🪷 युद्धकाण्ड · Sarga 35
Yuddha-Kāṇḍa · The Book of War · Sarga 35 · 38 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 6.35local sarga route with all Sanskrit ślokasYuddha-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
तेन शन्ख विमिश्रेण भेरी शब्देन राघवः ।उपयतो महा बाहू रामह् पर पुरम् जयः ॥६-३५-१॥।।
तम् निनादम् निशम्य अथ रावणो राक्षस ईश्वरः ।मुहूर्तम् ध्यानम् आस्थाय सचिवान् अभ्युदैक्षत ॥६-३५-२॥।।
अथ तान् सचिवाम्स् तत्र सर्वान् आभाष्य रावणः ।सभाम् सम्नादयन् सर्वाम् इत्य् उवाच महा बलः ॥६-३५-३॥।।
जगत्पम्तापनः क्रूरोगर्हयन् राक्षसेश्वरः ।तरणम् सागरस्य अपि विक्रमम् बल सम्चयम् ॥६-३५-४॥।।
यद् उक्तवन्तो रामस्य भवन्तस् तन् मया श्रुतम् ।भवतश्चाप्यहम् वेद्मि युद्धे सत्यपराक्रमान् ॥६-३५-५॥।।
तूष्णीकानीक्षतोन्योन्यम् विदित्वाम् रामविक्रमम् ।ततस् तु सुमहा प्राज्नो माल्यवान् नाम राक्षसः ॥६-३५-६॥।।
रावणस्य वचः श्रुत्वा मातुः पैतामहो अब्रवीत् ।विद्यास्वभिविनीतो यो राजा राजन् नय अनुगः ॥६-३५-७॥।।
स शास्ति चिरम् ऐश्वर्यम् अरीम्श्च कुरुते वशे ।सम्दधानो हि कालेन विगृह्णम्सः चारिभिः सह ॥६-३५-८॥।।
स्व पक्ष वर्धनम् कुर्वन् महद् ऐश्वर्यम् अश्नुते ॥हीयमानेन कर्तव्यो राज्ना सम्धिः समेन च ॥६-३५-९॥।।
न शत्रुम् अवमन्येत ज्यायान् कुर्वीत विग्रहम् ।तन्मह्यम् रोचते सम्धिः सह रामेण रावण ॥६-३५-१०॥।।
यद् अर्थम् अभियुक्ताः स्म सीता तस्मै प्रदीयताम् ।तस्य देव ऋषयः सर्वे गन्धर्वासः च जय एषिणः ॥६-३५-११॥।।
विरोधम् मा गमस् तेन सम्धिस् ते तेन रोचताम् ।असृजद् भगवान् पक्षौ द्वाव् एव हि पितामहः ॥६-३५-१२॥।।
सुराणाम् असुराणाम् च धर्म अधर्मौ तद् आश्रयौ ।धर्मो हि श्रूयते पक्षः सुराणाम् च महात्मनाम् ॥६-३५-१३॥।।
अधर्मो रक्षसाम् पक्षोह्य असुराणाम् च रावण ।धर्मो वै ग्रसते अधर्मम् ततः कृतम् अभूद् युगम् ॥६-३५-१४॥।।
अधर्मो ग्रसते धर्मम् ततस् तिष्यः प्रवर्तते ।तत् त्वया चरता लोकान् धर्मो विनिहतो महान् ॥६-३५-१५॥।।
अधर्मः प्रगृहीतसः च तेन अस्मद् बलिनः परे ।स प्रमादाद् विवृद्धस् ते अधर्मो अहिर् ग्रसते हि नः ॥६-३५-१६॥।।
विवर्धयति पक्षम् च सुराणाम् सुर भावनः ।विषयेषु प्रसक्तेन यत् किम्चित् कारिणा त्वया ॥६-३५-१७॥।।
Rषीणाम् अग्नि कल्पानाम् उद्वेगो जनितो महान् ।तेषाम् प्रभावो दुर्धर्षः प्रदीप्त;इव पावकः ॥६-३५-१८॥।।
तपसा भावित आत्मानो धर्मस्य अनुग्रहे रताः ।मुख्यैर् यज्नैर् यजन्त्य् एते नित्यम् तैस् तैर् द्विजातयः ॥६-३५-१९॥।।
जुह्वत्य् अग्नीम्सः च विधिवद् वेदाम्सः च उच्चैर् अधीयते ।अभिभूय च रक्षाम्सि ब्रह्म घोषान् उदैरयन् ॥६-३५-२०॥।।
दिशो विप्रद्रुताः सर्वे स्तनयित्नुर् इव उष्णगे ।ऋषीणाम् अग्नि कल्पानाम् अग्नि होत्र समुत्थितः ॥६-३५-२१॥।।
आदत्ते रक्षसाम् तेजो धूमो व्याप्य दिशो दश ।तेषु तेषु च देशेषु पुण्येषु च दृढ व्रतैः ॥६-३५-२२॥।।
चर्यमाणम् तपस् तीव्रम् सम्तापयति राक्षसान् ।देवदानवयक्षेभो गृहीतश्च वरस्त्वया ॥६-३५-२३॥।।
मनुष्या वानरा ऋक्षा गोलाङ्गूला महाबलाः ।बलवन्त इहागम्य गर्जन्ति दृढविक्रमाः ॥६-३५-२४॥।।
उत्पातान् विविधान् दृष्ट्वा घोरान् बहु विधाम्स् तथा ।विनाशम् अनुपश्यामि सर्वेषाम् रक्षसाम् अहम् ॥६-३५-२५॥।।
खराभिस् तनिता घोरा मेघाह् प्रतिभयम् करः ।शोणितेन अभिवर्षन्ति लन्काम् उष्णेन सर्वतः ॥६-३५-२६॥।।
रुदताम् वाहनानाम् च प्रपतन्त्य् अस्र बिन्दवः ।ध्वजा ध्वस्ता विवर्णासः च न प्रभान्ति यथा पुरम् ॥६-३५-२७॥।।
व्याला गोमायवो ग्R^ इध्रा वाशन्ति च सुभैरवम् ।प्रविश्य लन्काम् अनिशम् समवायाम्सः च कुर्वते ॥६-३५-२८॥।।
कालिकाः पाण्डुरैर् दन्तैः प्रहसन्त्य् अग्रतः स्थिताः ।स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च ॥६-३५-२९॥।।
गृहाणाम् बलि कर्माणि श्वानः पर्युपभुन्जते ।खरा गोषु प्रजायन्ते मूषिका नकुलैः सह ॥६-३५-३०॥।।
मार्जारा द्वीपिभिः सार्धम् सूकराः शुनकैः सह ।किम्नरा राक्षसैसः च अपि समेयुर् मानुषैः सह ॥६-३५-३१॥।।
पाण्डुरा रक्त पादासः च विहगाः काल चोदिताः ।राक्षसानाम् विनाशाय कपोता विचरन्ति च ॥६-३५-३२॥।।
वीचीकूचीति वाशन्त्यः शारिका वेश्मसु स्थिताः ।पतन्ति ग्रथितासः च अपि निर्जिताः कलह एषिणः ॥६-३५-३३॥।।
पक्षिणश्च मृगाः सर्वे प्रत्यादित्यम् रुदन्ति ते ।करालो विकटो मुण्डः पुरुषः कृष्ण पिन्गलः ॥६-३५-३४॥।।
कालो गृहाणि सर्वेषाम् काले काले अन्ववेक्षते ।एतान्य् अन्यानि दुष्टानि निमित्तान्य् उत्पतन्ति च ॥६-३५-३५॥।।
विष्णुम् मन्यामहे रामम् मानुषम् देहम् आस्थितम् ।न हि मानुष मात्रो असौ राघवो दृढ विक्रमः ॥६-३५-३६॥।।
येन बद्धः समुद्रस्य स सेतुः परम अद्भुतः ।कुरुष्व नर राजेन सम्धिम् रामेण रावण ॥६-३५-३७॥।।
ज्ञात्वावधार्य कर्माणि क्रियतामायतिक्षमम् ।इदम् वचस् तत्र निगद्य माल्यवन् ।परीक्ष्य रक्षो अधिपतेर् मनः पुनः ।अनुत्तमेषु उत्तम पौरुषो बली ।बभूव तूष्णीम् समवेक्ष्य रावणम् ॥६-३५-३८॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 34
- Next: Yuddha-Kāṇḍa Sarga 36 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷