्ष्मणः ।ते सुवेलस्य शैलस्य समीपे राम लक्ष्मणौ ॥६-२९-२५॥।। ॥६-२९-२५॥
प्रच्चन्ना ददृशुर् गत्वा ससुग्रीव विभीषणौ ।प्रेक्षमाणाश्चमूम् ताम् च बभूवुर्भयविह्वलाः ॥६-२९-२६॥।। ॥६-२९-२६॥
ते तु धर्म आत्मना दृष्टा राक्षस इन्द्रेण राक्षसाः ।विभीषणेन तत्रस्था निगृहीता यदृच्चया ॥६-२९-२७॥।। ॥६-२९-२७॥
शार्दूलो ग्राहितस्त्वेकः पापोऽयमिति राक्षसः ।मोक्षितः सोऽपि रामेण वध्यमानः प्लवङ्गमैः ॥६-२९-२८॥।। ॥६-२९-२८॥
अनृशम्सेन रामेण मोक्षिता राक्षसाः सरे ।वानरैर् अर्दितास् ते तु विक्रान्तैर् लघु विक्रमैः ॥६-२९-२९॥।। ॥६-२९-२९॥
पुनर् लंकाम् अनुप्राप्ताः श्वसन्तो नष्ट चेतसः ।ततो दशग्रीवम् उपस्थितास् ते ।चारा बहिर् नित्य चरा निशा चराः ।गिरेः सुवेलस्य समीप वासिनम् ।न्यवेदयन् भीम बलम् महाबलाः ॥६-२९-३०॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 28
- Next: Yuddha-Kāṇḍa Sarga 30 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷