🪷 युद्धकाण्ड · Sarga 27

Yuddha-Kāṇḍa · The Book of War · Sarga 27 · 48 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.27.1
ताम्स्तु ते सम्प्रक्ष्यामि प्रेक्षमाणस्य यूथपान् ।राघव अर्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ॥६-२७-१॥।। ॥६-२७-१॥
Vālmīki 6.27.2
स्निग्धा यस्य बहु श्यामा बाला लान्गूलम् आश्रिताः ।ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोर कर्मणः ॥६-२७-२॥।। ॥६-२७-२॥
Vālmīki 6.27.3
प्रगृहीताः प्रकाशन्ते सूर्यस्य इव मरीचयः ।पृथिव्याम् च अनुकृष्यन्ते हरो नाम एष यूथपः ॥६-२७-३॥।। ॥६-२७-३॥
Vālmīki 6.27.4
यम् पृष्ठतो अनुगच्चन्ति शतशो अथ सहस्रशः ।वृक्षानुद्यम्य सहसा लङ्का रोहणतत्पराः ॥६-२७-४॥।। ॥६-२७-४॥
Vālmīki 6.27.5
यूथपा हरिराजस्य किम्कराः समुपस्थिताः ।नीलान् इव महामेघाम्स् तिष्ठतो याम्स् तु पश्यसि ॥६-२७-५॥।। ॥६-२७-५॥
Vālmīki 6.27.6
असितान् जन सम्काशान् युद्धे सत्य पराक्रमान् ।असम्ख्येयान् अनिर्देश्यान् परम् पारम् इव उदधेः ॥६-२७-६॥।। ॥६-२७-६॥
Vālmīki 6.27.7
पर्वतेषु च ये केचिद् विषमेषु नदीषु च ।एते त्वाम् अभिवर्तन्ते राजन्न् ऋष्काः सुदारुणाः ॥६-२७-७॥।। ॥६-२७-७॥
Vālmīki 6.27.8
एषाम् मध्ये स्थितो राजन् भीम अक्षो भीम दर्शनः ।पर्जन्य इव जीमूतैः समन्तात् परिवारितः ॥६-२७-८॥।। ॥६-२७-८॥
Vālmīki 6.27.9
ऋक्षवन्तम् गिरि श्रेष्ठम् अध्यास्ते नर्मदाम् पिबन् ।सर्व ऋक्षाणाम् अधिपतिर् धूम्रो नाम एष यूथपः ॥६-२७-९॥।। ॥६-२७-९॥
Vālmīki 6.27.10
यवीयान् अस्य तु भ्राता पश्य एनम् पर्वत उपमम्भ्रात्रा समानो रूपेण विशिष्टस् तु पराक्रमे ॥६-२७-१०॥।। ॥६-२७-१०॥
Vālmīki 6.27.11
स एष जाम्बवान् नाम महायूथप यूथपः ।प्रशान्तो गुरु वर्ती च सम्प्रहारेष्व् अमर्षणः ॥६-२७-११॥।। ॥६-२७-११॥
Vālmīki 6.27.12
एतेन साह्यम् सुमहत् कृतम् शक्रस्य धीमता ।देव असुरे जाम्बवता लब्धाः च बहवो वराः ॥६-२७-१२॥।। ॥६-२७-१२॥
Vālmīki 6.27.13
आरुह्य पर्वत अग्रेभ्यो महाअभ्र विपुलाः शिलाः ।मुन्चन्ति विपुल आकारा न मृत्योर् उद्विजन्ति च ॥६-२७-१३॥।। ॥६-२७-१३॥
Vālmīki 6.27.14
राक्षसानाम् च सदृशाः पिशाचानाम् च रोमशाः ।एतस्य सैन्ये बहवो विचरन्ति अग्नि तेजसः ॥६-२७-१४॥।। ॥६-२७-१४॥
Vālmīki 6.27.15
यम् त्व् एनम् अभिसम्रब्धम् प्लवमानम् इव स्थितम् ।प्रेक्षन्ते वानराः सर्वे स्थितम् यूथप यूथपम् ॥६-२७-१५॥।। ॥६-२७-१५॥
Vālmīki 6.27.16
एष राजन् सहस्र अक्षम् पर्युपास्ते हरि ईश्वरः ।बलेन बल सम्पन्नो रम्भो नाम एष यूथपः ॥६-२७-१६॥।। ॥६-२७-१६॥
Vālmīki 6.27.17
यः स्थितम् योजने शैलम् गच्चन् पार्श्वेन सेवते ।ऊर्ध्वम् तथैव कायेन गतः प्राप्नोति योजनम् ॥६-२७-१७॥।। ॥६-२७-१७॥
Vālmīki 6.27.18
यस्मान् न परमम् रूपम् चतुष्पादेषु विद्यते ।श्रुतः सम्नादनो नाम वानराणाम् पितामहः ॥६-२७-१८॥।। ॥६-२७-१८॥
Vālmīki 6.27.19
येन युद्धम् तदा दत्तम् रणे शक्रस्य धीमता ।पराजयः च न प्राप्तः सो अयम् यूथप यूथपः ॥६-२७-१९॥।। ॥६-२७-१९॥
Vālmīki 6.27.20
यस्य विक्रममाणस्य शक्रस्य इव पराक्रमः ।एष गन्धर्व कन्यायाम् उत्पन्नः कृष्ण वर्त्मना ॥६-२७-२०॥।। ॥६-२७-२०॥
Vālmīki 6.27.21
तत्र देवासुरे युद्धे साह्यार्थम् त्रिदिवौकसाम् ।यत्र वैश्रवणो राजा जम्बूमुपनिषेवते ॥६-२७-२१॥।। ॥६-२७-२१॥
Vālmīki 6.27.22
यो राजा पर्वत इन्द्राणाम् बहु किम्नर सेविनाम् ।विहार सुखदो नित्यम् भ्रातुस् ते राक्षस अधिप ॥६-२७-२२॥।। ॥६-२७-२२॥
Vālmīki 6.27.23
तत्र एष वसति श्रीमान् बलवान् वानर ऋषभः ।युद्धेष्व् अकत्थनो नित्यम् क्रथनो नाम यूथपः ॥६-२७-२३॥।। ॥६-२७-२३॥
Vālmīki 6.27.24
वृतः कोटि सहस्रेण हरीणाम् समवस्थितः ।एषैवाशम्सते लङ्काम् स्वेनानीकेन मर्दितुम् ॥६-२७-२४॥।। ॥६-२७-२४॥
Vālmīki 6.27.25
यो गङ्गामनुपर्येति त्रासयन् गजयूथपान् ।हस्तिनाम् वानराणाम् च पूर्ववैरमनुस्मरन् ॥६-२७-२५॥।। ॥६-२७-२५॥
Vālmīki 6.27.26
एष यूथपतिर्नेता गर्जन् गिरिगुहाशयः ।गजान् रोधयते वन्यानारुजम्श्च महीरुहान् ॥६-२७-२६॥।। ॥६-२७-२६॥
Vālmīki 6.27.27
हरीणाम् वाहिनी मुख्यो नदीम् हैमवतीम् अनु ।उशीर बीजम् आश्रित्य पर्वतम् मन्दर उपमम् ॥६-२७-२७॥।। ॥६-२७-२७॥
Vālmīki 6.27.28
रमते वानर श्रेष्ठो दिवि शक्र इव स्वयम् ।एनम् शत सहस्राणाम् सहस्रम् अभिवर्तते ॥६-२७-२८॥।। ॥६-२७-२८॥
Vālmīki 6.27.29
वीर्यविक्रमदृप्तानाम् नर्दताम् बाहुशालिनाम् ।स एष नेता न्हैतेषाम् वानराणाम् महात्मनम् ॥६-२७-२९॥।। ॥६-२७-२९॥
Vālmīki 6.27.30
स एष दुर्मर्षणो राजन् प्रमाथी नाम यूथपः ।वातेन इव उद्धतम् मेघम् यम् एनम् अनुपश्यसि ॥६-२७-३०॥।। ॥६-२७-३०॥
Vālmīki 6.27.31
अनीकमपि सम्रब्धम् वानराणाम् तरस्विनाम् ।उद्धूतमरुणाभासम् पवनेन समन्ततः ॥६-२७-३१॥।। ॥६-२७-३१॥
Vālmīki 6.27.32
विवर्तमानम् बहुशो यत्र एतद् बहुलम् रजः ।एते असित मुखा घोरा गो लान्गूला महाबलाः ॥६-२७-३२॥।। ॥६-२७-३२॥
Vālmīki 6.27.33
शतम् शत सहस्राणि दृष्ट्वा वै सेतु बन्धनम् ।गो लान्गूलम् महावेगम् गव अक्षम् नाम यूथपम् ॥६-२७-३३॥।। ॥६-२७-३३॥
Vālmīki 6.27.34
परिवार्य अभिवर्तन्ते लंकाम् मर्दितुम् ओजसा ।भ्रमर आचरिता यत्र सर्व काम फल द्रुमाः ॥६-२७-३४॥।। ॥६-२७-३४॥
Vālmīki 6.27.35
यम् सूर्य तुल्य वर्ण आभम् अनुपर्येति पर्वतम् ।यस्य भासा सदा भान्ति तद् वर्णा मृग पक्षिणः ॥६-२७-३५॥।। ॥६-२७-३५॥
Vālmīki 6.27.36
यस्य प्रस्थम् महात्मानो न त्यजन्ति महर्षयः ।सर्वकामफला वृक्षाः सर्वे फलसमन्विताः ॥६-२७-३६॥।। ॥६-२७-३६॥
Vālmīki 6.27.37
मधूनि च महार्हाणि यस्मिन् पर्वतसत्तमे ।तत्र एष रमते राजन् रम्ये कान्चन पर्वते ॥६-२७-३७॥।। ॥६-२७-३७॥
Vālmīki 6.27.38
मुख्यो वानर मुख्यानाम् केसरी नाम यूथपः ।षष्टिर् गिरि सहस्राणाम् रम्याः कान्चन पर्वताः ॥६-२७-३८॥।। ॥६-२७-३८॥
Vālmīki 6.27.39
तेषाम् मध्ये गिरि वरस् त्वम् इव अनघ रक्षसाम् ।तत्र एते कपिलाः श्वेतास् ताम्र आस्या मधु पिन्गलाः ॥६-२७-३९॥।। ॥६-२७-३९॥
Vālmīki 6.27.40
निवसन्ति उत्तम गिरौ तीक्ष्ण दम्ष्ट्रा नख आयुधाः ।सिम्ह इव चतुर् दम्ष्ट्रा व्याघ्रा इव दुरासदाः ॥६-२७-४०॥।। ॥६-२७-४०॥
Vālmīki 6.27.41
सर्वे वैश्वनर समा ज्वलित आशी विष उपमाः ।सुदीर्घ अन्चित लान्गूला मत्त मातम्ग सम्निभाः ॥६-२७-४१॥।। ॥६-२७-४१॥
Vālmīki 6.27.42
महापर्वत सम्काशा महाजीमूत निस्वनाः ।वृत्तपिङ्गलनेत्रा हि महाभीमगतिस्वनाः ॥६-२७-४२॥।। ॥६-२७-४२॥
Vālmīki 6.27.43
मर्दयन्तीव ते सर्वे तस्थुर्लङ्काम् समीक्ष्य ते ।एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् ॥६-२७-४३॥।। ॥६-२७-४३॥
Vālmīki 6.27.44
जयार्थी नित्यमादित्यमुपतिष्ठति बुद्धिमान् ।नाम्ना पृथिव्याम् विख्यातो राजन् शत बली इति यः ॥६-२७-४४॥।। ॥६-२७-४४॥
Vālmīki 6.27.45
एष एव आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ।विक्रान्तो बलवान् शूरः पौरुषे स्वे व्यवस्थितः ॥६-२७-४५॥।। ॥६-२७-४५॥
Vālmīki 6.27.46
रामप्रियार्थम् प्राणानाम् दयाम् न कुरुते हरिः ।गजो गव अक्षो गवयो नलो नीलः च वानरः ।एक एक एव यूथानाम् कोटिभिर् दशभिर् वृतः ॥६-२७-४६॥।। ॥६-२७-४६॥
Vālmīki 6.27.47
तथा अन्ये वानर श्रेष्ठा विन्ध्य पर्वत वासिनः ।न शक्यन्ते बहुत्वात् तु सम्ख्यातुम् लघु विक्रमाः ॥६-२७-४७॥।। ॥६-२७-४७॥
Vālmīki 6.27.48
सर्वे महाराज महाप्रभावाः ।सर्वे महाशैल निकाश कायाः ।सर्वे समर्थाः पृथिवीम् क्षणेन ।कर्तुम् प्रविध्वस्त विकीर्ण शैलाम् ॥६-२७-४८॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷