🪷 युद्धकाण्ड · Sarga 28

Yuddha-Kāṇḍa · The Book of War · Sarga 28 · 44 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.28.1
सारणस्य वचः श्रुत्वा रावणम् राक्षस अधिपम् ।बलम् आलोकयन् सर्वम् शुको वाक्यम् अथ अब्रवीत् ॥६-२८-१॥।। ॥६-२८-१॥
Vālmīki 6.28.2
स्थितान् पश्यसि यान् एतान् मत्तान् इव महाद्विपान् ।न्यग्रोधान् इव गान्गेयान् सालान् हैमवतीन् इव ॥६-२८-२॥।। ॥६-२८-२॥
Vālmīki 6.28.3
एते दुष्प्रसहा राजन् बलिनः काम रूपिणः ।दैत्य दानव सम्काशा युद्धे देव पराक्रमाः ॥६-२८-३॥।। ॥६-२८-३॥
Vālmīki 6.28.4
एषाम् कोटि सहस्राणि नव पन्च च सप्त च ।तथा शन्ख सहस्राणि तथा वृन्द शतानि च ॥६-२८-४॥।। ॥६-२८-४॥
Vālmīki 6.28.5
एते सुग्रीव सचिवाः किष्किन्धा निलयाः सदा ।हरयो देव गन्धर्वैर् उत्पन्नाः काम रूपिणः ॥६-२८-५॥।। ॥६-२८-५॥
Vālmīki 6.28.6
यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देव रूपिणौ ।मैन्दः च द्विविदः च उभौ ताभ्याम् न अस्ति समो युधि ॥६-२८-६॥।। ॥६-२८-६॥
Vālmīki 6.28.7
ब्रह्मणा समनुज्ञाताव् अमृत प्राशिनाव् उभौ ।आशम्सेते युधा लंकाम् एतौ मर्दितुम् ओजसा ॥६-२८-७॥।। ॥६-२८-७॥
Vālmīki 6.28.8
यम् तु पश्यसि तिष्ठन्तम् प्रभिन्नम् इव कुन्जरम् ।यो बलात् क्षोभयेत् क्रुद्धः समुद्रम् अपि वानरः ॥६-२८-८॥।। ॥६-२८-८॥
Vālmīki 6.28.9
एषो अभिगन्ता लंकाया वैदेह्यास् तव च प्रभो ।एनम् पश्य पुरा दृष्टम् वानरम् पुनर् आगतम् ॥६-२८-९॥।। ॥६-२८-९॥
Vālmīki 6.28.10
ज्येष्ठः केसरिणः पुत्रो वात आत्मज इति श्रुतः ।हनूमान् इति विख्यातो लन्घितो येन सागरः ॥६-२८-१०॥।। ॥६-२८-१०॥
Vālmīki 6.28.11
काम रूपी हरि श्रेष्ठो बल रूप समन्वितः ।अनिवार्य गतिः चैव यथा सततगः प्रभुः ॥६-२८-११॥।। ॥६-२८-११॥
Vālmīki 6.28.12
उद्यन्तम् भास्करम् दृष्ट्वा बालः किल पिपासितः ।त्रियोजन सहस्रम् तु अध्वानम् अवतीर्य हि ॥६-२८-१२॥।। ॥६-२८-१२॥
Vālmīki 6.28.13
आदित्यम् आहरिष्यामि न मे क्षुत् प्रतियास्यति ।इति सम्चिन्त्य मनसा पुरा एष बल दर्पितः ॥६-२८-१३॥।। ॥६-२८-१३॥
Vālmīki 6.28.14
अनाधृष्यतमम् देवम् अपि देव ऋषि दानवैः ।अनासाद्य एव पतितो भास्कर उदयने गिरौ ॥६-२८-१४॥।। ॥६-२८-१४॥
Vālmīki 6.28.15
पतितस्य कपेर् अस्य हनुर् एका शिला तले ।किम्चिद् भिन्ना दृढ हनोर् हनूमान् एष तेन वै ॥६-२८-१५॥।। ॥६-२८-१५॥
Vālmīki 6.28.16
सत्यम् आगम योगेन मम एष विदितो हरिः ।न अस्य शक्यम् बलम् रूपम् प्रभावो वा अनुभाषितुम् ॥६-२८-१६॥।। ॥६-२८-१६॥
Vālmīki 6.28.17
एष आशम्सते लंकाम् एको मर्दितुम् ओजसा ।येव जाज्वल्यतेऽसौ वै धूमकेतुस्तवाद्य वै ॥६-२८-१७॥।। ॥६-२८-१७॥
Vālmīki 6.28.18
लंकायाम् निहितश्चापि कथम् विस्मरसे कसिम् ।यः च एषो अनन्तरः शूरः श्यामः पद्म निभ ईक्षणः ॥६-२८-१८॥।। ॥६-२८-१८॥
Vālmīki 6.28.19
इक्ष्वाकूणाम् अतिरथो लोके विख्यात पौरुषः ।यस्मिन् न चलते धर्मो यो धर्मम् न अतिवर्तते ॥६-२८-१९॥।। ॥६-२८-१९॥
Vālmīki 6.28.20
यो ब्राह्मम् अस्त्रम् वेदामः च वेद वेदविदाम् वरः ।यो भिन्द्याद् गगनम् बाणैः पर्वतामः च अपि दारयेत् ॥६-२८-२०॥।। ॥६-२८-२०॥
Vālmīki 6.28.21
यस्य मृत्योर् इव क्रोधः शक्रस्य इव पराक्रमः ।यस्य भार्या जन्स्थानात्सीता चापि हृता त्वया ॥६-२८-२१॥।। ॥६-२८-२१॥
Vālmīki 6.28.22
स एष रामस् त्वाम् योद्धुम् राजन् समभिवर्तते ।यः च एष दक्षिणे पार्श्वे शुद्ध जाम्बू नद प्रभः ॥६-२८-२२॥।। ॥६-२८-२२॥
Vālmīki 6.28.23
विशाल वक्षास् ताम्र अक्षो नील कुन्चित मूर्धजः ।एषो अस्य लक्ष्मणो नाम भ्राता प्राण समः प्रियः ॥६-२८-२३॥।। ॥६-२८-२३॥
Vālmīki 6.28.24
नये युद्धे च कुशलः सर्व शास्त्रभृताम् वरः ।अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ॥६-२८-२४॥।। ॥६-२८-२४॥
Vālmīki 6.28.25
रामस्य दक्षिणो बाहुर् नित्यम् प्राणो बहिः चरः ।न हि एष राघवस्य अर्थे जीवितम् परिरक्षति ॥६-२८-२५॥।। ॥६-२८-२५॥
Vālmīki 6.28.26
एष एव आशम्सते युद्धे निहन्तुम् सर्व राक्षसान् ।यस् तु सव्यम् असौ पक्षम् रामस्य आश्रित्य तिष्ठति ॥६-२८-२६॥।। ॥६-२८-२६॥
Vālmīki 6.28.27
रक्षो गण परिक्षिप्तो राजा हि एष विभीषणः ।श्रीमता राज राजेन लंकायाम् अभिषेचितः ॥६-२८-२७॥।। ॥६-२८-२७॥
Vālmīki 6.28.28
त्वाम् एव प्रतिसम्रब्धो युद्धाय एषो अभिवर्तते ।यम् तु पश्यसि तिष्ठन्तम् मध्ये गिरिम् इव अचलम् ॥६-२८-२८॥।। ॥६-२८-२८॥
Vālmīki 6.28.29
सर्व शाखा मृग इन्द्राणाम् भर्तारम् अपराजितम् ।तेजसा यशसा बुद्ध्या ज्ञानेन अभिजनेन च ॥६-२८-२९॥।। ॥६-२८-२९॥
Vālmīki 6.28.30
यः कपीन् अति बभ्राज हिमवान् इव पर्वतान् ।किष्किन्धाम् यः समध्यास्ते गुहाम् सगहन द्रुमाम् ॥६-२८-३०॥।। ॥६-२८-३०॥
Vālmīki 6.28.31
दुर्गाम् पर्वत दुर्गस्थाम् प्रधानैः सह यूथपैः ।यस्य एषा कान्चनी माला शोभते शत पुष्करा ॥६-२८-३१॥।। ॥६-२८-३१॥
Vālmīki 6.28.32
कान्ता देव मनुष्याणाम् यस्याम् लक्ष्मीः प्रतिष्ठिता ।एताम् च मालाम् ताराम् च कपि राज्यम् च शाश्वतम् ॥६-२८-३२॥।। ॥६-२८-३२॥
Vālmīki 6.28.33
सुग्रीवो वालिनम् हत्वा रामेण प्रतिपादितः ।शतम् शतसहस्राणाम् कोटिमाहुर्मनीषिणः ॥६-२८-३३॥।। ॥६-२८-३३॥
Vālmīki 6.28.34
शतम् कोटिसहस्राणाम् शङ्कुरित्यभिधीयते ।शतम् शङ्कुसहस्राणाम् महाशङ्कुरिति स्मृतः ॥६-२८-३४॥।। ॥६-२८-३४॥
Vālmīki 6.28.35
महाशङ्क्य्सहस्राणाम् शतम् वृन्दमिहोच्यते ।शतम् नृन्दसहस्राणाम् महावृन्दमिति स्मृतम् ॥६-२८-३५॥।। ॥६-२८-३५॥
Vālmīki 6.28.36
महावृन्दसहस्राणाम् शतम् पद्ममिहोच्यते ।शतम् पद्मसहस्राणाम् महापद्ममिति स्मृतम् ॥६-२८-३६॥।। ॥६-२८-३६॥
Vālmīki 6.28.37
महापद्मसहस्राणाम् शतम् खर्वमिहोच्यते ।शतम् खर्वसहस्राणाम् महाखर्वमिति स्मृतम् ॥६-२८-३७॥।। ॥६-२८-३७॥
Vālmīki 6.28.38
महाखर्वसहस्राणाम् समुद्रमभिधीयते ।शतम् समुद्रसाहस्रमोघ इत्यभिधीयते ॥६-२८-३८॥।। ॥६-२८-३८॥
Vālmīki 6.28.39
शतमोघसहस्राणाम् महौघ इति विश्रुतः ।एवम् कोटि सहस्रेण शन्कूनाम् च शतेन च ॥६-२८-३९॥।। ॥६-२८-३९॥
Vālmīki 6.28.40
महाशङ्कुसहस्रेण तथा वृन्दशतेन च ।महावृन्दसहस्रेण तथा पद्मशतेन च ॥६-२८-४०॥।। ॥६-२८-४०॥
Vālmīki 6.28.41
महापद्मसहस्रेण तथा खर्वशतेन च ।समुद्रेण च तेनैव महुघेन तथैव च ॥६-२८-४१॥।। ॥६-२८-४१॥
Vālmīki 6.28.42
एष कोटिमहौघेन समुद्रसदृशेन च ।विभीषणेन वीरेण सचिवैः परिवारितः ॥६-२८-४२॥।। ॥६-२८-४२॥
Vālmīki 6.28.43
सुग्रीवो वानर इन्द्रस् त्वाम् युद्ध अर्थम् अभिवर्तते ।महाबलवृतो नित्यम् महाबलपराक्रमः ॥६-२८-४३॥।। ॥६-२८-४३॥
Vālmīki 6.28.44
इमाम् महाराज समीक्ष्य वाहिनीम् ।उपस्थिताम् प्रज्वलित ग्रह उपमाम् ।ततः प्रयत्नः परमो विधीयताम् ।यथा जयः स्यान् न परैः पराजयः ॥६-२८-४४॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷