🪷 युद्धकाण्ड · Sarga 26

Yuddha-Kāṇḍa · The Book of War · Sarga 26 · 48 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.26.1
तद् वचः पथ्यम् अक्लीबम् सारणेन अभिभाषितम् ।निशम्य रावणो राजा प्रत्यभाषत सारणम् ॥६-२६-१॥।। ॥६-२६-१॥
Vālmīki 6.26.2
यदि माम् अभियुन्जीरन् देव गन्धर्व दानवाः ।न एव सीताम् प्रदास्यामि सर्व लोक भयाद् अपि ॥६-२६-२॥।। ॥६-२६-२॥
Vālmīki 6.26.3
त्वम् तु सौम्य परित्रस्तो हरिभिर् निर्जितो भृशम् ।प्रतिप्रदानम् अद्य एव सीतायाः साधु मन्यसे ॥६-२६-३॥।। ॥६-२६-३॥
Vālmīki 6.26.4
को हि नाम सपत्नो माम् समरे जेतुम् अर्हति ।इति उक्त्वा परुषम् वाक्यम् रावणो राक्षस अधिपः ॥६-२६-४॥।। ॥६-२६-४॥
Vālmīki 6.26.5
आरुरोह ततः श्रीमान् प्रासादम् हिम पाण्डुरम् ।बहु ताल समुत्सेधम् रावणो अथ दिदृक्षया ॥६-२६-५॥।। ॥६-२६-५॥
Vālmīki 6.26.6
ताभ्याम् चराभ्याम् सहितो रावणः क्रोध मूर्चितः ।पश्यमानः समुद्रम् च पर्वतामः च वनानि च ॥६-२६-६॥।। ॥६-२६-६॥
Vālmīki 6.26.7
ददर्श पृथिवी देशम् सुसम्पूर्णम् प्लवम् गमैः ।तद् अपारम् असम्ख्येयम् वानराणाम् महद् बलम् ॥६-२६-७॥।। ॥६-२६-७॥
Vālmīki 6.26.8
आलोक्य रावणो राजा परिपप्रच्च सारणम् ।एषाम् वानर मुख्यानाम् के शूराः के महाबलाः ॥६-२६-८॥।। ॥६-२६-८॥
Vālmīki 6.26.9
के पूर्वम् अभिवर्तन्ते महाउत्साहाः समन्ततः ।केषाम् शृणोति सुग्रीवः के वा यूथप यूथपाः ॥६-२६-९॥।। ॥६-२६-९॥
Vālmīki 6.26.10
सारण आचक्ष्व मे सर्वम् के प्रधानाः प्लवम् गमाः ।सारणो राक्षस इन्द्रस्य वचनम् परिपृच्चतः ॥६-२६-१०॥।। ॥६-२६-१०॥
Vālmīki 6.26.11
आचचक्षे अथ मुख्यज्ञो मुख्याम्स् ताम्स् तु वन ओकसः ।एष यो अभिमुखो लंकाम् नर्दम्स् तिष्ठति वानरः ॥६-२६-११॥।। ॥६-२६-११॥
Vālmīki 6.26.12
यूथपानाम् सहस्राणाम् शतेन परिवारितः ।यस्य घोषेण महता सप्राकारा सतोरणा ॥६-२६-१२॥।। ॥६-२६-१२॥
Vālmīki 6.26.13
लंका प्रवेपते सर्वा सशैल वन कानना ।सर्व शाखा मृग इन्द्रस्य सुग्रीवस्य महात्मनः ॥६-२६-१३॥।। ॥६-२६-१३॥
Vālmīki 6.26.14
बल अग्रे तिष्ठते वीरो नीलो नाम एष यूथपः ।बाहू प्रगृह्य यः पद्भ्याम् महीम् गच्चति वीर्यवान् ॥६-२६-१४॥।। ॥६-२६-१४॥
Vālmīki 6.26.15
लंकाम् अभिमुखः कोपाद् अभीक्ष्णम् च विजृम्भते ।गिरि शृन्ग प्रतीकाशः पद्म किन्जल्क सम्निभः ॥६-२६-१५॥।। ॥६-२६-१५॥
Vālmīki 6.26.16
स्फोटयति अभिसम्रब्धो लान्गूलम् च पुनः पुनः ।यस्य लान्गूल शब्देन स्वनन्ति इव दिशो दश ॥६-२६-१६॥।। ॥६-२६-१६॥
Vālmīki 6.26.17
एष वानर राजेन सुर्ग्रीवेण अभिषेचितः ।यौवराज्ये अन्गदो नाम त्वाम् आह्वयति सम्युगे ॥६-२६-१७॥।। ॥६-२६-१७॥
Vālmīki 6.26.18
वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः ।राघवार्थे पराक्रान्तः शक्रार्थे वरुणो यथा ॥६-२६-१८॥।। ॥६-२६-१८॥
Vālmīki 6.26.19
एतस्य सा मतिः सर्वा यद्दृष्टा जनकात्मजा ।हनूमता वेगवता राघवस्य हितैषिणा ॥६-२६-१९॥।। ॥६-२६-१९॥
Vālmīki 6.26.20
बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान् ।परिगृह्याभियाति त्वाम् स्वेनानीकेन मर्दितुम् ॥६-२६-२०॥।। ॥६-२६-२०॥
Vālmīki 6.26.21
अनुवालिसुतस्यापि बलेन महता वृतः ।वीरस्तिष्ठति सम्ग्रामे सेतुहेतुरयम् नलः ॥६-२६-२१॥।। ॥६-२६-२१॥
Vālmīki 6.26.22
ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च ।उत्थाय च विजृम्भन्ते क्रोधेन हरि पुम्गवाः ॥६-२६-२२॥।। ॥६-२६-२२॥
Vālmīki 6.26.23
एते दुष्प्रसहा घोराः चण्डाः चण्ड पराक्रमाः ।अष्टौ शत सहस्राणि दश कोटि शतानि च ॥६-२६-२३॥।। ॥६-२६-२३॥
Vālmīki 6.26.24
य एनम् अनुगच्चन्ति वीराः चन्दन वासिनः ।एष आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-२४॥।। ॥६-२६-२४॥
Vālmīki 6.26.25
श्वेतो रजत सम्काशः सबलो भीम विक्रमः ।बुद्धिमान् वानरः शूरस् त्रिषु लोकेषु विश्रुतः ॥६-२६-२५॥।। ॥६-२६-२५॥
Vālmīki 6.26.26
तूर्णम् सुग्रीवम् आगम्य पुनर् गच्चति वानरः ।विभजन् वानरीम् सेनाम् अनीकानि प्रहर्षयन् ॥६-२६-२६॥।। ॥६-२६-२६॥
Vālmīki 6.26.27
यः पुरा गोमती तीरे रम्यम् पर्येति पर्वतम् ।नाम्ना सम्कोचनो नाम नाना नग युतो गिरिः ॥६-२६-२७॥।। ॥६-२६-२७॥
Vālmīki 6.26.28
तत्र राज्यम् प्रशास्ति एष कुमुदो नाम यूथपः ।यो असौ शत सहस्राणाम् सहस्रम् परिकर्षति ॥६-२६-२८॥।। ॥६-२६-२८॥
Vālmīki 6.26.29
यस्य वाला बहु व्यामा दीर्घ लान्गूलम् आश्रिताः ।ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोर कर्मणः ॥६-२६-२९॥।। ॥६-२६-२९॥
Vālmīki 6.26.30
अदीनो रोषणः चण्डः सम्ग्रामम् अभिकान्क्षति ।एष एव आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-३०॥।। ॥६-२६-३०॥
Vālmīki 6.26.31
यस् त्व् एष सिम्ह सम्काशः कपिलो दीर्घ केसरः ।निभृतः प्रेक्षते लंकाम् दिधक्षन्न् इव चक्षुषा ॥६-२६-३१॥।। ॥६-२६-३१॥
Vālmīki 6.26.32
विन्ध्यम् कृष्ण गिरिम् सह्यम् पर्वतम् च सुदर्शनम् ।राजन् सततम् अध्यास्ते रम्भो नाम एष यूथपः ॥६-२६-३२॥।। ॥६-२६-३२॥
Vālmīki 6.26.33
शतम् शत सहस्राणाम् त्रिम्शच् च हरि यूथपाः ।यम् यान्तम् वानरा घोराश्चण्डाश्चण्ड्पराक्रमाः ॥६-२६-३३॥।। ॥६-२६-३३॥
Vālmīki 6.26.34
परिवार्य अनुगच्चन्ति लंकाम् मर्दितुम् ओजसा ।यस् तु कर्णौ विवृणुते जृम्भते च पुनः पुनः ॥६-२६-३४॥।। ॥६-२६-३४॥
Vālmīki 6.26.35
न च सम्विजते मृत्योर् न च यूथाद् विधावति ।प्रकम्पते च रोषेन तिर्यक्च पुनरीक्षते ॥६-२६-३५॥।। ॥६-२६-३५॥
Vālmīki 6.26.36
पश्यन् लाङ्गूलमपि च क्स्वेडत्येष महाबलः ।महाबलो वीत भयो रम्यम् साल्वेय पर्वतम् ॥६-२६-३६॥।। ॥६-२६-३६॥
Vālmīki 6.26.37
राजन् सततम् अध्यास्ते शरभो नाम यूथपः ।एतस्य बलिनः सर्वे विहारा नाम यूथपाः ॥६-२६-३७॥।। ॥६-२६-३७॥
Vālmīki 6.26.38
राजन् शत सहस्राणि चत्वारिम्शत् तथैव च ।यस् तु मेघ इव आकाशम् महान् आवृत्य तिष्ठति ॥६-२६-३८॥।। ॥६-२६-३८॥
Vālmīki 6.26.39
मध्ये वानर वीराणाम् सुराणाम् इव वासवः ।भेरीणाम् इव सम्नादो यस्य एष श्रूयते महान् ॥६-२६-३९॥।। ॥६-२६-३९॥
Vālmīki 6.26.40
घोरः शाखा मृग इन्द्राणाम् सम्ग्रामम् अभिकान्क्षताम् ।एष पर्वतम् अध्यास्ते पारियात्रम् अनुत्तमम् ॥६-२६-४०॥।। ॥६-२६-४०॥
Vālmīki 6.26.41
युद्धे दुष्प्रसहो नित्यम् पनसो नाम यूथपः ।एनम् शत सहस्राणाम् शत अर्धम् पर्युपासते ॥६-२६-४१॥।। ॥६-२६-४१॥
Vālmīki 6.26.42
यूथपा यूथप श्रेष्ठम् येषाम् यूथानि भागशः ।यस् तु भीमाम् प्रवल्गन्तीम् चमूम् तिष्ठति शोभयन् ॥६-२६-४२॥।। ॥६-२६-४२॥
Vālmīki 6.26.43
स्थिताम् तीरे समुद्रस्य द्वितीय इव सागरः ।एष दर्दर सम्काशो विनतो नाम यूथपः ॥६-२६-४३॥।। ॥६-२६-४३॥
Vālmīki 6.26.44
पिबमः चरति पर्णाशाम् नदीनाम् उत्तमाम् नदीम् ।षष्टिः शत सहस्राणि बलम् अस्य प्लवम् गमाः ॥६-२६-४४॥।। ॥६-२६-४४॥
Vālmīki 6.26.45
त्वाम् आह्वयति युद्धाय क्रथनो नाम यूथपः ।विक्रान्ता बलवन्तश्च यथा यूथानि भागशः ॥६-२६-४५॥।। ॥६-२६-४५॥
Vālmīki 6.26.46
यस् तु गैरिक वर्ण आभम् वपुः पुष्यति वानरः ।अवमत्य सदा सर्वान्वानरान् बलदर्पितः ॥६-२६-४६॥।। ॥६-२६-४६॥
Vālmīki 6.26.47
गवयो नाम तेजस्वी त्वाम् क्रोधाद् अभिवर्तते ।एनम् शत सहस्राणि सप्ततिः पर्युपासते ।एष आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-४७॥।। ॥६-२६-४७॥
Vālmīki 6.26.48
एते दुष्प्रसहा घोरा बलिनः काम रूपिणः ।यूथपा यूथप श्रेष्ठा येषाम् सम्ख्या न विद्यते ॥६-२६-४८॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷